सूत उवाच॥
अथ ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चितम्॥
प्रायश्चित्तं शिवप्रोक्तं यतीनां पापशोधनम्॥ ९०.१ ॥
पापं हि त्रिविधं ज्ञेयं वाङ्मनः कायसम्भवम्॥
सततं हि दिवा रात्रौ येनेदं वेष्ट्यते जगत्॥ ९०.२ ॥
तत्कर्मणा विनाप्येष तिष्ठतीति परा श्रुतिः॥
क्षणमेवं प्रयोज्यं तु आयुष्यं तु विधारणम्॥ ९०.३ ॥
भवेद्योगोऽप्रमत्तस्य योगो हि परमं बलम्॥
न हि योगात्परं किञ्चिन्नराणां दृश्यते शुभम्॥ ९०.४ ॥
तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः॥
अविद्यां विद्यया जित्वा प्राप्यैश्वर्यमनुत्तमम्॥ ९०.५ ॥
दृष्ट्वापरावरं धीराः परं गच्छन्ति तत्पदम्॥
व्रतानि यानि भीक्षूणां तथैवोपव्रतानि च॥ ९०.६ ॥
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते॥
उपेत्य तु स्त्रियं कामात्प्रायश्चित्तं विनिर्दिशेत्॥ ९०.७ ॥
प्राणायामसमायुक्तं चरेत्सान्तपनं व्रतम्॥
ततश्चरति निर्देशात्कृच्छ्रं चान्ते समाहितः॥ ९०.८ ॥
पुनराश्रममागत्य चरेद्भिक्षुरतन्द्रितः॥
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः॥ ९०.९ ॥
तथापि न च कर्तव्यं प्रसङ्गो ह्येष दारुणः॥
अहोरात्रपवासश्च प्राणायामशतं तथा॥ ९०.१० ॥
असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना॥
परमापद्गतेनापि न कार्यं स्तेयमप्युत॥ ९०.११ ॥
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः॥
हिंसा ह्येषा परा सृष्टा स्तैन्यं वै कथितं तथा॥ ९०.१२ ॥
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः॥
स तस्य हरते प्राणान्यो यस्य हरते धनम्॥ ९०.१३
एवं कृत्वा सुदुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः॥
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम्॥ ९०.१४ ॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः॥
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः॥
पुनर्निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः॥ ९०.१५ ॥
अहिंसा सर्वभूतानां कर्मणा मनसा गिरा॥
अकामादपि हिंसेत यदि भिक्षुः पशून् कृमीन्॥ ९०.१६ ॥
कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथापि वा॥
स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि॥ ९०.१७ ॥
तेन धारयितव्या वै प्राणायामास्तु षोटश॥
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते॥ ९०.१८ ॥
त्रिरात्रमुपवासाश्च प्राणायामशतं तथा॥
रात्रौ स्कन्नः शुचिः स्नात्वा द्वादशैव तु धारणा॥ ९०.१९ ॥
प्राणायामेन शुद्धात्मा विरजा जायते द्विजाः॥
एकान्नं मधुमांसं वा अश्रृतान्नं तथैव च॥ ९०.२० ॥
अभोज्यानि यतीनां तु प्रत्यक्षलवणानि च॥
एकैकातिक्रमात्तेषां प्रायश्चित्तं विधीयते॥ ९०.२१ ॥
प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते॥
व्यतिक्रमाश्च ये केचिद्वाङ्मनः कायसम्भवाः॥ ९०.२२ ॥
सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत्॥ ९०.२३ ॥
चरेद्धि शुद्धः समलोष्ठकाञ्चनः समस्तभूतेषु च सत्समाहितः॥
स्थानं ध्रुवं शाश्वतमव्ययं तु परं हि गत्वा न पुनर्हि जायते॥ ९०.२४ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे यतिप्रायाश्चित्तं नाम नवतितमोऽध्यायः॥ ९० ॥