सूत उवाच॥
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्॥
यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात्॥ ८९.१ ॥
ब्रह्मणा कथितं पूर्वं सर्वभूतहिताय वै॥
सङ्क्षेपात्सर्ववेदार्थं सञ्चयं ब्रह्मवादिनाम्॥ ८९.२ ॥
उदयार्थं तु शौचानां मुनीनामुत्तमं पदम्॥
यस्तत्राथाप्रमत्तः स्यात्स मुनिर्नावसीदति॥ ८९.३ ॥
मानावमानौ द्वावेतौ तावेवाहुर्विषामृते॥
अवमानोऽमृतं तत्र सन्मानो विषमुच्यते॥ ८९.४ ॥
गुरोरपि हिते युक्तः स तु संवत्सरं वसेत्॥
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत्॥ ८९.५ ॥
प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम्॥
अविरोधेन धर्मस्य चरेत पृथिवीमिमाम्॥ ८९.६ ॥
चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत्॥
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत्॥ ८९.७ ॥
मत्स्यगृह्यस्य यत्पापंषण्मासाभ्यन्तरे भवेत्॥
एकाहं तत्समं ज्ञेयमपूतं यज्जलं भवेत्॥ ८९.८ ॥
अपूतोदकपाने तु जपेच्च शतपञ्चकम्॥
अघोरलक्षणं मन्त्रं ततः शुद्धिमवाप्नुयात्॥ ८९.९ ॥
अथवा पूजयेच्छम्भुं घृतस्रानादिविस्तरैः॥
त्रिधा प्रदक्षिणीकृत्य शुद्ध्यते नात्र संशयः॥ ८९.१० ॥
आतिथ्य श्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित्॥
एवं ह्यहिंसको योगी भवेदिति विचारितम्॥ ८९.११ ॥
वह्नौ विधूमेऽत्यङ्गारे सर्वस्मिन्भुक्तवज्जने॥
चरेत्तुमतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः॥ ८९.१२ ॥
अथैनमवमन्यन्ते परे परिवन्ति च॥
तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन्॥ ८९.१३ ॥
भैक्ष्यं चरेद्वनस्थेषु यायावरगृहेषु च॥
श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते॥ ८९.१४ ॥
अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद्द्विजाः॥
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु॥ ८९.१५ ॥
अत ऊर्ध्वं पुनश्चापि अदुष्टापतितेषु च॥
भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते॥ ८९.१६ ॥
भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च॥
फलमूलादि पक्वं वा कणपिण्याकसक्तवः॥ ८९.१७ ॥
इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः॥
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम्॥ ८९.१८ ॥
अब्विन्दुं यः कुशाग्रेण मासिमासि समश्नुते॥
न्यायतो यश्चरेद्भैक्ष्यं पूर्वोक्तात्स विशिष्यते॥ ८९.१९ ॥
जरामरणगर्भेभ्यो भीतस्य नरकादिषु॥
एवं दाययते तस्मात्तद्भैक्ष्यमिति संस्मृतम्॥ ८९.२० ॥
दधिभक्षाः पयोभक्षा ये चान्ये जीवक्षीणकाः॥
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम्॥ ८९.२१ ॥
भस्मशायी भवेन्नित्यं भिक्षाचारी जितेन्द्रियः॥
य इच्छेत्परमं स्थानं व्रतं पाशुपतं चरेत्॥ ८९.२२ ॥
योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं भवेत्॥
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत्॥ ८९.२३ ॥
अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च॥
व्रतानि पञ्च भिक्षूणामहिंसा परमा त्विह॥ ८९.२४ ॥
अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम्॥
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः॥ ८९.२५ ॥
बीजयोनिगुणा वस्तुबन्धः कर्मभिरेव च॥
यथा द्विप इवारण्ये मनुष्याणां विधीयते॥ ८९.२६ ॥
देवैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञाज्जाप्यं ज्ञानमाहुश्च जाप्यात्॥
ज्ञानद्ध्यानां सङ्गरागादपेतं तस्मिन्प्राप्ते शाश्वतस्योपलम्भः॥ ८९.२७ ॥
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेषु चार्जवम्॥
अतिन्द्रियं ज्ञानमिदं तथा शिवं प्राहुस्तथा ज्ञानविशुद्धबुद्धयः॥ ८९.२८ ॥
समाहिता ब्रह्मपरोप्रमादी शुचिस्ततैकान्तरतिर्जितेन्द्रियः॥
समाप्नुयाद्योगमिमं महात्मा महर्षयश्चैवमनिन्दितामलाः॥ ८९.२९ ॥
प्राप्यतेऽभिमतान् देशानङ्कुशेन निवारितः॥
एतन्मार्गेण शुद्धेन दग्धबीजो ह्यकल्मषः॥ ८९.३० ॥
सदाचाररताः शान्ताः स्वधर्मपरिपालकाः॥
सर्वाल्लोँकान् विनिर्जित्य ब्रह्मलोकं व्रजन्ति ते॥ ८९.३१ ॥
पितामहेनोपदिष्टो धर्मः साक्षात्सनातनः॥
सर्वलोकोपकारार्थं श्रृणुध्वं प्रवदामि वः॥ ८९.३२ ॥
गुरूपदेशयुक्तानां वृद्धानां क्रमवर्त्तिनाम्॥
अभ्युत्थानादिकं सर्वं प्रणामं चैव कारयेत्॥ ८९.३३ ॥
अष्टाङ्गप्रणिपातेनत्रिधा न्यस्तेन सुव्रताः॥
त्रिःप्रदक्षिणयोगेन वन्द्यो वै ब्रह्मणो गुरुः॥ ८९.३४ ॥
ज्येष्ठान्येपि च ते सर्वे वन्दनीया विजानता॥
आज्ञाभङ्गं न कुर्वीत यदीच्छत्सिद्धिमुत्तमाम्॥ ८९.३५ ॥
धातुशून्यबिलक्षेत्रक्षुद्रमन्त्रोपजीवनम्॥
विषग्रहविडम्बादीन्वर्जयेत्सर्वयत्नतः॥ ८९.३६ ॥
कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत्सदा॥
अतिहासमवष्टम्भं लीलास्वेच्छाप्रवर्तनम्॥ ८९.३७ ॥
वर्जयेत्सर्वयत्नेन गुरूणामपि सन्निधौ॥
तद्वाक्यप्रतिकूलं च अयुक्तं वै गुरोर्वचः॥ ८९.३८ ॥
न वदेत्सर्वयत्नेन अनिष्टं न स्मरेत्सदा॥
यतीनामासनं वस्त्रं दण्डाद्यं पादुके तथा॥ ८९.३९ ॥
माल्यं च शयनस्थानं पात्रञ्छायां च यत्नतः॥
यज्ञोपकरणाङ्गं च स्पृशेद्धै पदेन च॥ ८९.४० ॥
देवद्रोहं गुरुद्रोहं न कुर्यात्सर्वयत्नतः॥
कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत्॥ ८९.४१ ॥
देवद्रोहगुरुद्रोहात्कोटिमात्रेण शुध्यति॥
महापातकशुद्ध्यर्थं तथैव च यथाविधि॥ ८९.४२ ॥
पातकी च तदर्धेन शुध्यते वृत्तवान्यदि॥
उपपातकिनः सर्वे तदर्धेनैव सुव्रताः॥ ८९.४३ ॥
सन्ध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुद्ध्यति॥
आह्निकच्छेदने जाते शतमेकमुदाहृतम्॥ ८९.४४ ॥
लङ्घने समयानां तु अभक्ष्यस्य च भक्षणे॥
अवाच्यवाचनं चैव सहस्राच्छुद्धिरुच्यते॥ ८९.४५ ॥
काकोलूककपोतानां पक्षिणामपि घातने॥
शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः॥ ८९.४६ ॥
यः पुनस्तत्त्ववेत्ता च ब्रह्मविद्ब्रह्मणोत्तमः॥
स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा॥ ८९.४७ ॥
नैवमात्मविदामस्ति प्रायश्चित्तानि चोदना॥
विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः॥ ८९.४८ ॥
योगध्यानैकनिष्ठाश्च निर्लेपाः काञ्चनं यथा॥
शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया॥ ८९.४९ ॥
उद्धृतानुष्णपेनाभिः पूताभिर्वस्त्रचक्षुषा॥
अद्भिः समाचरेत्सर्वं वर्जयेत्कलुषोदकम्॥ ८९.५० ॥
गन्धवर्णरसैर्दुष्टमशुचिस्थानसंस्थितम्॥
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम्॥ ८९.५१ ॥
सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत्॥
वस्त्रशौचान्वितः कुर्यात्सर्वकार्याणि वै द्विजाः॥ ८९.५२ ॥
नमस्कारादिकं सर्वं गुरुशुश्रूषणादिकम्॥
वस्त्रशौचविहीनात्मा ह्यशुचिर्नात्र संशयः॥ ८९.५३ ॥
देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते॥
इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे॥ ८९.५४ ॥
वर्जयेत्सर्वयत्नेन वासोन्यौर्विधृतं द्विजाः॥
कौशयाविकयो रुक्षैः क्षौमाणां गौरसर्षपैः॥ ८९.५५ ॥
श्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः॥
चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम्॥ ८९.५६ ॥
वल्कलानां तु सर्वेषां छत्रचामरयोरपि॥
चैलवच्छौचमाख्यातं ब्रह्मविद्भिर्मुनीश्वरैः॥ ८९.५७ ॥
भस्मना शुद्ध्यते कांस्यं क्षारेणायसमुच्यते॥
ताम्रमम्लेन वै विप्रास्त्रपुसीसकयोरपि॥ ८९.५८ ॥
हैममद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः॥
मण्यश्मशङ्खमुक्तानां शौचं तैजसवत्स्मृतम्॥ ८९.५९ ॥
अग्नेरपां च संयोगादत्यन्तोपहतस्य च॥
रसानामिह सर्वषां शुद्धिरुत्प्लवनं स्मृतम्॥ ८९.६० ॥
तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम्॥
उष्णेन वारिणा शुद्धिस्तथा स्रुक्स्रुवयोरपि॥ ८९.६१ ॥
तथैव यज्ञपात्राणां मुशलोलूखलस्य च॥
श्रृङ्गास्थिदारुदन्तानां तक्षणेनैव शोधनम्॥ ८९.६२ ॥
संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम्॥
असंहतानां द्रव्याणं प्रत्येकं शौचमुच्यते॥ ८९.६३ ॥
अभुक्तराशिधान्यानामेकदेशस्य धूषणे॥
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशाम्भसा॥ ८९.६४ ॥
शाकमूलफलादीनां धान्यवच्छुद्धिरिष्यते॥
मार्जनोन्मार्जनैर्वेश्म पुनःपाकेन मृन्मयम्॥ ८९.६५ ॥
उल्लेखनेनाञ्जनेन तथा सम्मार्जनेन च॥
गोनिवासेन वै शुद्धा सेचनेन धरा स्मृता॥ ८९.६६ ॥
भूमिस्थमुदकंशुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत्॥
अव्याप्तं यदमेध्येन गन्धवर्णरसान्वितम्॥ ८९.६७ ॥
वत्सः शुचिः प्रस्रवणे शकुनिः फलपातने॥
स्वादारास्यं गृहस्थानां रतौ भार्याभिकाङ्क्षया॥ ८९.६८ ॥
हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि॥
कुशाम्बुना सुसम्प्रोक्ष्य गृह्णीयाद्धर्मवित्तमः॥ ८९.६९ ॥
पण्यं प्रसारितं चैव वर्णाश्रमविभागशः॥
शुचिराकरजं तेषां श्वा मृगग्रहणे शुचिः॥ ८९.७० ॥
छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः॥
रजोभूर्वायुरग्निश्च मेध्यानि स्पर्शने सदा॥ ८९.७१ ॥
सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा॥
ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः॥ ८९.७२ ॥
पादौ स्पृशन्ति ये चापि पराचमनबिन्दवः॥
ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत्॥ ८९.७३ ॥
कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम्॥
सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा॥ ८९.७४ ॥
यूपं चाण्डालकाद्यांश्च स्पृष्ट्वा स्नानेन शुध्यति॥
रजस्वलां सूतिकां च न स्पृशेदन्त्यजामपि॥ ८९.७५ ॥
सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः॥
संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति॥ ८९.७६ ॥
नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम्॥
नैष्ठिकानां नृपाणां च मण्डलीनां च सुव्रताः॥ ८९.७७ ॥
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत्॥
वैखानसानां विप्राणां पतितानामसम्भवात्॥ ८९.७८ ॥
असञ्चयद्विजानां च स्नानमात्रेण नान्यथा॥
तथा सन्निहितानां च यज्ञार्थं दीक्षितस्य च॥ ८९.७९ ॥
एकाहाद्यज्ञयाजीनां शुद्धिरुक्ता स्वयम्भुवा॥
ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम्॥ ८९.८० ॥
सूतकं प्रेतकं नास्तित्र्यहादूर्ध्वममुत्र वै॥
अवार्गेकादशाहान्तं बान्धवानां द्विजोत्तमाः॥ ८९.८१ ॥
स्नानमात्रेण वै शुद्धिर्मरणे समुपस्थिते॥
तत ऋतुत्रयादर्वागेकाहः परिगीयते॥ ८९.८२ ॥
सप्तवर्षात्ततश्चार्वाक् त्रिरात्रं हि ततः परम्॥
दशाहं ब्राह्मणानां वै प्रथमेऽहनि वा पितुः॥ ८९.८३ ॥
दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः॥
अर्वाक् त्रिवर्षात्स्नानेन बान्धवानां पितुः सदा॥ ८९.८४ ॥
अष्टब्दादेकरात्रेण शुद्धिः स्याद्बान्धवस्य तु॥
द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः॥ ८९.८५ ॥
सपिण्डता च पुरुषे सप्तमे विनिवर्तते॥
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्॥ ८९.८६ ॥
ततः सन्निहितो विप्रश्चार्वाक् पूर्वं तदेव वै॥
संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति॥ ८९.८७ ॥
स्पृष्ट्वा प्रेतन्त्रिरात्रेण धर्मार्थं स्नानमुच्यते॥
दाहकानां च नेतॄणां स्नानमात्रमबान्धवे॥ ८९.८८ ॥
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति॥
आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते॥ ८९.८९ ॥
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः॥
भूपानां मण्डलीनां च सद्यो नीराष्ट्रवासिनाम्॥ ८९.९० ॥
केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः॥
नाभिषिक्तस्य चाशौचं सम्प्रमादेषु वै रणे॥ ८९.९१ ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति॥
इति सङ्क्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा॥ ८९.९२ ॥
अशौचं चानुपूर्व्येण यतीनां नैव विद्यते॥
त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः॥ ८९.९३ ॥
कृते सकृद्युगवशाज्जायन्ते वै सहैव तु॥
प्रयान्ति च महाभागा भार्याभिः कुरवो यथा॥ ८९.९४ ॥
वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः॥
भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ॥ ८९.९५ ॥
महावीते सुवीते च जम्बूद्वीपे तथाष्टसु॥
शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा॥ ८९.९६ ॥
रसोल्लासा कृते वृत्तिस्त्रेतायां गृहवृक्षजा॥
सैवार्तवकृताद्दोषाद्रागद्वेषादिभिर्नृणाम्॥ ८९.९७ ॥
मैथुनात्कामतो विप्रास्तथैव परुषादिभिः॥
यवाद्याः सम्प्रजायन्ते ग्राम्यारण्याश्चतुर्दश॥ ८९.९८ ॥
ओषध्यश्च रजोदोषाः स्त्रीणां रागादिभिर्नृणाम्॥
अकालकृष्टा विध्वस्ताः पुनरुत्पादितास्तथा॥ ८९.९९ ॥
तस्मात्सर्वप्रयत्नेन न सम्भाष्या रजस्वला॥
प्रथमेऽहनि चाण्डाली यथावज्या तथाङ्गना॥ ८९.१०० ॥
द्वितीयेऽहनि विप्रा हि यथा वै ब्रह्मघातिनी॥
तृतीयेऽह्नि तदर्धेन चतुर्थेऽहनि सुव्रता॥ ८९.१०१ ॥
स्नात्वार्धमासात्संशुद्धा ततः शुद्धिर्भविष्यति॥
आषोडशात्ततः स्त्रीणां मूत्रवच्छौचमिष्यते॥ ८९.१०२ ॥
पञ्चरात्रं तथास्पृश्या रजसा वर्तते यदि॥
सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा॥ ८९.१०३ ॥
स्नाने शौचं तथा गानं रोदनं हसनं तथा॥
यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम्॥ ८९.१०४ ॥
दिवास्वप्नं विशेषेण तथा वै दन्तधावनम्॥
मैथुनं मानसं वापि वाचिकं देवतार्चनम्॥ ८९.१०५ ॥
वर्जयेत्सर्वयत्नेन नमस्कारं रजस्वला॥
रजस्वलाङ्गनास्पर्शसम्भाषे च रजस्वला॥ ८९.१०६ ॥
सन्त्यागं चैव वस्त्राणां वर्जयेत्सर्वयत्नतः॥
स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला॥ ८९.१०७ ॥
ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः विबेत्॥
केवलं पञ्चगव्यं वा क्षीरं वा चात्मशुद्धये॥ ८९.१०८ ॥
चतुर्थ्यां स्त्री न गम्या तु गतोल्पायुः प्रसूयते॥
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम्॥ ८९.१०९ ॥
दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते॥
कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः॥ ८९.११० ॥
रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत्पुमान्॥
समे नपुसङ्कं चैव पञ्चम्यां कन्यका भवेत्॥ ८९.१११ ॥
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत्॥
पुत्रत्वं व्यञ्जयेत्तस्य जातपुत्रो महाद्युतिः॥ ८९.११२ ॥
पुमिति नरकस्याख्या दुःखं च नरकं विदुः॥
पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते॥ ८९.११३ ॥
सप्तम्यां चैव कन्यार्थि गच्छेत्सैव प्रसूयते॥
अष्टम्यां सर्वसम्पन्नं तनयं सम्प्रसूयते॥ ८९.११४ ॥
नवम्यां दारिका यार्थि दशम्यां पण्डिता भवेत्॥
एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत्॥ ८९.११५ ॥
द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम्॥
त्रयोदश्यां जडां नारीं सर्वसङ्करकारिणीम्॥ ८९.११६ ॥
जनयत्यङ्गना यस्मान्न गच्छेत्सर्वयत्नतः॥
चतुर्दश्यां यदा गच्चेत्सा पुत्रजननी भवेत्॥ ८९.११७ ॥
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम्॥
स्त्रीणां वै मथुने काले वामपार्श्वे प्रभञ्जनः॥ ८९.११८ ॥
चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत्॥
स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते॥ ८९.११९ ॥
उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम्॥
इत्येवं सम्प्रसङ्गेन यतीनां धर्मसङ्ग्रहे॥ ८९.१२० ॥
सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः॥
यः पठेच्छूणुयाद्वापि सदाचारं शुचिर्नरः॥ ८९.१२१ ॥
श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान्॥
ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते॥ ८९.१२२ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सदाचारकथनं नामेकोननवति तमोऽध्यायः॥ ८९ ॥