०८८

ऋषय ऊचुः॥
केन योगेन वै सूत गुणप्राप्तिः सतामिह॥
अणिमादिगुणोपेता भवन्त्येवेह योगिनः॥
तत्सर्वं विस्तरात्सूत वक्तुमर्हसि साम्प्रतम्॥ ८८.१ ॥

सूत उवाच॥
अत ऊर्ध्वं प्रवक्ष्यामि योगं परमदुर्लभम्॥
पञ्चधा संस्मरेदादौ स्थाप्य चित्ते सनातनम्॥ ८८.२ ॥

कल्पयेच्चासनं पद्मं सोमसूर्याग्निसंयुतम्॥
षड्विंशच्छक्तिसंयुक्तमष्टधा च द्विजोत्तमाः॥ ८८.३ ॥

ततः षोडशधा चैव पुनर्द्वादशधा द्विजाः॥
स्मरेच्च तत्तथा मध्ये देव्या देवमुमापतिम्॥ ८८.४ ॥

अष्टशक्तिसमायुक्तमष्टमूर्तिमजं प्रभुम्॥
ताभिश्चाष्टविधा रुद्राश्चतुःषष्टिविधाः पुनः॥ ८८.५ ॥

शक्तयश्च तथा सर्वा गुणाष्टकसमन्विताः॥
एवं स्मरेत्क्रमेणैव लब्ध्वा ज्ञानमनुत्तमम्॥ ८८.६ ॥

एवं पाशुपतं योगं मोक्षसिद्धिप्रदायकम्॥
तस्याणिमादयो विप्रा नान्यथा कर्मकोटिभिः॥ ८८.७ ॥

तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम्॥
तत्सर्वं क्रमयोगेन ह्युच्यमानं निबोधत॥ ८८.८ ॥

अणिमा लघिमा चैव महिमा प्राप्तिरेव च॥
प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः॥ ८८.९ ॥

वशित्वमथ सर्वत्र यत्र कामावसायिता॥
तच्चापि त्रिविधं ज्ञेयमैश्वर्यं सार्वकामिकम्॥ ८८.१० ॥

सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते॥
सावद्यं नाम यत्तत्र पञ्चभूतात्मकं स्मृतम्॥ ८८.११ ॥

इन्द्रियाणि मनश्चैव अहङ्कारश्च यः स्मृतः॥
तत्र सूक्ष्मप्रवृत्तिस्तु पञ्चभूतात्मिका पुनः॥ ८८.१२ ॥

इन्द्रियाणि मनश्चित्तबुद्ध्यहङ्कारसञ्ज्ञितम्॥
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च॥ ८८.१३ ॥

संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते॥
पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते॥ ८८.१४ ॥

तस्य रूपं प्रवक्ष्यामि यथाह भगवान्प्रभुः॥
त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः॥ ८८.१५ ॥

अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम्॥
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्॥ ८८.१६ ॥

ततस्य भवति प्राप्यं प्रथमं योगिनां बलम्॥
लङ्घनं प्लवनं लोके रूपमस्य सदा भवेत्॥ ८८.१७ ॥

शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम्॥
त्रैलोक्ये सर्वभूतानां महिम्ना चैव वन्दितम्॥ ८८.१८ ॥

महित्वं चापि लोकेस्मिंस्तृतीयो योग उच्यते॥
त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम्॥ ८८.१९ ॥

प्राकामान् विषयान् भुङ्क्ते तथाप्रतिहतः क्वचित्॥
त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते॥ ८८.२० ॥

ईशो भवति सर्वत्र प्रविभागेन योगवित्॥
वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे॥ ८८.२१ ॥

इच्छया तस्य रूपाणि भवन्ति न भवन्ति च॥
यत्र कामावसायित्वं त्रैलोक्ये सचराचरे॥ ८८.२२ ॥

शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस्तथा॥
प्रवर्तन्तेऽस्य चेच्छातो न भवन्ति यथेच्छया॥ ८८.२३ ॥

न जायते न म्रियते छिद्यते न च भिद्यते॥
न दह्यते न मुह्येत लीयते न च लिप्यते॥ ८८.२४ ॥

न क्षीयते न क्षरति खिद्यते न कदाचन॥
क्रियते वा न सर्वत्र तथा विक्रीयते न च॥ ८८.२५ ॥

अगन्धरसरूपस्तु अस्पर्शः शब्दवर्जितः॥
अवर्णो ह्यस्वरश्चैव असवर्णस्तु कर्हिचित्॥ ८८.२६ ॥

स भुक्ते विषयांश्चैव विषयैर्न च युज्यते॥
अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वादपवर्गिकः॥ ८८.२७ ॥

व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः॥
पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः॥ ८८.२८ ॥

गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते॥
ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम्॥ ८८.२९ ॥

अपवर्गं ततो गच्छेत्सूक्ष्मं तत्परमं पदम्॥
एवं पाशुपतं योगं ज्ञातव्यं मुनिपुङ्गवाः॥ ८८.३० ॥

स्वर्गापवर्गफलदं शिवसायुज्यकारणम्॥
अथवा गतविज्ञानो रागात्कर्म समाचरेत्॥ ८८.३१ ॥

राजसं तामसं वापि भुक्त्वा तत्रैव मुच्यते॥
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते॥ ८८.३२ ॥

तस्मात्स्थानात्पुनः श्रेष्ठो मानुष्यमुपपद्यते॥
तस्माद्ब्रह्म परं सौख्यं ब्रह्मशाश्वतमुत्तमम्॥ ८८.३३ ॥

ब्रह्म एव हि सेवेत ब्रह्मैव हि परं सुखम्॥
परिश्रमो हि यज्ञानां महतार्थेन वर्तते॥ ८८.३४ ॥

भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम्॥
अथवा ध्यानसंयुक्तो ब्रह्मतत्त्वपरायणः॥ ८८.३५ ॥

न तु च्‌यावयितुं शक्यो मन्वन्तरशतैरपि॥
दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वतोमुखम्॥ ८८.३६ ॥

विश्वपादशिरोग्रीवं विश्वेशं विश्वरूपिणम्॥
विश्वगन्धं विश्वमाल्यं विश्वाम्बरधरं प्रभुम्॥ ८८.३७ ॥

गोभिर्महीं सम्पतते पतत्त्रिणो नैवं भूयो जनयत्येवमेव॥
कविं पुराणमनुसासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम्॥ ८८.३८ ॥

योगेन पश्येन्न च चक्षुषा पुनर्निरिन्द्रियं पुरुषं रुक्मवर्णम्॥
अलिङ्गिनं निर्गुणं चेतनं च नित्यं सदा सर्वगं सर्वसारम्॥ ८८.३९ ॥

पश्यन्ति युक्त्या ह्यचलप्रकाशं तद्भावितास्तेजसा दीप्यमानम्॥
अपाणिपादोदरपार्श्वजिह्वो ह्यतीन्द्रियो वापि सुसूक्ष्म एकः॥ ८८.४० ॥

पश्यत्यचक्षुः स श्रृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति॥
स वेद सर्वं न च सर्ववेद्यं तमाहुरग्र्यं पुरुषं महान्तम्॥ ८८.४१ ॥

अचेतनां सर्वगतां सूक्ष्मां प्रसवधर्मिणीम्॥
प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति योगिनः॥ ८८.४२ ॥

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्॥
सर्वतः श्रुतिमल्ँलोके सर्वमावृत्य तिष्ठति॥ ८८.४३ ॥

युक्तो योगेन चेशानं सर्वतश्च सनातनम्॥
पुरुषं सर्वभूतानां तं विद्वान्न विमुह्यति॥ ८८.४४ ॥

भूतात्मानं महात्मानं परमात्मानमव्ययम्॥
सर्वात्मानं परं ब्रह्म तद्वै ध्याता न मुह्यति॥ ८८.४५ ॥

पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु॥
पुरि शेते सुदुर्ग्राह्यस्तस्मात्पुरुष उच्यते॥ ८८.४६ ॥

अथ चेल्लुप्तधर्मा तु सावशेषैः स्वकर्मभिः॥
ततस्तु ब्रह्मगर्भे वै शुक्रशोणितसंयुते॥ ८८.४७ ॥

स्त्रीपुंसोः सम्प्रयोगे हि जायते हि ततः प्रभुः॥
ततस्तु गर्भकालेन कललं नाम जायते॥ ८८.४८ ॥

कालेन कललं चापि बुद्वुदं सम्प्रजायते॥
मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः॥ ८८.४९ ॥

हस्ताभ्यां क्रियमाणस्तु बिम्बत्वमनुगच्छति॥
एवमाध्यात्मिकैर्युक्ता वायुना सम्प्रपूरितः॥ ८८.५० ॥

यदि योनिं विमुञ्चामि तत्प्रपद्ये महेश्वरम्॥
यावद्धि वैष्णवो वायुर्जातमात्रं न संस्पृशेत्॥ ८८.५१ ॥

तावत्कालं महादेवमर्चयामीति चिन्तयेत्॥
जायते मानुषस्तत्र यथारूपं यथावयः॥ ८८.५२ ॥

वायुः सम्भवते खात्तु वाताद्भवति वै जलम्॥
जलात्सम्भवति प्राणः प्राणाच्छुक्रं विवर्धते॥ ८८.५३ ॥

रक्तभागास्त्रयस्त्रिंशद्रेतोभागाश्चतुर्दश॥
भागतोर्धफलं कृत्वा ततो गर्भो निषिच्यते॥ ८८.५४ ॥

ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः॥
पितुः शरीरात्प्रत्यङ्गं रूपमस्योपजायते॥ ८८.५५ ॥

ततोस्य मातुराहारात्पीतलीढप्रवेशनात्॥
नाभिदेशेन वै प्राणास्ते ह्याधारा हि देहिनाम्॥ ८८.५६ ॥

नवमासात्परिक्लिष्टः संवेष्टितशिरोधरः॥
वेष्टितः सर्वगात्रैश्च अपर्याप्त प्रवेशनः॥ ८८.५७ ॥

नवमासोषितश्चापि योनिच्छिद्रादवाङ्मुखः॥
ततः स्वकर्मभिः पापैर्निरयं सम्प्रपद्यते॥ ८८.५८ ॥

असिपत्रवनं चैव शाल्मलिच्छेदनं तथा॥
ताडनं भक्षणं चैव पूयशोणितभक्षणम्॥ ८८.५९ ॥

यथा ह्यापस्तु सञ्छिन्नाः संश्लेष्ममुपयान्ति वै॥
तथा छिन्नाश्च भिन्नाश्चयातनास्थानमागताः॥ ८८.६० ॥

एवं जीवास्तु तैः पापैस्तप्यमानाः स्वयङ्कृतैः॥
प्राप्नुयुः कर्मभिः शेषैर्दुःखं वा यदि वेतरत्॥ ८८.६१ ॥

एकेनैव तु गन्तव्यं सर्वमुत्सृज्य वै जनम्॥
एकेनाव तु भोक्तव्यं तस्मात्सुकृतमाचरेत्॥ ८८.६२ ॥

न ह्येनं प्रस्तितं कश्चिद्गच्छन्तमनुगच्चति॥
यदनेन कृतं कर्म तदेनमनुगच्छति॥ ८८.६३ ॥

ते नित्यं यमविष्येषु सम्प्रवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगैः॥
शुष्यन्ते परिगतवेदनाशरीराबह्वीभिः सुभृशमनन्तयातनाभिः॥ ८८.६४ ॥

कर्मण मनसा वाचा यदभीक्ष्णं निषेवते॥
तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत्॥ ८८.६५ ॥

अनादिमान्प्रबन्धः स्यात्पूर्वकर्मणि देहिनः॥
संसारं तामसं घोर षड्विधं प्रतिपद्यते॥ ८८.६६ ॥

मानुष्यात्पशुभावश्च पशुभावान्मृगो भवेत्॥
मृगत्वात्पक्षिभावश्च तस्माच्चैव सरीसृपः॥ ८८.६७ ॥

सरीसृपत्वाद्गच्छेद्वै स्थावरत्वं न संशयः॥
स्थावरत्वे पुनः प्राप्ते यावदुन्मिलते जनः॥ ८८.६८ ॥

कुलालचक्रवद्भ्रान्तस्तत्रैव परिवर्तते॥
इत्येवं हि मनुष्यादिः संसारः स्थावरातिकः॥ ८८.६९ ॥

विज्ञेयस्तामसो नाम तत्रैव परिवर्तते॥
सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः॥ ८८.७० ॥

पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम्॥
ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः॥ ८८.७१ ॥

चतुर्दशानां स्थानानां मध्ये विष्टम्भकंरजः॥
मर्मसु च्छिद्यमानेषु वेदनार्तस्य देहिनः॥ ८८.७२ ॥

ततस्तत्परमं ब्रह्म कथं विप्रः स्मरिष्यति॥
संसारः पूर्वधर्मस्य भावनाभिः प्रणोदितः॥ ८८.७३ ॥

मानुषं भजते नित्यं तस्माद्ध्यानं समाचरेत्॥
चतुर्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्॥ ८८.७४ ॥

नित्यं समारभेद्धर्मं संसारभयपीडितः॥
ततस्तरति संसारं क्रमेण परिवर्तितः॥ ८८.७५ ॥

तस्माच्च सततं युक्तो ध्यानतत्परयुञ्जकः॥
तथा समारभेद्योगं यथात्मानं स पश्यति॥ ८८.७६ ॥

एष आपः परं ज्योतिरेष सेतुरनुत्तमः॥
विवृत्या ह्येष सम्भेदाद्भूतानां चैव शाश्वतः॥ ८८.७७ ॥

तदेनं सेतुमात्मानमग्निं वै विश्वतोमुखम्॥
हृदिस्थं सर्वभूतानामुपासीत महेश्वरम्॥ ८८.७८ ॥

तथान्तः संस्थितं देवं स्वशक्त्या परिमण्डितम्॥
अष्टधा चाष्टधा चैव तथा चाष्टविधेन च॥ ८८.७९ ॥

सृष्ट्यर्थं संस्थितं वह्निं सङ्क्षिप्य च हृदि स्थितम्॥
ध्यात्वा यथावद्देवेशं रुद्रं भुवननायकम्॥ ८८.८० ॥

हुत्वा पञ्चाहुतीः सम्यक् तच्चिन्तागतमानसः॥
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः॥ ८८.८१ ॥

आपः पूताः सकृत्प्राश्य तूष्णीं हुत्वा ह्युपाविशन्॥
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृताः॥ ८८.८२ ॥

अपानाय द्वितीया च व्यानायेति तथा परा॥
उदानाय चतुर्थि स्यात्समानायेति पञ्चमी॥ ८८.८३ ॥

स्वाहाकारैः पृथग् हुत्वा शेषं भुञ्जीत कामतः॥
अपः पुनः सकृत्प्राश्य आचम्य हृदयं स्पृशेत्॥ ८८.८४ ॥

प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः॥
रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम्॥ ८८.८५ ॥

प्राणे निविष्टो वै रुद्रस्तस्मात्प्राणमयः स्वयम्॥
प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम्॥ ८८.८६ ॥

शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम्॥
एवं पञ्चाहुतीश्चैव श्राद्धे कुर्वीत शासनात्॥८८.८७

पुरुषोसि पिरे शेषे त्वमङ्गुष्टप्रमाणतः॥
आश्रिताश्चैव चाङ्गुष्टमीशः परमकारणम्॥८८.८८

सवस्य जगतश्चैव प्रभुः प्रणातु शाश्वतः।
त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा॥ ८८.८९

मृदुस्त्वमन्नमस्मभ्यमेतदस्तु हुतं तव॥
इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः॥ ८८.९० ॥

योगाचारः स्वयं तेन ब्रह्मणा कथितःपुरा॥
एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः॥ ८८.९१ ॥

भस्मस्नायी भवेन्नित्यं भस्मलिप्तः सदा भवेत्॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्॥ ८८.९२ ॥

दैवे कर्मणि पित्र्ये वा स याति परमां गतिम्॥ ८८.९३ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽणिमाद्यष्टसिद्धित्रिगुणसंसारप्राग्नौ होमादिवर्णनं नामाष्टाशीतितमोऽध्यायः॥ ८८ ॥