सूत उवाच॥
निशम्य ते महाप्राज्ञाः कुमाराद्याः पिनाकिनम्॥
प्रोचुः प्रणम्य वै भीताः प्रसन्नं परमेश्वरम्॥ ८७.१ ॥
एवं चेदनया देव्याहैमवत्या महेश्वर॥
क्रीडसे विविधैर्भोगैः कथं वक्तुमिहार्हसि॥ ८७.२ ॥
सूत उवाच॥
एवमुक्तः प्रहस्येशः पिनाकी नीललोहितः॥
प्राहतामम्बिकां प्रेक्ष्य प्रणिपत्य स्थितान् द्विजान्॥ ८७.३ ॥
बन्धमोक्षौ न चैवेह मम स्वेच्छशरीरिणः॥
अकार्तज्ञः पशुर्जीवो विभुर्भोक्ता ह्यणुः पुमान्॥ ८७.४ ॥
मायी च मायया बद्धः कर्मभिर्युज्यते तु सः॥
ज्ञानं ध्यानं च बन्धश्च मोक्षो नास्त्यात्मनो द्विजाः॥ ८७.५ ॥
यदैवं मयि विद्वान् यस्तस्यापि न च सर्वतः॥
एषा विद्या ह्यहं वेद्यः प्रज्ञैषा च श्रुतिः स्मृतिः॥ ८७.६ ॥
धृतिरेषा मया निष्ठा ज्ञानशक्तिः क्रिया तथा॥
इच्छाख्या च तथा ह्यज्ञा द्वे विद्ये न च संशयः॥ ८७.७ ॥
न ह्येषा प्रकृतिर्जैवी विकृतिश्च विचारतः॥
विकारो नैव मायैषा सदसद्व्यक्तिवर्जिता॥ ८७.८ ॥
पुरा ममाज्ञ मद्वक्त्रात्समुत्पन्ना सनातनी॥
पञ्चवक्त्रा महाभागा जगतामभयप्रदा॥ ८७.९ ॥
तामाज्ञां सम्प्रविश्याहं चिन्तयन् जगतां हितम्॥
सप्तविंशत्प्रकारेण सर्वं व्याप्यानया शिवः॥ ८७.१० ॥
तदाप्रभृति वै मोक्षप्रवृत्तिर्द्विजसत्तमाः॥
सूत उवाच॥
एवमुक्त्वा तदापश्यद्भवानीं परमेश्वरः॥ ८७.११ ॥
भवानी च तमालोक्य मायामहरदव्यया॥
ते मायामलनिर्मुक्ता मुनयः प्रेक्ष्य पार्वतीम्॥ ८७.१२ ॥
प्रीता बभूवुर्मुक्ताश्च तस्मादेषा परा गतिः॥
उमाशङ्करयोर्भेदो नास्त्येव परमार्थतः॥ ८७.१३ ॥
द्विधासौ रूपमास्थाय स्थित एव न संशयः॥
यदा विद्वानसङ्गः स्यादाज्ञया परमेष्ठिनः॥ ८७.१४ ॥
तदा मुक्तिः क्षणादेव नान्यथा कर्मकोटिभिः॥
क्रमोऽविवक्षितो भूतविवृद्धः परमेष्ठिनः॥ ८७.१५ ॥
प्रसादेन क्षणान्मुक्तिः प्रतिज्ञैषा न संशयः॥
गर्भस्थो जायमानो वा बालो वा तरुणोपि वा॥ ८७.१६ ॥
वृद्धो वा मुच्यते जन्तुः प्रसादात्परमेष्ठिनः॥
अण्डजश्चोद्भिजो वापि स्वेदजो वापि मुच्यते॥ ८७.१७ ॥
प्रसादाद्देवदेवस्य नात्र कार्या विचारणा॥
एष एव जगन्नाथो बन्धमोक्षकरः शिवः॥ ८७.१८ ॥
भूर्भुवःस्वर्महश्चैव जनः साक्षात्तपः स्वयम्॥
सत्यलोकस्तथाण्डानां कोटिकोटिशतानि च॥ ८७.१९ ॥
विग्रहं देवदेवस्य तथाण्डावरणाष्टकम्॥
सप्तद्वीपेषु सर्वेषु पर्वतेषु वनेषु च॥ ८७.२० ॥
समुद्रेषु च सर्वेषु वायुस्कन्धेषु सर्वतः॥
तथान्येषु च लोकेषु वसन्ति च चराचराः॥ ८७.२१ ॥
सर्वे भवांशजा नूनं गतिस्त्वेषां स एव वै॥
सर्वो रुद्रो नमस्तस्मै पुरुषाय महात्मने॥ ८७.२२ ॥
विश्वं भूतं तथा जातं बहुधा रुद्र एव सः॥
रुद्राज्ञैषा स्थिता देवी ह्यनया मुक्तिरम्बिका॥ ८७.२३ ॥
इत्येवं खेचराः सिद्धा जजल्पुः प्रीतमानसाः॥
यदाऽवलोक्य तान् सर्वान्प्रसादादनयाम्बिका॥ ८७.२४ ॥
तदा तिष्ठन्ति सायुज्यं प्राप्तास्ते खेचराः प्रभोः॥ ८७.२५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे मुनिमोहशमनं नाम सप्ताशीतितमोऽध्यायः॥ ८७ ॥