ऋषय ऊचुः॥
जपाच्छ्रेष्ठतमं प्राहुर्ब्राह्मणा दग्धकिल्बिषाः॥
विरक्तानां प्रबुद्धानां ध्यानयज्ञं सुशोभनम्॥ ८६.१ ॥
तस्माद्वदस्व सूताद्य ध्यानयज्ञमशेषतः॥
विस्तारात्सर्वयत्नेन विरक्तानां महात्मनाम्॥ ८६.२ ॥
तेषां तद्वचनं श्रुत्वा मुनीनां दीर्घसत्त्रिणाम्॥
रुद्रेण कथितं प्राह गुहां प्राप्य महात्मनाम्॥ ८६.३ ॥
संहृत्य कालकूटाख्यं विषं वै विश्वकर्मणा॥
सूत उवाच॥
गुहां प्राप्य सुखासीनं भवान्या सह शङ्करम्॥ ८६.४ ॥
मुनयः संशितात्मानः प्रणेमुस्तं गुहाश्रयम्॥
अस्तुवंश्च ततः सर्वे नीलकण्ठमुमापतिम्॥ ८६.५ ॥
अत्युग्रं कालकूटाख्यं संहृतं भगवंस्त्वया॥
अतः प्रतिष्ठितं सर्वं त्वया देव वृषध्वज॥ ८६.६ ॥
तेषां तद्वचनं श्रुत्वा भगवान्नीललोहितः॥
प्रहसन्प्राह विश्वात्मा सनन्दनपुरोगमान्॥ ८६.७ ॥
किमनेन द्विजश्रेष्ठा विषं वक्ष्ये सुदारुणम्॥
संहरेत्तद्विषं यस्तु स समर्थो ह्यनेन किम्॥ ८६.८ ॥
न विषं कालकूटाख्यं संसारो विषमुच्यते॥
तस्मात्सर्वप्रयत्नेन संहरेत सुदारुणम्॥ ८६.९ ॥
संसारो द्विविधः प्रोक्तः स्वाधिकारानुरूपतः॥
पुंसां सम्मूढचित्तानामसङ्क्षीणः सुदारुणः॥ ८६.१० ॥
ईषणारागदोषेण सर्गो ज्ञानेन सुव्रताः॥
तद्वशादेव सर्वेषां धर्माधर्मौ न संशयः॥ ८६.११ ॥
असन्निकृष्टे त्वर्थेपि शास्त्रं तच्छ्रवणात्सताम्॥
बुद्धिमुत्पादयत्येव संसारे विदुषां द्विजाः॥ ८६.१२ ॥
तस्माद्दृष्टानुश्रविकं दुष्टमित्युभयात्मकम्॥
सन्त्यजेत्सर्वयत्नेन विरक्तः सोभिधीयते॥ ८६.१३ ॥
शास्त्रमित्युच्यतेऽभागं श्रुतेः कर्मसु तद्द्विजाः॥
मूर्धानं ब्रह्मणः सारमृषीणां कर्मणः फलम्॥ ८६.१४ ॥
ननु स्वभावः सर्वेषां कामो दृष्टो न चान्यथा॥
श्रुतुः प्रवर्तिका तेषामिति कर्मण्यताद्विदः॥ ८६.१५ ॥
निवृत्तिलक्षणो धर्मः समर्थानामिहोच्यते॥
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम्॥ ८६.१६ ॥
कला संशोषमायाति कर्मणान्यस्वभावतः॥
सकलस्त्रिविधो जीवो ज्ञानहीनस्त्वविद्यया॥ ८६.१७ ॥
नारकी पापकृत्स्वर्गी पुण्यकृत्पुण्यगैरवात्॥
व्यतिमिश्रेण वै जीवश्चतुर्धा संव्यवस्थितः॥ ८६.१८ ॥
उद्भिजः स्वेदजश्चैव अण्डजो वै जरायुजः॥
एवं व्यवस्थितो देही कर्मणाज्ञो ह्यनिर्वृतः॥ ८६.१९ ॥
प्रजया कर्मणा मुक्तिर्धनेन च सतां न हि॥
त्यागेनैकेन मुक्तिः स्यात्तदभावाद्भ्रमत्यसौ॥ ८६.२० ॥
एवमज्ञानदोषेण नानाकर्मवशेन च॥
षट्कौशिकं समुद्भूतं भजत्येष कलेवरम्॥ ८६.२१ ॥
गर्भेदुःखान्यनेकानि योनिमार्गे च भूतले॥
कौमारे यौवने चैव वार्धके मरणेपि वा॥ ८६.२२ ॥
विचारतः सतां दुःखं स्त्रीसंसर्गादिभिद्विजाः॥
दुःखेनैकेन वै दुःखं प्रशाम्यन्तीह दुःखिनः॥ ८६.२३ ॥
न जातु कामः कामानमुपभोगेन शाम्यति॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ ८६.२४ ॥
तस्माद्विचारतो नास्ति संयोगादपि वै नृणाम्॥
अर्थानामर्जनेप्येवं पालने च व्यये तथा॥ ८६.२५ ॥
पैशाचे राक्षसे दुःखं याक्षे चैव विचारतः॥
गान्धर्वे च तथा चान्द्रे सौम्यलोके द्विजोत्तमाः॥ ८६.२६ ॥
प्राजापत्ये तथा ब्राह्मे प्राकृते पौरुषे तथा॥
क्षयसातिशयाद्यैस्तु दुःखैर्दुःखानि सुव्रताः॥ ८६.२७ ॥
तानि भाग्यान्यशुद्धानि सन्त्यजेच्च धनानि च॥
तस्मादष्टगुणं भोगं तथा षोडशधा स्थितम्॥ ८६.२८ ॥
चतुर्विशत्प्रकारेण संस्थितं चापि सुव्रताः॥
द्वात्रिंशद्भेदमनघाश्चत्वारिंशद्गुणं पुनः॥ ८६.२९ ॥
तथाष्टचत्वारिंश्च्च षट्पञ्चाशत्प्रकारतः॥
चतुःषष्टिविधं चैव दुःखमेव विवेकिनः॥ ८६.३० ॥
पार्थिवं च तथाप्यं च तैजसं च विचारतः॥
वायव्यं च तथा व्योम मानसं च यथाक्रमम्॥ ८६.३१ ॥
आभिमानिकमप्येवं बौद्धं प्राकृतमेव च॥
दुःखमेव न सन्देहो योगिनां ब्रह्मवादिनाम्॥ ८६.३२ ॥
गौणं गणेश्वराणां च दुःखमेव विचारतः॥
आदौ मध्ये तथा चान्ते सर्वलोकेषु सर्वदा॥ ८६.३३ ॥
वर्तमानानि दुःखानि भविष्याणि यथातथम्॥
दोषदुष्टेषु देशेषु दुःखानि विविधानि च॥ ८६.३४ ॥
न भावयन्त्यतीतानि ह्यज्ञाने ज्ञानमानिनः॥
क्षुद्व्याधेः परिहारार्थं न सुखायान्नमुच्यते॥ ८६.३५ ॥
यथेतरेषां रोगाणामौषधं न सुखाय तत्॥
शीतोष्णवातवर्षाद्यैस्तत्तत्कालेषु देहिनाम्॥ ८६.३६ ॥
दुःखमेव न सन्देहो न जानन्ति ह्यपण्डिताः॥
स्वर्गेप्येवं मुनिश्रेष्ठा ह्यविशुद्धक्षयादिभिः॥ ८६.३७ ॥
रोगौर्नानाविधैर्ग्रस्ता रागद्वेषभयादिभिः॥
छिन्नमूलतरुर्यद्वदवशः पतति क्षितौ॥ ८६.३८ ॥
पुण्यवृक्षक्षयात्तद्वद्गां पतन्ति दिवौकसः॥
दुःखाभिलाषनिष्ठानां दुःखभोगादिसम्पदाम्॥ ८६.३९ ॥
अस्मात्तु पततां दुःखं कष्टं स्वर्गाद्दिवौकसाम्॥
नरके दुःखमेवात्र नाकाणां निषेवणात्॥ ८६.४०
विहिताकरणाच्चैव वर्णिनां मुनिपुङ्गवाः॥ ८६.४१ ॥
यथा मृगो मृत्युभयस्य भीतो उच्छिन्नवासो न लभेत निद्राम्॥
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम्॥ ८६.४२ ॥
कीटपक्षिमृगाणां च पशूनां गजवाजिनाम्॥
दृष्टमेवासुखं तस्मात्त्यजतः सुखमुत्तमम्॥ ८६.४३ ॥
वैमानिकानामप्येवं दुःखं कल्पाधिकारिणाम्॥
स्थानाभिमानिनां चैव मन्वादीनां च सुव्रताः॥ ८६.४४ ॥
देवानां चैव दैत्यानामन्योन्यविजिगीषया॥
दुःखमेव नृपाणां च राक्षसानां जगत्त्रये॥ ८६.४५ ॥
श्रमार्थमाश्रमश्चापि वर्णानां परमार्थतः॥
आश्रमैर्न च देवैश्च यज्ञः साङ्ख्यैर्व्रतैस्तथा॥ ८६.४६ ॥
उग्रैस्तपोभिर्विविधैर्दानैर्नानाविधैरपि॥
न लभन्ते तथात्मानं लभन्ते ज्ञानिनः स्वयम्॥ ८६.४७ ॥
तस्मात्सर्वप्रयत्नेन चरेत्पाशुपतव्रतम्॥
भस्मशायी भवेन्नित्यं व्रते पाशुपते बुधः॥ ८६.४८ ॥
पञ्चार्थज्ञानसम्पन्नः शिवतत्त्वे समाहितः॥
कैवल्यकरणं योगविधिकर्माच्छिदं बुधः॥ ८६.४९ ॥
पञ्चार्थयोगसम्पन्नो दुःखान्तं व्रजते सुधीः॥
परया विद्यया वेद्यं विदन्त्यपरया न हि॥ ८६.५० ॥
द्वे विद्ये वेदितव्ये हि परा चैवापरा तथा॥
अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः॥ ८६.५१ ॥
सामवेदस्तथाऽथर्वो वेदः सर्वार्थसाधकः॥
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च॥ ८६.५२ ॥
ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम्॥
तददृश्यं तदग्राह्यमगोत्रं तदवर्णकम्॥ ८६.५३ ॥
तदचक्षुस्तदश्रोत्रं तदपाणि अपादकम्॥
तदजातमभूतं च तदशब्दं द्विजोत्तमाः॥ ८६.५४ ॥
अस्पर्शं तदरूपं च रसगन्ध विवर्जितम्॥
अव्ययं चाप्रतिष्ठं च तन्नित्यं सर्वगं विभुम्॥ ८६.५५ ॥
महान्तं तद्गृहं तं च तदजं चिन्मयं द्विजाः॥
अप्राणममनस्कं च तदस्निग्धमलोहितम्॥ ८६.५६ ॥
अप्रमेयं तदस्थूलमदीर्घं तदनुल्बणम्॥
अह्रस्वं तदपारं च तदानन्दं तदच्युतम्॥ ८६.५७ ॥
अनपावृतमद्वैतं तदनन्तमगोचरम्॥
असंवृतं तदात्मैकं परा विद्या न चान्यथा॥ ८६.५८ ॥
परापरेति कथिते नैवेह परमार्थतः॥
अहमेव जगत्सर्वं मय्येव सकलं जगत्॥ ८६.५९ ॥
मत्त उत्पद्यते तिष्ठन्मयि मय्येव लीयते॥
मत्तो नान्यदितीक्षेत मनोवाक्पाणिभिस्तथा॥ ८६.६० ॥
सर्वमात्मनि सम्पश्येत्सच्चासच्च समाहितः॥
सर्वं ह्यात्मनि सम्पश्यन्नबाह्ये कुरुते मनः॥ ८६.६१ ॥
अधोदृष्ट्या वितस्त्यां तु नाभ्यामुपरितिष्ठति॥
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्॥ ८६.६२ ॥
हृदयस्यास्य मध्ये तु पुण्डरीकमवस्थितम्॥
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम्॥ ८६.६३ ॥
ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम्॥
छिद्राणि च दिशो यस्य प्राणाद्याश्च प्रतिष्ठिताः॥ ८६.६४ ॥
प्राणाद्यैश्चैव संयुक्तः पश्यते बहुधा क्रमात्॥
दशप्राणवहा नाड्यः प्रत्येकं मुनिपुङ्गवाः॥ ८६.६५ ॥
द्विसप्ततिसहस्राणि नाड्यः सम्परिकीर्तिताः॥
नेत्रस्थञ्जाग्रतं विद्यात्कण्ठे स्वप्नं समादिशेत्॥ ८६.६६ ॥
सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम्॥
जाग्रे ब्रह्मा च विष्णुश्च स्वप्ने चैव यथाक्रमात्॥ ८६.६७ ॥
ईश्वरस्तु सुषुप्ते तु तुरीये च महेश्वरः॥
वदन्त्येमथान्येपि समस्तकरणैः पुमान्॥ ८६.६८ ॥
वर्तमानस्तदा तस्य जाग्रदित्यभिधीयते॥
मनोबुद्धिरहङ्कारं चित्तं चेति चतुष्टयम्॥ ८६.६९ ॥
यदा व्यवस्थितस्त्वेतैः स्वप्न इत्यभिधीयते॥
करणानि विलीनानि यदा स्वात्मनि सुव्रताः॥ ८६.७० ॥
सुषुप्तः करणैर्भिन्नस्तुरीयः परिकीर्त्यते॥
परस्तुरीयातीतोसौ शिवः परमकारणम्॥ ८६.७१ ॥
जाग्रत्स्वप्नसुषुप्तिश्च तुरीयं चाधिभौतिकम्॥
आध्यात्मिकं च विप्रेन्द्राश्चाधिदैविकमुच्यते॥ ८६.७२ ॥
तत्सर्वमहमेवोति वेदितव्यं विजानता॥
बुद्धीन्द्रियाणि विप्रेन्द्रास्तथा कर्मोन्द्रियाणि च॥ ८६.७३ ॥
मनोबुद्दिरहङ्कारश्चित्तं चेति चतुष्टयम्॥
अध्यात्मं पृथगेवेदं चतुर्दशविधंस्मृतम्॥ ८६.७४ ॥
द्रष्टव्यं चैव श्रोतव्यं घ्रातव्यं च यथाक्रमम्॥
रसितव्यं मुनिश्रेष्ठाः स्पर्शितव्यं तथैव च॥ ८६.७५ ॥
मन्तव्यं चैव बोद्धव्यमहङ्कर्तव्यमेव च॥
तथा चेतयितव्यं च वक्तव्यं मुनिपुङ्गवाः॥ ८६.७६ ॥
आदातव्यं च गन्तव्ये विसर्गयितमेव च॥
आनन्दितव्यमित्येते ह्यधिभूतमनुक्रमात्॥ ८६.७७ ॥
आदित्योपि दिशश्चैव पृथिवी वरुणस्तथा॥
वायुश्चन्द्रस्तथा ब्रह्मा रुद्रः क्षेत्रज्ञ एव च॥ ८६.७८ ॥
अग्निरिन्द्रस्तथा विष्णुर्मित्रो देवः प्रजापतिः॥
आधिदैविकमेवं हि चतुर्दशविधं क्रमात्॥ ८६.७९ ॥
राज्ञी सुदर्शना चैव जिता सौम्या यथाक्रमम्॥
मोघा रुद्रामृता सत्या मध्यमा च द्विजोत्तमाः॥ ८६.८० ॥
नाडी राशिशुका चैव असुरा चैव कृत्तिका॥
भास्वती नाडयश्चैताश्चतुर्दशनिबन्धनाः॥ ८६.८१ ॥
वायवो नाडिमध्यस्था वाहकाश्च चतुर्दश॥
प्राणो व्यानस्त्वपानश्च उदानश्च समानकः॥ ८६.८२ ॥
वैरम्भश्च तथा मुख्यो ह्यन्तर्यामः प्रभञ्जनः॥
कूर्मकश्च तथा श्येनः श्वेतः कृष्मस्तथानिलः॥ ८६.८३ ॥
नाग इत्येव कथिता वायवश्च चतुर्दश॥
यश्चक्षुष्वथ द्रष्टव्ये तथादित्ये च सुव्रताः॥ ८६.८४ ॥
नाड्यां प्राणे च विज्ञाने त्वानन्दे च यथाक्रमम्॥
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे परः॥ ८६.८५ ॥
आत्मा एकश्च चरति तमुपासीत मां प्रभुम्॥
अजरं तमनन्तं च अशोकममृतं ध्रुवम्॥ ८६.८६ ॥
चतुर्दशविधेष्वेव सञ्चरत्येक एव सः॥
लीयन्ते तानि तत्रैव यदन्यं नास्ति वै द्विजाः॥ ८६.८७ ॥
एक एव हि सर्वज्ञः सर्वेशस्त्वेक एव सः॥
एष सर्वाधिपो देवस्त्वन्तर्यामी महाद्युतिः॥ ८६.८८ ॥
उपास्यमानः सर्वस्य सर्वसौख्यः सनातनः॥
उपास्यति न चैवेह सर्वसौख्यं द्विजोत्तमाः॥ ८६.८९ ॥
उपास्यमानो वेदैश्च शास्त्रैर्नानाविधैरपि॥
न वैष वेदशास्त्राणि सर्वज्ञे यास्यति प्रभुः॥ ८६.९० ॥
अस्यैवान्नमिदं सर्वं न सोन्नं भवति स्वयम्॥
स्वात्मना रक्षितं चाद्यादन्नभूतं न कुत्रचित्॥ ८६.९१ ॥
सर्वत्र प्राणिनामन्नं प्राणिनां ग्रन्थिरस्म्यहम्॥
प्रशास्ता नयनश्चैव पञ्चात्मा स विभागशः॥ ८६.९२ ॥
अन्नमयोसौ भूतात्मा चाद्यते ह्यन्नमुच्यते॥
प्राणमयश्चेन्द्रियात्मा सङ्कल्पात्मा मनोमयः॥ ८६.९३ ॥
कालात्मा सोम एवेह विज्ञानमय उच्यते॥
सदानन्दमयो भूत्वा महेशः परमेश्वरः॥ ८६.९४ ॥
सोहमेवं जगत्सर्वं मय्येव सकलं स्थितम्॥
परतन्त्रं स्वतन्त्रेपि तदभावाद्विचारतः॥ ८६.९५ ॥
एकत्वमपि नास्त्येव द्वैतं तत्र कुतस्त्वहो॥
एवं नास्त्यथ मर्त्यं च कुतोऽमृतमजोद्भवः॥ ८६.९६ ॥
नान्तःप्रज्ञोबहिः प्रज्ञो न चोभयगतस्तथा॥
न प्रज्ञानघनस्त्वेवं न प्राज्ञो ज्ञानपूर्वकः॥ ८६.९७ ॥
विदितं नास्ति वेद्यं च निर्वाणं परमार्थतः॥
निर्वाणं चैव कैवल्यं निःश्रेयसमनामयम्॥ ८६.९८ ॥
अमृतं चाक्षरं ब्रह्म परमात्मा परापरम्॥
निर्विकल्पं निराभासं ज्ञानं पर्यायवाचकम्॥ ८६.९९ ॥
प्रसन्नं च यदेकाग्रं तदा ज्ञानमिति स्मृतम्॥
अज्ञानमितरत्सर्वं नात्र कार्या विचारणा॥ ८६.१०० ॥
इत्थं प्रसन्नं विज्ञानं गुरुसम्पर्कज ध्रुवम्॥
रागद्वेषानृतक्रोधं कामतृष्णादिभिः सदा॥ ८६.१०१ ॥
अपरामृष्टमद्यैव विज्ञेयं मुक्तिदं त्विदम्॥
अज्ञानमलपूर्वत्वात्पुरुषो मलिनः स्मृतः॥ ८६.१०२ ॥
तत्क्षयाद्धि भवेन्मुक्तिर्नान्यथा जन्मकोटिभिः॥
ज्ञानमेकं विना नास्ति पुण्यपापपरिक्षयः॥ ८६.१०३ ॥
ज्ञानमेवाभ्यसत्तस्मान्मुक्त्यर्थं ब्रह्मवित्तमाः॥
ज्ञानाभ्यासाद्धि वै पुंसां बुद्धिर्भवति निर्मला॥ ८६.१०४ ॥
तस्मात्सदाभ्यसेज्ज्ञानं तन्निष्ठस्तत्परायणः॥
ज्ञानेनैकेन तृप्तस्य त्यक्तसङ्गस्य योगिनः॥ ८६.१०५ ॥
कर्तव्यं नास्ति विप्रेन्द्रा अस्ति चेत्तत्त्वविन्न च॥
इह लोके परे चापि कर्तव्यं नास्ति तस्य वै॥ ८६.१०६ ॥
जीवन्मुक्तो यतस्तस्माद्ब्रह्मवित्परमार्थतः॥
ज्ञानाभ्यासरतो नित्यं ज्ञानतत्त्वार्थवित्स्वयम्॥ ८६.१०७ ॥
कर्तव्याभ्यासमुत्सृज्य ज्ञानमेवाधिगच्छति॥
वर्णाश्रमाभिमानी यस्त्यक्तक्रोधो द्विजोत्तमाः॥ ८६.१०८ ॥
अन्यत्र रमते मूढः सोऽज्ञानी नात्र संशयः॥
संसारहेतुरज्ञानं संसारस्तनुसङ्ग्रहः॥ ८६.१०९ ॥
मोक्षहेतुस्तथा ज्ञानं मुक्तः स्वात्मन्यवस्थितः॥
अज्ञाने सति विप्रेन्द्राः क्रोधाद्या नात्र संशयः॥ ८६.११० ॥
क्रोधो हर्षस्तथा लोभो मोहोदम्भो द्विजोत्तमाः॥
धर्माधर्मौ हि तेषां च तद्वशात्तनुसङ्ग्रहः॥ ८६.१११ ॥
शरीरे सति वै क्लेशः सोविद्यां सन्त्यजेद्बुधः॥
अविद्यां विद्यया हित्वा स्थितस्यैव च योगिनः॥ ८६.११२ ॥
क्रोधाद्या नाशमायान्ति धर्माधर्मौ च वै द्विजाः॥
तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते॥ ८६.११३ ॥
स एव मुक्तः संसाराद्दुःखत्रयविवर्जितः॥
एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर्द्विजर्षभाः॥ ८६.११४ ॥
ज्ञानं गुरोर्हि सम्पर्कान्न वाचा परमार्थतः॥
चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत्॥ ८६.११५ ॥
सहजागन्तुकं पापमस्थिवागुद्भवं तथा॥
ज्ञानाग्निर्दहते क्षिप्रंसुष्केन्धनमिवानलः॥ ८६.११६ ॥
ज्ञानात्परतरं नास्ति सर्वपापविनाशनम्॥
अभ्यसेच्च सदा ज्ञानं सर्वसङ्गविवर्जितः॥ ८६.११७ ॥
ज्ञानिनः सर्वपापानि जीर्यन्ते नात्र संशयः॥
क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि॥ ८६.११८ ॥
ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत्॥
ध्यानं निर्विष्यं प्रोक्तमादौ सविषयं तथा॥ ८६.११९ ॥
षट्प्रकारं समभ्यस्य चतुःषट्दशभिस्तथा॥
तथा द्वादशधा चैव पुनः षोडशधा क्रमात्॥ ८६.१२० ॥
द्विधाभ्यस्य च योगीन्द्रो मुच्यते नात्र संशयः॥
शुद्धजाम्बूनदाकारं वधूमाङ्गारसन्निभम्॥ ८६.१२१ ॥
पीतं रक्तं सितं विद्युत्कोटिकोटिसमप्रभम्॥
अथवा ब्रह्मरन्ध्रस्थं चित्तं कृत्वा प्रयत्नतः॥ ८६.१२२ ॥
न सितं वासितं पीतं न स्मरेद्ब्रह्मविद्भवेत्॥
अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः॥ ८६.१२३ ॥
परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः॥
सन्तुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा॥ ८६.१२४ ॥
मद्भक्तश्चाभ्यसेद्ध्यानं गुरुसम्पर्कजं ध्रुवम्॥
न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः॥ ८६.१२५ ॥
न चाभिमन्यते योगी न पश्यति समन्ततः॥
न घ्राति न श्रृणोत्येव लीनः स्वात्मनि यः स्वयम्॥ ८६.१२६ ॥
न च स्पर्शं विजानाति स वै समरसः स्मृतः॥
पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम्॥ ८६.१२७ ॥
वाह्नेन कालरुद्राख्यो वायुतत्त्वे महेश्वरः॥
सुषिरे स शिवः साक्षात्क्रमादेवं विचिन्तयेत्॥ ८६.१२८ ॥
क्षितौ शर्वः स्मृतो देवो ह्यपरं भव इति स्मृतः॥
रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः॥ ८६.१२९ ॥
भीमः सुषिनाकेऽसौ भास्करे मण्डले स्थितः॥
ईशानः सोमबिम्बे च महादेव इति स्मृतः॥ ८६.१३० ॥
पुंसा पशुपतिर्देवश्चाष्टधाहं व्यवस्थितः॥
काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते॥ ८६.१३१ ॥
आप्यं द्रवमिति प्रोक्तं वर्णाक्यो वह्निरुच्यते॥
यत्सञ्चरति तद्वायुः सुषिरं यद्द्विजोत्तमाः॥ ८६.१३२ ॥
तदाकाशं च विज्ञानं शब्दजं व्योमसम्भवम्॥
तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसम्भवम्॥ ८६.१३३ ॥
रूपं वाह्नेयमित्युक्तमाप्यं रसमयं द्विजाः॥
गन्धाख्यं पार्थिवं भूयश्चिन्तयेद्भास्करं क्रमात्॥ ८६.१३४ ॥
नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः॥
आजानु पृथिवीतत्त्वमानाभेर्वारिमण्डलम्॥ ८६.१३५ ॥
आकण्ठं वह्नितत्त्वं स्याल्ललाटान्तं द्विजोत्तमाः॥
वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम्॥ ८६.१३६ ॥
हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम्॥
व्योमाख्यो व्योममध्यस्थो ह्ययं प्राथमिकः स्मरेत्॥ ८६.१३७ ॥
न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः॥
महांस्तथाभिमानश्च तन्मात्राणीन्द्रियाणि च॥ ८६.१३८ ॥
व्योमादीनि च भूतानि नैवेह परमार्थतः॥
व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते॥ ८६.१३९ ॥
उदेति सूर्यो भीतश्च पवते वात एव च॥
द्योतते चन्द्रमा वह्निर्ज्वलत्यापो वहन्ति च॥ ८६.१४० ॥
दधाति भूमिराकाशमवकाशं ददाति च॥
तदाज्ञया ततं सर्वं तस्माद्वै चिन्तयेद्द्विजाः॥ ८६.१४१ ॥
तेनैवाधिष्ठितं तस्मादेतत्सर्वं द्विजोत्तमाः॥
सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम्॥ ८६.१४२ ॥
संसारविषतप्तानां ज्ञानध्यानामृतेन वै॥
प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः॥ ८६.१४३ ॥
ज्ञानं धर्मोद्भवं साक्षज्ज्ञानाद्वैराग्यसम्भवः॥
वैराग्यात्परमं ज्ञानं परमार्थप्रकाशकम्॥ ८६.१४४ ॥
ज्ञानवैराग्ययुक्तस्य योगसिद्धिर्द्विजोत्तमाः॥
योगसिद्ध्या विमुक्तिः स्यात्सत्त्वनिष्ठस्य नान्यथा॥ ८६.१४५ ॥
तमोविद्यापदच्छन्नं चित्रं यत्पदमव्ययम्॥
सत्त्वशक्तिं समास्थाय शिवमभ्यर्चयेद्द्विजाः॥ ८६.१४६ ॥
यः सत्त्वनिष्ठो मद्भक्तो मदर्चनपरायणः॥
सर्वतो धर्मनिष्ठश्च सदोत्साही समाहितः॥ ८६.१४७ ॥
सर्वद्वन्द्वसहो धीरः सर्वभूतहिते रतः॥
ऋजुस्वभावः सततं स्वस्थचित्तो मृदुः सदा॥ ८६.१४८ ॥
अमानी बुद्धिमाञ्छान्तस्त्यक्तस्पर्धो द्विजोत्तमाः॥
सदा मुमुक्षुर्धर्मज्ञः स्वात्मलक्षणलक्षणः॥ ८६.१४९ ॥
ऋणत्रयविनिर्मुक्तः पूर्वजन्मनि पुण्यभाक्॥
जरायुक्तो द्विजो भूत्वा श्रद्धया च गुरोः क्रमात्॥ ८६.१५० ॥
अन्यथा वापि शुश्रूषां कृत्वा कृत्रिमवर्जितः॥
स्वर्गलोकमनुप्राप्य भुक्त्वा भोगाननुक्रमात्॥ ८६.१५१ ॥
आसाद्य भारतं वर्षं ब्रह्मविज्जायते द्विजाः॥
सम्पर्काज्ज्ञानमासाद्य ज्ञानिनो योगविद्भवेत्॥ ८६.१५२ ॥
क्रमोयं मलपूर्णस्य ज्ञानप्राप्तेर्द्विजोत्तमाः॥
तस्मादनेन मार्गेण त्यक्तसङ्गो दृढव्रतः॥ ८६.१५३ ॥
संसारकालकूटाख्यान्मुच्यते मुनिपुङ्गवाः॥
एवं सङ्क्षेपतः प्रोक्तं मया युष्माकमच्युतम्॥ ८६.१५४ ॥
ज्ञानस्यैवेह माहात्म्यं प्रसङ्गादिह शोभनम्॥
एवं पाशुपतं योगं कथितं त्वीश्वरेण तु॥ ८६.१५५ ॥
न देयं यस्य कस्यापि शिवोक्तं मुनिपुङ्गवाः॥
दातव्यं योगिने नित्यं भस्मनिष्ठाय सुप्रियम्॥ ८६.१५६ ॥
यः पठेच्छृणुयाद्वापि संसारशमनं नरः॥
स याति ब्रह्मसायुज्यं नात्र कार्या विचारणा॥ ८६.१५७ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे संसारविषकथनं नाम षडशीतितमोध्यायः॥ ८६ ॥