०८५

सूत उवाच॥
सर्वव्रतेषु सम्पूज्य देवदेवमुमापतिम्॥
जपेत्पञ्चाक्षरीं विद्यां विधिनैव द्विजोत्तमाः॥ ८५.१ ॥

जपादेव न सन्देहो व्रतानां वै विशेषतः॥
समाप्तिर्नान्यथा तस्माज्जपेत्पञ्चाक्षरीं शुभाम्॥ ८५.२ ॥

ऋषय ऊचुः॥
कथं पञ्चाक्षरी विद्या प्रभावो वा कथं वद॥
क्रमोपायं महाभाग श्रोतुं कौतूहलं हि नः॥ ८५.३ ॥

सूत उवाच॥
पुरा देवेन रुद्रेण देवदेवेन शम्भुना॥
पार्वत्याः कथितं पुण्यं प्रवदामि समासतः॥ ८५.४ ॥

श्रीदेव्युवाच॥
भगवन्देवदेवेश सर्वलोकमहेश्वर॥
पञ्चाक्षरस्य महात्म्यं श्रोतुमिच्छामि तत्त्वतः॥ ८५.५ ॥

श्रीभगवानुवाच॥
पञ्चाक्षरस्य महात्म्यं वर्षकोटिशतैरपि॥
न शक्यं कथितुं देवि तस्मात्सङ्क्षेपतः श्रृणु॥ ८५.६ ॥

प्रलये समनु प्राप्ते नष्टे स्थावरजङ्गमे॥
नष्टे देवासुरे चैव नष्टे चोरगराक्षसे॥ ८५.७ ॥

सर्वं प्रकृतिमापन्नं त्वया प्रलयमेष्यति॥
एकोहं संस्थितो देवि न द्वितीयोस्ति कुत्रचित्॥ ८५.८ ॥

तस्मिन्वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः॥
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः॥ ८५.९ ॥

अहमेको द्विधाप्यासं प्रकृत्यात्मप्रभेदतः॥
स तु नारायणः शेते मायामयीं तनुम्॥ ८५.१० ॥

आस्थाय योगपर्यङ्कशयने तोयमध्यगः॥
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः॥ ८५.११ ॥

सिसृक्षमाणो लोकान्वै त्रीनशक्तोऽसहायवान्॥
दश ब्रह्मा ससर्जादौ मानसानमितौजसः॥ ८५.१२ ॥

तेषां सृष्टिप्रसिद्ध्यर्थं मां प्रोवाच पितामहः॥
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर॥ ८५.१३ ॥

इति तेन समादिष्टः पञ्चवक्त्रधरो ह्यहम्॥
पञ्चाक्षरान्पञ्चमुखैः प्रोक्तवान् पद्मयोनये॥ ८५.१४ ॥

तान्पञ्चवदनैर्गृह्णन् ब्रह्मा लोकपितामहः॥
वाच्यवाचकभावेन ज्ञातवान्परमेश्वरम्॥ ८५.१५ ॥

वाच्यः पञ्चाक्षरैर्देवि शिवस्त्रैलोक्यपूजितः॥
वाचकः परमो मन्त्रस्तस्य पञ्चाक्षरः स्थितः॥ ८५.१६ ॥

ज्ञात्वा प्रयोगं विधिना च सिद्धिं लब्ध्वा तथा पञ्चमुखो महात्मा॥
प्रोवाच पुत्रेषु जगद्धिताय मन्त्रं महार्थं किल पञ्चवर्णम्॥ ८५.१७ ॥

ते लब्ध्वा मन्त्ररत्नं तु साक्षाल्लोकपितामहात्॥
तमाराधयितुं देवं परात्परतरं शिवम्॥ ८५.१८ ॥

ततस्तुतोष भगवान् त्रिमूर्तीनां परः शिवः॥
दत्तवानखिलं ज्ञानमणिमादिगुणाष्टकम्॥ ८५.१९ ॥

तेपि लब्ध्वा वरान्विप्रास्तदाराधनकाङ्क्षिणः॥
मेसोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः॥ ८५.२० ॥

मत्प्रियः सततं श्रीमान्मद्भूतैः परिरक्षितः॥
तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः॥ ८५.२१ ॥

दिव्यवर्षसहस्रं तु वायुभक्षाः समाचरन्॥
तिष्ठन्तोनुग्रहार्थाय देवि ते ऋषयः पुरा॥ ८५.२२ ॥

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम्॥
पञ्चाक्षरमृषिच्छन्दौ दैवतं शक्तिबीजवत्॥ ८५.२३ ॥

न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः॥
प्रोक्तवानहमार्याणां लोकानां हितकाम्यया॥ ८५.२४ ॥

तच्छ्रुत्वा मन्त्रमाहात्म्यमृषयस्ते तपोधनाः॥
मन्त्रस्य विनियोगं च कृत्वा सर्वमनुष्ठिताः॥ ८५.२५ ॥

तन्माहात्यात्तदालोकान्सदेवासुरमानुषान्॥
वर्णान्वर्णविभागांश्च सर्वधर्मांश्च शोभनान्॥ ८५.२६ ॥

पूर्वकल्पसमुद्भूताञ्छ्रुतवन्तो यथा पुरा॥
पञ्चाक्षरप्रभावाच्च लोका वेदा महर्षयः॥ ८५.२७ ॥

तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत्॥
तदिदानीं प्रवक्ष्यामि श्रृणु चावहिताखिलम्॥ ८५.२८ ॥

अल्पाक्षरं महार्थं च वेदसारं विमुक्तिदम्॥
आज्ञासिद्धमसन्दिग्धं वाक्यमेतच्छिवात्मकम्॥ ८५.२९ ॥

नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम्॥
सुनिश्चितार्थं गम्भीरं वाक्यं मे पारमेश्वरम्॥ ८५.३० ॥

मन्त्रं मुखसुखोच्चार्यमशेषार्थप्रसाधकम्॥
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं सुशोभनम्॥ ८५.३१ ॥

अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्॥
वेदः स त्रिगुणातीतः सर्वज्ञः सर्वकृत्प्रभुः॥ ८५.३२ ॥

ओमित्येकाक्षरं मन्त्रं स्थितः सर्वगतः शिवः॥
मन्त्रेषडक्षरे सूक्ष्मे पञ्चाक्षरतनुः शिवः॥ ८५.३३ ॥

वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः॥
वाच्यः शिवः प्रमेयत्वान्मन्त्रस्तद्वाचकः स्मृतः॥ ८५.३४ ॥

वाच्यवाचकभावोयमनादिः संस्थितस्तयोः॥
वेदे शिवागमे वापि यत्रयत्र षडक्षरः॥ ८५.३५ ॥

मन्त्रः स्थितः सदा मुख्यो लोके पञ्चाक्षरो मतः॥
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तृतैः॥ ८५.३६ ॥

यस्यैवं हृदि संस्थोयं मन्त्रः स्यात्पारमेश्वरः॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्॥ ८५.३७ ॥

यो विद्वान्वै जपेत्सम्यगधीत्यैव विधानतः॥
एतावद्धि शिवज्ञानमेतावत्परमं पदम्॥ ८५.३८ ॥

एतावद्ब्रह्मविद्याच तस्मान्नित्यं जपेद्बुधः॥
पञ्चाक्षरैः सप्रणवो मन्त्रोयं हृदयं मम॥ ८५.३९ ॥

गुह्याद्गुह्यतरं साक्षान्मोक्षज्ञानमनुक्तमम्॥
अस्य मन्त्रस्य वक्ष्यामि ऋषिच्छन्दोधिदैवतम्॥ ८५.४० ॥

बीजं शक्तिं स्वरं वर्णं स्थानं चैवाक्षरं प्रति॥
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतः॥ ८५.४१ ॥

देवता शिव एवाहं मन्त्रस्यास्य वरानने॥
नकारादीनि बीजानि पञ्चभूतात्मकानि च॥ ८५.४२ ॥

आत्मानं प्रणवं विद्धि सर्वव्यापिनमव्ययम्॥
शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृते॥ ८५.४३ ॥

त्वदीयं प्रणवं किञ्चिन्मदीयं प्रणवं तथा॥
त्वदीयं देवि मन्त्राणां शक्तिभूतं न संशयः॥ ८५.४४ ॥

अकारोकारमकारा मदीये प्रणवे स्थिताः॥
उकारं च मकारं च अकारं च क्रमेण वै॥ ८५.४५ ॥

त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम्॥
ओङ्कारस्य स्वरोदात्त ऋषिर्ब्रह्म सितं वपुः॥ ८५.४६ ॥

छन्दो देवी च गायत्री परमात्माधिदेवता॥
उदात्तः प्रथमस्तद्वच्चतुर्थश्च द्वितीयकः॥ ८५.४७ ॥

पञ्चमः स्वरितश्चैव मध्यमो निषधः स्मृताः॥
नकारः पीतवर्णश्च स्थानं पूर्वमुखं स्मृतम्॥ ८५.४८ ॥

इन्द्रोधिदैवतं छन्दो गायत्री गौतमो ऋषिः॥
मकारः कृष्णवर्णोस्य स्थानं वै दाक्षिणामुखम्॥ ८५.४९ ॥

छन्दोनुष्टुप् ऋषिश्चात्री रुद्रो दैवतमुच्यते॥
शिकारो धूम्रवर्णोस्य स्थानं वै पश्चिमं मुखम्॥ ८५.५० ॥

विश्वामित्र ऋषिस्त्रिष्टुप् छन्दो विष्णुस्तु दैवतम्॥
वाकारो हेमवर्णोस्य स्थानं चैवोत्तरं मुखम्॥ ८५.५१ ॥

ब्रह्माधिदैवतं छन्दो बृहती चाङ्गिरा ऋषिः॥
यकारो रक्तवर्णश्च स्थानमूर्ध्वं मुखंविराट्॥ ८५.५२ ॥

छन्दो ऋषिर्भरद्वाजः स्कन्दो दैवतमुच्यते॥
न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम्॥ ८५.५३ ॥

सर्वपापहरं चैव त्रिविधोन्यास उच्यते॥
उत्पत्तिस्थितिसंहारभेदतस्त्रिविधः स्मृतः॥ ८५.५४ ॥

ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत्॥
उत्पत्तिर्ब्रह्मचारीणां गृहस्थानां स्थितिः सदा॥ ८५.५५ ॥

यतीनां संहृतिन्यासः सिद्धिर्भवति नान्यथा॥
अङ्गन्यासः करन्यासो देहन्यास इति त्रिधा॥ ८५.५६ ॥

उत्पत्त्यादि त्रिभेदेन वक्ष्यते ते वरानने॥
न्यसेत्पूर्वं करन्यासं देहन्यासमनन्तरम्॥ ८५.५७ ॥

अङ्गन्यासं ततः पश्चादक्षराणां विधिक्रमात्॥
मूर्धादिपादपर्यन्तमुत्पत्तिन्यास उच्यते॥ ८५.५८ ॥

पादादिमूर्धपर्यन्तं संहारो भवति प्रिये॥
हृदयास्यगलन्यासः स्थितिन्यास उदाहृतः॥ ८५.५९ ॥

ब्रह्मचारिगृहस्थानां यतीनां चैव शोभने॥
सशिरस्कं ततो देहं सर्वमन्त्रेण संस्पृशेत्॥ ८५.६० ॥

स देहन्यास इत्युक्तः सर्वेषां सम एव स॥
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्त एव हि॥ ८५.६१ ॥

न्यस्यते यत्तदुत्पत्तिर्विपरीतं तु संहृतिः॥
अङ्गुष्ठादिकनिष्ठान्तं न्यस्यते हस्तयोर्द्वियोः॥ ८५.६२ ॥

अतीव भोगदो देवी स्थितिन्यासः कुटुम्बिनाम्॥
करन्यासं पुरा कृत्त्वा देहन्यासमनं तरम्॥ ८५.६३ ॥

अङ्गन्यासं न्यसेत्पश्चादेष साधारणो विधिः॥
ओङ्कारं सम्पुटीकृत्य सर्वाङ्गेषु च विन्यसेत्॥ ८५.६४ ॥

करयोरुभयोश्चैव दशाग्रां गुलिषु क्रमात्॥
प्रक्षाल्य पादावाचम्य शुचिर्भूत्वा समाहितः॥ ८५.६५ ॥

प्राङ्मुखोदङ्मुखो वापि न्यासकर्म समाचरेत्॥
स्मरेत्पूर्वमृषिञ्छन्दो दैवतं बीजमेव च॥ ८५.६६ ॥

शक्तिं च परमात्मानं गुरुं चैव वरानने॥
मन्त्रेण पाणी सम्मृज्य तलयोः प्रणवं न्यसेत्॥ ८५.६७ ॥

अङ्गुलीनां च सर्वेषां तथा चाद्यन्तपर्वसु॥
सबिन्दुकानि बीजानि पञ्च मध्यमपर्वसु॥ ८५.६८ ॥

उत्पत्त्यादित्रिभेदेन न्यसेदाश्रमतः क्रमात्॥
उभाभ्यामेव पाणिभ्यामापादतलमस्तकम्॥ ८५.६९ ॥

मन्त्रेण संस्पृशेद्देहं प्रणवेनैव सम्पुटम्॥
मूर्ध्नि वक्त्रे च कण्ठे च हृदये गुह्यके तथा॥ ८५.७० ॥

पादयो रुभयोश्चैव गुह्ये च हृदये तथा॥
कण्ठे च मुखमध्ये च मूर्ध्नि च प्रणवादिकम्॥ ८५.७१ ॥

हृदये गुह्यके चैव पादयोर्मूर्ध्नि वाचि वा॥
कण्ठे चैव न्यसेदेव प्रणवादित्रिभेदतः॥ ८५.७२ ॥

कृत्वाङ्गन्यासमेवं हि मुखानि परिकल्पयेत्॥
पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम्॥ ८५.७३ ॥

षडङ्गानि न्यसेत्पश्चाद्यथास्थानं च शोभनम्॥
नमः स्वाहा वषड्ढुं च वैषट्फट्कारकैः सह॥ ८५.७४ ॥

प्रणवं हृदयं विद्यान्नकारः शिरउच्यते॥
शिखा मकार आख्यातः शिकारः कवचं तथा॥ ८५.७५ ॥

वाकारो नेत्रमस्त्रं तु यकारः परिकीर्तितः॥
इत्थमङ्गानि विन्यस्य ततो वै बन्धयेद्दिशः॥ ८५.७६ ॥

विघ्नेशो मातरो दुर्गा क्षेत्रज्ञो देवता दिशः॥
आग्नेयादिषु कोणेषु चतुर्ष्वपि यथाक्रमम्॥ ८५.७७ ॥

अङ्गुष्ठतर्जन्यग्राभ्यां संस्थाप्य सुमुखं शुभम्॥
रक्षध्वमिति चोक्त्वा तु नमस्कुर्यात्पृथक्पृथक्॥ ८५.७८ ॥

गले मध्ये तथाङ्गुष्ठे तर्जन्याद्याङ्गुलीषु च॥
अङ्गुष्ठेन करन्यासं कुर्यादेव विचक्षणः॥ ८५.७९ ॥

एवं न्यासमिमं प्रोक्तं सर्वपापहरं शुभम्॥
सर्वसिद्धिकरं पुण्यं सर्वरक्षाकरं शिवम्॥ ८५.८० ॥

न्यस्ते मन्त्रेऽथ सुभगे शङ्करप्रतिमो भवेत्॥
जन्मान्तरकृतं पापमपि नश्यति तत्क्षणात्॥ ८५.८१ ॥

एवं विन्यस्य मेधावी शुद्धकायो दृढव्रतः॥
जपेत्पञ्चाक्षरं मन्त्रं लब्ध्वाचार्यप्रसादतः॥ ८५.८२ ॥

अतः परं प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभे॥
यं विना निष्फलं नित्यं येन वा सफलं भवेत्॥ ८५.८३ ॥

आज्ञाहीनं क्रियाहीनं श्रद्धाहीनममानसम्॥
आज्ञप्तं दक्षिणाहीनं सदा जप्तं च निष्फलम्॥ ८५.८४ ॥

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं सुमानसम्॥
एवं च दक्षिणासिद्धं मन्त्रं सिद्धं यतस्ततः॥ ८५.८५ ॥

उपागम्य गुरुं विप्रं मन्त्रतत्त्वार्थवेदिनम्॥
ज्ञानिनं सद्गुणोपेतं ध्यानयोगपरायणम्॥ ८५.८६ ॥

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः॥
वाचा च मनसा चैव कायेन द्रविणेन च॥ ८५.८७ ॥

आचार्यं पूजयेच्छिष्यः सर्वदातिप्रयत्नतः॥
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च॥ ८५.८८ ॥

भूषणानिं च वासांसि धान्यानि विविधानि च॥
एतानि गुरवे दद्याद्बक्त्या च विभवे सति॥ ८५.८९ ॥

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः॥
पश्चान्निवेदयेद्देवि आत्मानं सपरिच्छदम्॥ ८५.९० ॥

एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन्॥
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु॥ ८५.९१ ॥

एवं तुष्टो गुरुः शिष्यं पूजितं वत्सरोषितम्॥
शुश्रूषुमनहङ्कारमुपवासकृशं शुचिम्॥ ८५.९२ ॥

स्नापयित्वा तु शिष्याय ब्राह्मणानपि पूज्य च॥
समुद्रतीरे नद्यां च गोष्ठे देवालयेपि वा॥ ८५.९३ ॥

शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ॥
नक्षत्रे शुभयोगे च सर्वदा दोषवर्जिते॥ ८५.९४ ॥

अनुगृह्य ततो दद्याच्चिवज्ञानमनुत्तमम्॥
स्वरेणोच्चारयेत्सम्यगेकान्तेपि प्रसन्नधीः॥ ८५.९५ ॥

उच्चर्योच्चारयित्वा तु आचार्यः सिद्धिदः स्वयम्॥
शिवं चास्तु शुभं चास्तु शोभनोस्तु प्रियोस्त्विति॥ ८५.९६ ॥

एवं लब्ध्वा परं मन्त्रं ज्ञानं चैव गुरोस्ततः॥
जपेन्नित्यं ससङ्कल्पं पुरश्चरणमेव च॥ ८५.९७ ॥

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम्॥
अनश्नस्तत्परो भूत्वा स याति परमां गतिम्॥ ८५.९८ ॥

जपेदक्षरलक्षं वै चतुर्गुणितमादरात्॥
नक्तासी संयमी यश्च पौरश्चरणिकः स्मृतः॥ ८५.९९ ॥

पुरश्चरणजापी वा अपि वा नित्यजापकः॥
अचिरात्सिद्धिकाङ्क्षी तु तयोरन्यतरो भवेत्॥ ८५.१०० ॥

यः पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः॥
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो वशी॥ ८५.१०१ ॥

आसनं रुचिरं बद्ध्वा मौनी चैकाग्रमानसः॥
प्राङ्मुखोदङ्मुखो वापि जपेन्मन्त्रमनुत्तमम्॥ ८५.१०२ ॥

आद्यान्तयोर्जपस्यापि कुर्याद्वै प्राणसंयमान्॥
तथा चान्ते जपेद्बीजं शतमष्टोत्तरं शुभम्॥ ८५.१०३ ॥

चत्वारिंशत्समावृत्ति प्राणानायम्य संस्मरेत्॥
पञ्चाक्षरस्य मन्त्रस्य प्राणायाम उदाहृतः॥ ८५.१०४ ॥

प्राणायामाद्भवेत्क्षिप्रं सर्वपापपरिक्षयः॥
इन्द्रियाणां वशित्वं च तस्मात्प्राणांश्च संयमेत्॥ ८५.१०५ ॥

गृहे जपः समं विद्याद्गोष्ठे शतगुणं भवेत्॥
नद्यां शतसहस्रं तु अनन्तः शिवसन्निधौ॥ ८५.१०६ ॥

समुद्रतीरे देवह्रदे गिरौ देवालयेषु च॥
पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत्॥ ८५.१०७ ॥

शिवस्य सन्निधाने च सूर्यस्याग्रे गुरोरपि॥
दीपस्य गोर्जलस्यापि जपकर्म प्रशस्तये॥ ८५.१०८ ॥

अङ्गुलीजपसङ्ख्यानमेकमेकं शुभानने॥
रेखैरष्टगुणं प्रोक्तं पुत्रजीवफलैर्दश॥ ८५.१०९ ॥

शतं वै शङ्खमणिभिः प्रवलैश्च सहस्रकम्॥
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते॥ ८५.११० ॥

पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते॥
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणमुच्यते॥ ८५.१११ ॥

पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम्॥
त्रिंशच्च धनसम्पत्त्यै पञ्चाशच्चाभिचारिकम्॥ ८५.११२ ॥

तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्॥
पश्चिमं धनदं विद्यादुत्तरं शान्तिकं भवेत्॥ ८५.११३ ॥

अङ्गुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशनी॥
मध्यमा धनदा शान्तिं करगोत्येषा ह्यनामिका॥ ८५.११४ ॥

कनिष्ठा रक्षणीया सा जपकर्मणिशोभने॥
अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह॥ ८५.११५ ॥

अङ्गुष्ठेन विना कर्म कृतं तदफलं यतः॥
शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते॥ ८५.११६ ॥

हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया॥
यावन्तः कर्मयज्ञाः स्युः प्रदानानि तपांसि च॥ ८५.११७ ॥

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्॥
माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम्॥ ८५.११८ ॥

तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः॥
यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः॥ ८५.११९ ॥

मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः॥
शनैरुच्चारयेन्मन्त्रमीषदेष्ठौ तु चालयेत्॥ ८५.१२० ॥

किञ्चित्कर्णान्तरं विद्यादुपांशुः स जपः स्मृतः॥
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्॥ ८५.१२१ ॥

शब्दार्थं चिन्तयेद्भूयः स तूक्तो मानसो जपः॥
त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः॥ ८५.१२२ ॥

भवेद्यज्ञविशेषेण वैशिष्ट्यं तत्फलस्य च॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति॥ ८५.१२३ ॥

प्रसन्ना विपुलान् भोगान्दद्यान्मुक्तिं च शाश्वतीम्॥
यक्षरक्षःपिशाचाश्च ग्रहाः सर्वे च भीषणाः॥
जापिनं नोपसर्पन्ति भयभीताः समन्ततः॥ ८५.१२४ ॥

जपेन पापं शमयेदशेषं यत्तत्कृतं जन्मपरम्परासु॥
जपेन भोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मुक्तिम्॥ ८५.१२५ ॥

एवं लब्ध्वा शिवं ज्ञानं ज्ञात्वा जपविधिक्रमम्॥ ८५.१२६ ॥

सदाचारी जपन्नित्यं ध्यायन् भद्रं समश्नुते॥
सदाचारं प्रवक्ष्यामि सम्यग्धर्मस्य साधनम्॥ ८५.१२७ ॥

यस्मादाचारहीनस्य साधनं निष्फलं भवेत्॥
आचारः परमो धर्म आचारः परमन्तपः॥ ८५.१२८ ॥

आचारः परमा विद्या आचारः परमा गतिः॥
सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत्॥ ८५.१२९ ॥

तद्वदाचारहीनानां सर्वत्रैवभयं भवेत्॥
सदाचारेण देवत्वमृषित्वं च वरानने॥ ८५.१३० ॥

उपयान्ति कुयोनित्वं तद्वदाचरलङ्घनात्॥
आचारहीनः पुरुषो लोके भवतिनिन्दितः॥ ८५.१३१ ॥

तस्मात्संसिद्धिमन्विच्छन्सम्यगाचारवान् भवेत्॥
दुर्वृत्तो शुद्धिभूयिष्ठो पापीयान् ज्ञानदूषकः॥ ८५.१३२ ॥

वर्णाश्रमविधानोक्तं धर्मं कुर्वीत यत्नतः॥ ८५.१३३ ॥

यस्य यद्विहितं कर्म तत्कुर्वन्मत्प्रियः सदा॥
सन्ध्योपासनशीलः स्यात्सायं प्रातः प्रसन्नधीः॥ ८५.१३४ ॥

उदयास्तमयात्पूर्वमारम्य विधिना शुचिः॥
कामान्मोहाद्भयाल्लोभात्सन्ध्यां नातिक्रमेद्द्विजः॥ ८५.१३५ ॥

सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्यात्पतते यतः॥
असत्यं न वदेत्किञ्चिन्न सत्यं च परित्यजेत्॥ ८५.१३६ ॥

यत्सत्यं ब्रह्म इत्याहुरसत्यं ब्रह्मदूषणम्॥
अनृतं परुषं शाठ्यं पैशुन्यं पापहेतुकम्॥ ८५.१३७ ॥

परदारान्परद्रव्यं परहिंसां च सर्वदा॥
क्वचिच्चापि न कुर्वीत वाचा च मनसा तथा॥ ८५.१३८ ॥

शूद्रान्नं यातयामान्नं नैवेद्यं श्राद्धमेव च॥
गणान्नं समुदायान्नं राजान्नं च विवर्जयेत्॥ ८५.१३९ ॥

अन्नशुद्धौ सत्त्वशुद्धिर्न मृदा न जलेन वै॥
सत्त्वशुद्धौ भवेत्सिद्धिस्ततोन्नं परिशोधयेत्॥ ८५.१४० ॥

राजप्रतिग्रहैर्दग्धान् ब्राह्मणान् ब्रह्मवादिनः॥
स्विन्नानामपि बीजानां पुनर्जन्म न विद्यते॥ ८५.१४१ ॥

राजप्रतिग्रहो घोरो बुद्ध्वा चादौ विषोपमः॥
बुधेन परिहर्तव्यः श्वमांसं चापि वर्जयेत्॥ ८५.१४२ ॥

अस्नात्वा न च भुञ्जीयादजपोग्निमपूज्य च॥
पर्णपृष्ठे न भुञ्जीयाद्रात्रौ दीपं विना तथा॥ ८५.१४३ ॥

भिन्नभाण्डे च रथ्यायां पतितानां च सन्निधौ॥
शूद्रशेषं न भुञ्जीयात्सहान्नं शिशुकैरपि ॥ ८५.१४४ ॥

शुद्धान्नं स्निग्धमश्रीयात्संस्कृतं चाभिमन्त्रितम्॥
भोक्ता शिव इति स्मृत्वा मौनी चैकाग्रमानसः॥ ८५.१४५ ॥

आस्येन न पिबेत्तोयं तिष्ठन्नञ्जलिनापि वा॥
वामहस्तेन श्य्यायां तथैवान्यकरेण वा॥ ८५.१४६ ॥

विक्षीतकार्कारञ्जस्नुहिच्छायां न चाश्रयेत्॥
स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा॥ ८५.१४७ ॥

एको न गच्छेदध्वानं बाहुभ्यां नोत्तरेन्नदीम्॥
नावरोहेत कूपादिं नारोहेदुच्चपादपान्॥ ८५.१४८ ॥

सूर्याग्निजलदेवानां गुरूणां विमुखः शुभे॥
न कुर्यादिह कार्याणि जपकर्म शुभानि वा॥ ८५.१४९ ॥

अग्नौ न तापयेत्पादौ हस्तं पद्भ्यां न संस्पृशेत्॥
अग्नेर्नोच्छ्रयमासति नाग्नौ किञ्चिन्मलं त्यजेत्॥ ८५.१५० ॥

न जलं ताडयेत्पद्भ्यां नाम्भस्यङ्गमलं त्यजेत्॥
मलं प्रक्षालयेत्तीरे प्रक्षाल्य स्नानमाचरेत्॥ ८५.१५१ ॥

नखाग्रकेशनिर्धूतस्नानवस्त्रघटोदकम्॥
अश्रीकरं मनुष्याणामशुद्धं संस्पृशेद्यदि॥ ८५.१५२ ॥

अजाश्वानखरोष्ट्राणां मार्जनात्तुपरेणुकान्॥
सस्पृशीद्यादि मूढात्मा श्रियं हन्ति हरेरपि॥ ८५.१५३ ॥

मार्जारश्च गृहे यस्य सोप्यन्त्यजसमो नरः॥
भोजयेद्यस्तु विप्रेन्द्रान्मार्जारान्सन्निधौ यदि॥ ८५.१५४ ॥

तच्चाण्डालसमं ज्ञेयं नात्र कार्याविचारणा॥
स्फिग्वातं शूर्पवातं च वातं प्राणमुखानिलम्॥ ८५.१५५ ॥

सुकृतानि हरन्त्येते संस्पृष्टाः पुरुषस्य तु॥
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो मलावृतः॥ ८५.१५६ ॥

अपवित्रकरोशुद्धः प्रलपन्न जपेत् क्वचित्॥
क्रोधो मदः क्षुधा तन्द्रा निष्ठीवनविजृम्भणे॥ ८५.१५७ ॥

श्वनीचदर्शनं निद्रा प्रलापास्ते जपद्विषः॥
एतेषां सम्भवे वापि कुर्यात्सूर्यादिदर्शनम्॥ ८५.१५८ ॥

आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम्॥
सूर्योग्निश्चन्द्रमाश्चैव ग्रहनक्षत्रतारकाः॥ ८५.१५९ ॥

एते ज्योतींषि प्रोक्तानि विद्वद्भिर्बाह्मणैस्तथा॥
प्रसार्य पादौ न जपेत्कुक्कुटासन एव च॥ ८५.१६० ॥

अनासनः शयानो वा रथ्यायां शूद्रसन्निधौ॥
रक्तभूम्यां च खट्वायां न जपेज्जापकस्तथा॥ ८५.१६१ ॥

आसनस्थो जपेत्सम्यक् मन्त्रार्थगतमानसः॥
कौशेयं व्याघ्रचर्मं वा चैलं तौलमथापि वा॥ ८५.१६२ ॥

दारवं तालपर्णं वा आसनं परिकल्पयेत्॥
त्रिसन्ध्यं तु गुरोः पूजा कर्तव्या हितमिच्छता॥ ८५.१६३ ॥

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः॥ ८५.१६४ ॥

शिवविद्यागुरोस्तस्माद्भक्त्या च सदृशं फलम्॥
सर्वदेवमयो देवी सर्वशक्तिमयो हि सः॥ ८५.१६५ ॥

सगुणो निर्गुणो वापि तस्याज्ञां शिरसा वहेत्॥
श्रेयोर्थि यस्तु गुर्वाज्ञां मनसापि न लङ्घयेत्॥ ८५.१६६ ॥

गुर्वाज्ञापालकः सम्यक् ज्ञानसम्पत्तिमश्नुते॥
गच्छंस्तिष्ठन्स्वपन् भुञ्जन्यद्यत्कर्म समाचरेत्॥ ८५.१६७ ॥

समक्षं यदि तत्सर्वं कर्तव्यं गुर्वनुज्ञया॥
गुरोर्देवसमक्षं वा न यथेष्टासनो भवेत्॥ ८५.१६८ ॥

गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम्॥
पापिना च यतासङ्गात्तत्पापैः पतनं भवेत्॥ ८५.१६९ ॥

तद्वदाचार्यसङ्गेन तद्वर्मफलभाग्भवेत्॥
यथैव वह्निसम्पर्कान्मलं त्यजति काञ्चनम्॥ ८५.१७० ॥

तथैव गुरुसम्पर्कात्पापं त्यजति मानवः॥
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते॥ ८५.१७१ ॥

तथा पापं विलीयेत आचार्यस्य समीपतः॥
यथा प्रज्वलितो वह्निर्विष्ठा काष्ठं च निर्दहेत्॥ ८५.१७२ ॥

गुरुस्तुष्टो दहत्येवं पापं तन्मन्त्रतेजसा॥
ब्रह्मा हरिस्तथा रुद्रो देवाश्च मुनयस्तथा॥ ८५.१७३ ॥

कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः॥
कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत्॥ ८५.१७४ ॥

तस्य क्रोधेन दह्यन्ते आयुःश्रीज्ञानसत्क्रियाः॥
तत्क्रोधं ये करिष्यन्ति तेषां यज्ञाश्च निष्फलाः॥ ८५.१७५ ॥

जपान्यनियमाश्चैव नात्र कार्या विचारणा॥
गुरोर्विरुद्धं यद्वाक्यं न वदेत्सर्वयत्नतः॥ ८५.१७६ ॥

वदेद्यदिमामोहाद्रौरवं नरकं व्रजेत्॥
चित्तेनैव च वित्तेन तथा वाचा च सुव्रताः॥ ८५.१७७ ॥

मिथ्या न कारयेद्देवि क्रियया च गुरोः सदा॥
दुर्गुणेख्यापिते तस्य नैर्गुण्यशतभाग्भवेत्॥ ८५.१७८ ॥

गुणे तु ख्यापिते तस्य सार्वगुण्यफलं भवेत्॥
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा॥ ८५.१७९ ॥

असमक्षं समक्षं वा गुरोः कार्यं समाचरेत्॥
गुरोर्हितं प्रियं कुर्यान्मनोवाक्कायकर्मभिः॥ ८५.१८० ॥

कुर्वन्पतत्यधो गत्वा तत्रैव परिवर्तते॥
तस्मात्स सर्वदोपास्यो वन्दनीयश्च सर्वदा॥ ८५.१८१ ॥

समीपस्थोप्यनुज्ञाप्य वदेत्तद्विमुखो गुरुम्॥
एवमाचारवान् भक्तो नित्यं जपपरायणः॥ ८५.१८२ ॥

गुरुप्रियकरो मन्त्रं विनियोक्तं ततोर्हति॥
विनियोगं प्रवक्ष्यामि सिद्धमन्त्रप्रयोजनम्॥ ८५.१८३ ॥

दौर्बल्यं याति तन्मन्त्रं विनियोगमजानतः॥
यस्य येन वियुञ्जीत कार्येण तु विशेषतः॥ ८५.१८४ ॥

विनियोगः स विज्ञेय ऐहिकामुष्मिकं फलम्॥
विनियोगजमायुष्यमारोग्यं तनुनित्यता॥ ८५.१८५ ॥

राज्यैश्वर्यं च विज्ञानं स्वर्गो निर्वाण एव च॥
प्रोक्षणं चाभिषेकं च अघमर्षणमेव च॥ ८५.१८६ ॥

स्नाने च सन्ध्ययोश्चैव कुर्यादेकादशेन वै॥
शुचिः पर्वतमारुह्य जपेल्लक्षमतन्द्रितः॥ ८५.१८७ ॥

महानद्यां द्विलक्षं तु दीर्घमायुरवाप्नुयात्॥
दूर्वाङ्कुरास्तिला वाणी गुडूची घुटिका तथा॥ ८५.१८८ ॥

तेषां तु दशसाहस्रं होममायुष्यवर्धनम्॥
अश्वत्थवृक्षमाश्रित्य जपेल्लक्षद्वयं सुधीः॥ ८५.१८९ ॥

शनैश्चरदिने स्पृष्ट्वा दीर्घायुष्यं लभेन्नरः॥
शनैश्चरदिनेऽश्वत्थं पाणिभ्यां संस्पृशेत्सुधीः॥ ८५.१९० ॥

जपेदष्टोत्तरशतं सोममृत्युहरो भवेत्॥
आदित्याभिमुखो भूत्वा जपेल्लक्षमनन्यधीः॥ ८५.१९१ ॥

अर्कैरष्टशतं जप्त्वा जुह्वन्व्याधेर्विमुच्यते॥
समस्तव्याधिशान्त्यर्थं पलाशसमिदैर्नरः॥ ८५.१९२ ॥

हुत्वा दशसहस्रं तु निरोगी मनुजो भवेत्॥
नित्यमष्टशतं जप्त्वा पिबेदम्भोर्कसन्निधौ॥ ८५.१९३ ॥

औदर्यैर्व्याधिभिः सर्वैर्मासेनैकेन मुच्यते॥
एकादशेन भुञ्जीयादन्नं चैवाभिमन्त्रितम्॥ ८५.१९४ ॥

भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत्॥
जपेल्लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै॥ ८५.१९५ ॥

सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात्॥
नदीतोयेन सम्पूर्णं घटं संस्पृश्य शोभनम्॥ ८५.१९६ ॥

जप्त्वायुतं च तत्स्नानाद्रोगाणां भेषजं भवेत्॥
अष्टाविंशज्जपित्वान्नमश्रीयादन्वहं शुचिः॥ ८५.१९७ ॥

हुत्वा च तावत्पालाशैरेवं वारोग्यमश्नुते॥
चन्द्रसूर्यग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः॥ ८५.१९८ ॥

यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः॥
जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु॥ ८५.१९९ ॥

अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं द्विजाः॥
एहिकां लभते मेधां सर्वशास्त्रधरां शुभाम्॥ ८५.२०० ॥

सारस्वती भवेद्देवी तस्य वागतिमानुषी॥
ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः॥ ८५.२०१ ॥

हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति॥
दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः॥ ८५.२०२ ॥

घृतेनाष्टशतं हुत्वा सद्यः शान्तिर्भविष्यति॥
चन्द्रसूर्यग्रहे लिङ्गं समभ्यर्च्य यथाविधि॥ ८५.२०३ ॥

यत्किञ्चित्प्रार्थयेद्देवि जपेदयुतमादरात्॥
सन्निधावस्य देवस्य शुचिः संयतमानसः॥ ८५.२०४ ॥

सर्वान्कामानवाप्नोति पुरुषो नात्र संशयः॥
गजानां तुरगाणां तु गोजातीनां विशेषतः॥ ८५.२०५ ॥

व्याध्यागमे शुचिर्भूत्वा जुहुयात्समिधाहुतिम्॥
मासमभ्यर्च्य विधिनाऽयुतं भक्तिसमन्वितः॥ ८५.२०६ ॥

तेषामृद्धिश्च शान्तिश्च भविष्यति न संशयः॥
उत्पाते शत्रुबाधायां जुहुयादयुतं शुचिः॥ ८५.२०७ ॥

पालाशसमिधैर्देवि तस्य शान्तिर्भविष्यति॥
आभिचारिकबाधायामेतद्देवि समाचरेत्॥ ८५.२०८ ॥

प्रत्यग् भवति तच्छक्तिः शत्रोः पीडा भविष्यति॥
विद्वेषणार्थं जुहुयाद्वैभीतसमिधाष्टकम्॥ ८५.२०९ ॥

अक्षरप्रतिलोम्येन आर्द्रेण रुधिरेण वा॥
विषेण रुधिराभ्यक्तो विद्वेषणकरं नृणाम्॥ ८५.२१० ॥

प्रायश्चित्तं प्रवक्ष्यामि सर्वपापविशुद्धये॥
पापशुद्धिर्यथा सम्यक् कर्तुमभ्युद्यतो नरः॥ ८५.२११ ॥

पापसुद्धिर्यतः सम्यग् ज्ञानसम्पत्तिहैतुकी॥
पापशुद्धिर्न चेत्पुंसः क्रियाः सर्वाश्चनिष्फलाः॥ ८५.२१२ ॥

ज्ञानं च हीयते तस्मात्कर्तव्यं पापशोधनम्॥
विद्यालक्ष्मीविशुद्ध्यर्थं मां ध्यात्वाञ्जलिना शुभे॥ ८५.२१३ ॥

शिवेनैका दशेनाद्भिरभिषिञ्चेत्समन्ततः॥
अष्टोत्तरशतेनैव स्नायात्पापविशुद्धये॥ ८५.२१४ ॥

सर्वतीर्थफलं तच्च सर्वपापहरं शुभम्॥
सन्ध्योपासनविच्छेदे जपेदष्टशतं नरः॥ ८५.२१५ ॥

विड्वराहैश्च चाण्डालैर्दुर्जनैः कुक्कुटैरपि॥
स्पृष्टमन्नं न भुञ्जीत भुक्त्वा चाष्टशतं जपेत्॥ ८५.२१६ ॥

ब्रह्महत्या विशुद्ध्यर्थं जपेल्लक्षायुतं नरः॥
पातकानां तदर्धं स्यान्नात्र कार्या विचारणा॥ ८५.२१७ ॥

उपपातकदुष्टानां तदर्धं परिकीर्तितम्॥
शेषाणामपि पापानां जपेत्पञ्चसहस्रकम्॥ ८५.२१८ ॥

आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम्॥
शिवः स्यात्स जपेन्मन्त्रं पञ्चलक्षमनाकुलः॥ ८५.२१९ ॥

पञ्चवायुजयं भद्रे प्राप्नोति मनुजः सुखम्॥
जपेच्च पञ्चलक्षं तु विगृहीतेन्द्रियः शुचिः॥ ८५.२२० ॥

पञ्चेन्द्रियाणां विजयो भविष्यति वरानने॥
ध्यानयुक्तो जपेद्यस्तु पञ्चलक्षमनाकुलः॥ ८५.२२१ ॥

विषयाणां च पञ्चानां जयं प्राप्नोति मानवः॥
चतुर्थं पञ्चलक्षं तु यो जपेद्भक्तिसंयुतः॥ ८५.२२२ ॥

भूतानामिह पञ्चानां विजयं मनुजो लभेत्॥
चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः॥ ८५.२२३ ॥

सम्यग्विजयमाप्नोति करणानां वरानने॥
पञ्चविंशतिलक्षाणां जपेन कमलानने॥ ८५.२२४ ॥

पञ्चविंशतितत्त्वानां विजयं मनुजो लभेत्॥
मध्यरात्रेतिनिर्वाते जपेदयुतमादरात्॥ ८५.२२५ ॥

ब्रह्मसिद्धिमवाप्नोति व्रतेनानेन सुन्दरि॥
जपेल्लक्षमनालस्यो निर्वाते ध्वनिवर्जिते॥ ८५.२२६ ॥

मध्यारात्रे च शिवयोः पश्यत्येव न संशयः॥
अन्धकारविनाशश्च दीपस्येव प्रकाशनम्॥ ८५.२२७ ॥

हृदयान्तर्बहिर्वापि भविष्यति न संशयः॥
सर्वसम्पत्समृद्ध्यर्थं जपेदयुतमात्मवान्॥ ८५.२२८ ॥

सबीजसम्पुटं मन्त्रं शतलक्षं जपेच्छुचिः॥
मत्सायुज्यमवाप्नोति भक्तिमान् किमतः परम्॥ ८५.२२९ ॥

इति ते सर्वमाख्यातं पञ्चाक्षरविधिक्रमम्॥
यः पठेच्छृणुयाद्वापि स याति परमां गतिम्॥ ८५.२३० ॥

श्रावयेच्च द्विजाञ्छुद्धान्पञ्चाक्षरविधिक्रमम्॥
दैवे कर्मणि पित्र्ये वा शिवलोके महीयते॥ ८५.२३१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चाक्षरमाहात्म्यं नाम पञ्चाशीतितमोध्यायः॥ ८५ ॥