०८४

सूत उवाच॥
उमामहेश्वरं वक्ष्ये व्रतमीश्वरभाषितम्॥
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः॥ ८४.१ ॥

पौर्णमास्याममावास्यां चतुर्दस्यष्टमीषु च॥
नक्तमब्दं प्रकुर्वीत हविष्यं पूजयेद्भवम्॥ ८४.२ ॥

उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम्॥
राजतीं वाथ वर्षान्ते प्रतिष्ठाप्य यथाविधि॥ ८४.३ ॥

ब्राह्मणान् भोजयित्वा च दत्त्वा शक्त्या च दक्षिणाम्॥
रथाद्यैर्वापि देवेशं नीत्वा रुद्रालयं प्रति॥ ८४.४ ॥

सर्वातिशयसंयुक्तैश्छत्रचामरभूषणैः॥
निवेदयेद्व्रतं चैव शिवाय परमेष्ठिने॥ ८४.५ ॥

स याति शिवासायुज्यं नारी देव्या यदि प्रभो॥
अष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी॥ ८४.६ ॥

वर्षमेकं न भुञ्जीत कन्या वा विधवापि वा॥
वर्षान्ते प्रतिमां कृत्वा पूर्वोक्तविधिना ततः॥ ८४.७ ॥

प्रतिष्ठाप्य यथान्यायं दत्त्वा रुद्रालये पुनः॥
ब्राह्मणान् भोजयित्वा च भवान्या सह मोदते॥ ८४.८ ॥

या नार्येवं चरेदब्दं कृष्णामेकां चतुर्दशीम्॥
वर्षान्ते प्रतिमां कृत्वा येन केनापि वा द्विजाः॥ ८४.९ ॥

पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते॥
अमावास्यां निराहारा भवेदब्दं सुयन्त्रिता॥ ८४.१० ॥

शूलं च विधिना कृत्वा वर्षान्ते विनिवेदयेत्॥
स्नाप्येशानं यजेद्भक्त्या सहस्रैः कमलैः सितैः॥ ८४.११ ॥

राजतं कमलं चैव जाम्बूनदसुकर्णिकम्॥
दत्त्वा भवाय विप्रेभ्यः प्रदद्याद्दक्षिणामपि॥ ८४.१२ ॥

कामतोपि कृतं पापं भ्रूणहत्यादिकं च यत्॥
तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः॥ ८४.१३ ॥

सायुज्यं चैवमाप्नोति भवान्या द्विजसत्तमाः॥
कुर्याद्यद्वा नरः सोपि रुद्रसायुज्यमाप्नुयात्॥ ८४.१४ ॥

पौर्णमास्याममावास्यां वर्षमेकमतन्द्रिता॥
उपवासरता नारी नरोपि द्विजसत्तमाः॥ ८४.१५ ॥

नियोगादेव तत्कार्यं भर्तॄणां द्विजसत्तमाः॥
जपं दानं तपः सर्वमस्वतन्त्रा यतः स्त्रियः॥ ८४.१६ ॥

वर्षान्ते सर्वगन्धाढ्यां प्रतिमां सन्निवेदयेत्॥
सा भवान्याश्च सायुज्यं सारूयं चापि सुव्रता॥ ८४.१७ ॥

लभते नात्र सन्देहः सत्यंसत्यं वदाम्यहम्॥
कार्तिक्यां वा तु या नारी एकभक्तेन वर्तते॥ ८४.१८ ॥

क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी॥
दद्यात्कृष्णतिलानां च भारमेकमतन्द्रिया॥ ८४.१९ ॥

सघृतं सगुडं चैव ओदनं परमेष्ठिने॥
दत्त्वा च ब्राह्मणेभ्यश्च यथाविभवविस्तरम्॥ ८४.२० ॥

अष्टम्यां च चतुर्दश्यामुपवासरता च सा॥
भवान्या मोदते सार्धं सारूप्यं प्राप्य सुव्रता॥ ८४.२१ ॥

क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः॥
सर्वव्रतेष्वयं धर्मः सामान्यो रुद्रपूजनम्॥ ८४.२२ ॥

समासाद्वः प्रवक्ष्यामि प्रतिमासमनुक्रमात्॥
मार्गशीर्षकमासादि कार्तिक्यान्तं यताक्रमम्॥ ८४.२३ ॥

व्रतं सुविपुलं पुण्यं नन्दिना परिभाषितम्॥
मार्गशीर्षकमासेथ वृषं पूर्णाङ्गमुत्तमम्॥ ८४.२४ ॥

अलङ्कृत्य यथान्यायं शिवाय विनिवेदयेत्॥
सा च सार्धं भवान्या वै मोदते नात्र संशयः॥ ८४.२५ ॥

पुष्यमासे तु वै शूलं प्रतिष्ठाप्य निवेदयेत्॥
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते॥ ८४.२६ ॥

माघमासे रथं कृत्वा सर्वलक्षणलक्षितम्॥
दद्यात्सम्पूज्य देवेशं ब्राह्मणांश्चैव भोजयेत्॥ ८४.२७ ॥

सा च देव्या महाभाग मोदते नात्र संशयः॥
फाल्गुने प्रतिमां कृत्वा हिरण्येन यथाविधि॥ ८४.२८ ॥

राजतेनापि ताम्रेण यथाविभवविस्तरम्॥
प्रतिष्ठाप्य समभ्यर्च्य स्थापयेच्छङ्करालये॥ ८४.२९ ॥

सा च सार्धं महादेव्या मोदते नात्र संशयः॥
चैत्रे भवं कुमारं च भवानीं च यथाविधि॥ ८४.३० ॥

ताम्राद्यैर्विधिवत्कृत्वा प्रतिष्ठाप्य यथाविधि॥
भवान्या मोदते सार्धं दत्त्वा रुद्राय शम्भवे॥ ८४.३१ ॥

कृत्वालयं हि कौबेरं राजतं रजतेन वै॥
ईश्वरोमासमायुक्तं गणेशैश्च समन्ततः॥ ८४.३२ ॥

सर्वरत्नसमायुक्तं प्रतिष्ठाप्य यथाविधि॥
स्थापयेत्परमेशस्य भवस्यायतने शुभे॥ ८४.३३ ॥

वैशाखे वै चरेदेवं कैलासाख्यं व्रतोत्तमम्॥
कैलासपर्वतं प्राप्य भवान्या सह मोदते॥ ८४.३४ ॥

ज्येष्ठे मासि महादेवं लिङ्गमूर्तिमुमापतिम्॥
कृताञ्जलि पुटेनैव ब्रह्मणा विष्णुना तथा॥ ८४.३५ ॥

मध्ये भवेन संयुक्तं लिङ्गमूर्ति द्विजोत्तमाः॥
हंसेन च वराहेण कृत्वा ताम्रादिभिः शुभाम्॥ ८४.३६ ॥

प्रतिष्ठाप्य यथान्यायं ब्राह्मणान् भोजयेत्ततः॥
शिवाय शिवमासाद्य शिवस्थाने यथाविधि॥ ८४.३७ ॥

ब्राह्मणैः सहितां स्थाप्य देव्याः सायुज्यमाप्नुयात्॥
आषाढे च शुभे मासे गृहं कृत्वा सुशोभनम्॥ ८४.३८ ॥

पक्वेष्टकाभिर्विधिवद्यथाविभवविस्तरम्॥
सर्वबीजरसैश्चापि सम्पूर्णं सर्वशोभनैः॥ ८४.३९ ॥

गृहोपकरणैश्चैव मुसलोलूखलादिभिः॥
दासीदासादिभिश्चैव शयनैरशनादिभिः॥ ८४.४० ॥

सम्पूर्णैश्च गृहं वस्त्रैराच्छाद्य च समन्ततः॥
देवं घृतादिभिः स्नाप्य महादेवमुमापतिम्॥ ८४.४१ ॥

ब्राह्मणानां सहस्रं च भोजयित्वा यथाविधि॥
विद्याविनयसम्पन्नं ब्राह्मणं वेदपारगम्॥ ८४.४२ ॥

प्रथमाश्रमिणं भक्त्या सम्पूज्य च यथाविधि॥
कन्यां सुमध्यमां यावत्कालजीवनसंयुताम्॥ ८४.४३ ॥

क्षेत्रं गोमिथुनं चैव तद्गृहे च निवेदयेत्॥
सायनैर्विविधैर्दिव्यैर्मेरुपर्वतसन्निभैः॥ ८४.४४ ॥

गोलोकं समनुप्राप्य भवान्या सह मोदते॥
भवान्या सदृशीभूत्वा सर्वकल्पेषु साव्यया॥ ८४.४५ ॥

भवान्याश्चैव सायुज्यं लभते नात्र संशयः॥
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम्॥ ८४.४६ ॥

निवेदयीत शर्वाय श्रावणे तिलपर्वतम्॥
वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत्॥ ८४.४७ ॥

ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत्॥
कृत्वा भाद्रपदे मासि शोभनं शालिपर्वतम्॥ ८४.४८ ॥

वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत्॥
ब्राह्मणान् भोजयित्वा च दापयेच्च यथाविधि॥ ८४.४९

सा च सूर्यांशुसङ्काशा भवान्या सह मोदते॥
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम्॥ ८४.५० ॥

सुवर्णवस्त्रसंयुक्तं दत्त्वा सम्पूज्य शङ्करम्॥
ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत्॥ ८४.५१ ॥

सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः॥
सर्वधातुसमायुक्तं सर्वरत्नोपशोभितम्॥ ८४.५२ ॥

श्रृङ्गैश्चतुर्भिः संयुक्तं वितानच्छत्रशोभितम्॥
गन्धमाल्यैस्तथा धूपैश्चित्रैश्चापि सुशोभितम्॥ ८४.५३ ॥

विचित्रैर्नृत्यगेयैश्च शङ्खवीणादिभिस्तथा॥
ब्रह्मघोषैर्महापुण्यं मङ्गलैश्च विशेषतः॥ ८४.५४ ॥

महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्जवलम्॥
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम्॥ ८४.५५ ॥

तस्य मूर्ध्नि शिवं कुर्यान्मध्यतो धातुनैव तु॥
दक्षिणे च यथान्यायं ब्रह्माणं च चतुर्मुखम्॥ ८४.५६ ॥

उत्तरे देवदेवेशं नारायणमनामयम्॥
इन्द्रादिलोकपालांश्च कृत्वा भक्त्या यथाविधि॥ ८४.५७ ॥

प्रतिष्ठाप्य ततः स्नाप्य समभ्यर्च्य महेश्वरम्॥
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम्॥ ८४.५८ ॥

वामे पाशं भवान्याश्च कमलं हेमभूषितम्॥
विष्णोश्च शङ्खं चक्रं च गदामब्जं प्रयत्नतः॥ ८४.५९ ॥

ब्रह्मणश्चाक्षसूत्रं च कमण्डलुमनुत्तमम्॥
इन्द्रस्य वज्रमग्नेश्चशक्त्याख्यं परमायुधम्॥ ८४.६० ॥

यमस्य दण्डं निर्ऋतेः खड्गं निशिचरस्य तु॥
वरुणस्य महापाशं नागाख्यं रुद्रमद्भुतम्॥ ८४.६१ ॥

वायोर्यष्टिं कुबेरस्य गदां लोकप्रपूजिताम्॥
टङ्कं चेशानदेवस्य निवेद्यैवं क्रमेण च॥ ८४.६२ ॥

शिवस्य महतीं पूजां कृत्वा चरुसमन्विताम्॥
पूजयेत्सर्वदेवांश्च यथाविभवविस्तरम्॥ ८४.६३ ॥

ब्राह्मणान्भोजयित्वा च पूजां कृत्वा प्रयत्नतः॥
महामेरुव्रतं कृत्वा महादेवाय दापयेत्॥ ८४.६४ ॥

महामेरुमनुप्राप्य महा देव्या प्रमोदते॥
चिरं सायुच्यमाप्नोति महादेव्या न संशयः॥ ८४.६५ ॥

कार्तिक्यामपि या नारी कृत्वा देवीमुमां शुभाम्॥
सर्वाभरण सम्पूर्णां सर्वलक्षणलक्षिताम्॥ ८४.६६ ॥

हेमताम्रादिभिश्चैव प्रतिष्ठाप्य विधानतः॥
देवं च कृत्वा देवेशं सर्वलक्षणसंयुतम्॥ ८४.६७ ॥

तयोरग्रेहुताशं च स्रुवहस्तं पितामहम्॥
नारायणं च दातारं सर्वाभरणभूषितम्॥ ८४.६८ ॥

लोकपालैस्तथा सिद्धैः संवृतं स्थाप्य यत्नतः॥
रुद्रालये व्रतं तस्मै दापयेद्भक्तिपूर्वकम्॥ ८४.६९ ॥

सा भवान्यास्तनुं गत्वा भवेन सह मोदते॥
एकभक्तव्रतं पुण्यं प्रतिमासमनुक्रमात्॥ ८४.७० ॥

मार्गशीर्षकमासादिकार्तिकान्तं प्रवर्तितम्॥
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः॥ ८४.७१ ॥

नरः कृत्वा व्रतं चैव शिवसायुज्यमाप्नुयात्॥
नारी देव्या न सन्देहः शिवेन परिभाषितम्॥ ८४.७२ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे उमामहेश्वरव्रतं नाम चतुरशीतितमोध्यायः॥ ८४ ॥