०८३

ऋषय ऊचुः॥
व्यपोहनस्तवं पुण्यं श्रुतमस्माभिरादरात्॥
प्रसङ्गाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः॥ ८३.१ ॥

सूत उवाच॥
व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः॥
नन्दिना कथितानीह ब्रह्मपुत्राय धीमते॥ ८३.२ ॥

तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम्॥
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि॥ ८३.३ ॥

वर्षमेकं तु भुञ्जानो नक्तं यः पूजयेच्छिवम्॥
सर्वयज्ञफलं प्राप्य स याति परमां गतिम्॥ ८३.४ ॥

पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः॥
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते॥ ८३.५ ॥

द्वयोर्मासस्य पञ्चम्योर्द्वयोः प्रतिपदोर्नरः॥
क्षीरधाराव्रतं कुर्यात्सोश्वमेधफलं लभेत्॥ ८३.६ ॥

कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी॥
भुञ्जन्भोगानवाप्नोति ब्रह्मलोकं च गच्छति॥ ८३.७ ॥

योब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु॥
ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः॥ ८३.८ ॥

संवत्सरान्ते विप्रेन्द्रान् भोजयेद्विधिपूर्वकम्॥
स याति शाङ्करं लोकं नात्र कार्या विचारणा॥ ८३.९ ॥

उपवासात् परं भैक्ष्यं भैक्ष्यात्परमयाचितम्॥
आयाचितात्परं नक्तं तस्मान्नक्तेन वर्तयेत्॥ ८३.१० ॥

देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा॥
अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः॥ ८३.११ ॥

सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम्॥
हविष्यभोजनं स्नान्न सत्यमाहारलाघवम्॥ ८३.१२ ॥

अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत्॥
प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम्॥ ८३.१३ ॥

धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये॥
पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम्॥ ८३.१४ ॥

सत्यवादी जितक्रोधः शालिगोधूमगोरसैः॥
पक्षयोरष्टमीं यत्नादुपवासेन वर्तयेत्॥ ८३.१५ ॥

भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः॥
स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम्॥ ८३.१६ ॥

यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः॥
भीजयेद्ब्राह्मणाञ्शिष्टाञ्जपेच्छान्तिं विशेषतः॥ ८३.१७ ॥

तथा गोमिथुनं चैव कपिलं विनिवेदयेत्॥
भवाय देवदेवाय शिवाय परमेष्ठिने॥ ८३.१८ ॥

स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम्॥
भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते॥ ८३.१९ ॥

माघमासे तु सम्पूज्य यः कुर्यान्नक्तभोजनम्॥
कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः॥ ८३.२० ॥

सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः॥
रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम्॥ ८३.२१ ॥

कृष्णं गोमिथुनं दद्यात्पूजयेच्चैव शङ्करम्॥
भोजयेद्ब्राह्मणांश्चैव यथाविभवविस्तरम्॥ ८३.२२ ॥

याम्यमासाद्य वै लोकं यमेन सह मोदते॥
फाल्गुने चैव सम्प्राप्ते कुर्याद्वै नक्तभोजनम्॥ ८३.२३ ॥

श्यामाकान्नघृतक्षीरैर्जितक्रोधो जितेन्द्रियः॥
चतुर्दश्यामथाष्टम्यामुपवासं च कारयेत्॥ ८३.२४ ॥

पौर्णमास्यां महादेवं स्नाप्य सम्पूज्य शङ्करम्॥
दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये॥ ८३.२५ ॥

ब्राह्मणान् भोजयित्वा तु प्रार्थयेत्परमेश्वरम्॥
स याति चन्द्रेसायुज्यं नात्र कार्या विचारणा॥ ८३.२६ ॥

चैत्रेपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम्॥
शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम्॥ ८३.२७ ॥

गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत्॥
पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम्॥ ८३.२८ ॥

ब्राह्मणान् भोजयेच्चैव निर्ऋतेः स्थानमाप्नुयात्॥
वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम्॥ ८३.२९ ॥

पौर्णमास्यां भवं स्नाप्यं पञ्चगव्यघृतादिभिः॥
श्वेतं गोमिथुनं दत्त्वा सोश्वमेधफलं लभेत्॥ ८३.३० ॥

ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम्॥
सम्पूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम्॥ ८३.३१ ॥

रक्तशाल्यन्नमध्वा च अद्भिः पूतं घृतादिभिः॥
वीरासनी निशार्धं च गवां शुश्रूषणे रतः॥ ८३.३२ ॥

पौर्णमास्यां तु सम्पूज्य देवदेवमुमापतिम्॥
स्नाप्य शक्त्या यथान्यायं चरुं दद्याच्च शूलिने॥ ८३.३३ ॥

ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम्॥
धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते॥ ८३.३४ ॥

आषाढे मासि चाप्येवं नक्तभोजनतत्परः॥
भूरिखण्डाज्यसम्मिश्रं सक्तुभिश्चैव गोरसम्॥ ८३.३५ ॥

पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि॥
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान्॥ ८३.३६ ॥

दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात्॥
श्रावणेच द्विजा मासे कृत्वा वै नक्तभोजनम्॥ ८३.३७ ॥

क्षीरषष्टिकभक्तेन सम्पूज्य वृषभध्वजम्॥
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि॥ ८३.३८ ॥

ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान्॥
श्वेताग्रपादं पौड्रं च दद्याद्गोमिथुनं पुनः॥ ८३.३९ ॥

स याति वायुसायुज्यं वायुवत्सर्वगो भवेत्॥
प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम्॥ ८३.४० ॥

हुतशेषं च विप्रेन्द्रान्वृक्षमूलाश्रितो दिवा॥
पौर्णमास्यां तु देवेशं स्नाप्य सम्पूज्य शङ्करम्॥ ८३.४१ ॥

नीलस्कन्धं वृषं गां च दत्त्वा भक्त्या यथाविधि॥
ब्राह्मणान् भोजयित्वा च वेदवेदाङ्गपारगान्॥ ८३.४२ ॥

यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः॥
ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम्॥ ८३.४३ ॥

सघृतं शङ्करं पूज्य पौर्णमास्यां च पूर्ववत्॥
ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन्॥ ८३.४४ ॥

वृषभं नीलवर्णाभमुरोदेशसमुन्नतम्॥
गां च दत्वा यथान्यायमैशानं लोकमाप्नुयात्॥ ८३.४५ ॥

कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम्॥
क्षीरोदनेन साज्येन सम्पूज्य च भवं प्रभुम्॥ ८३.४६ ॥

पौर्णमास्यां च विधिवत्स्नाप्य दत्त्वा चरुं पुनः॥
ब्राह्मणान्भोजयित्वा च यथाविभवविस्तरम्॥ ८३.४७ ॥

दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद्द्विजाः॥
सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा॥ ८३.४८ ॥

मार्गशीर्षे च मासेपि कृत्वैवं नक्तभोजनम्॥
यवान्नेन यथान्यायमाज्यक्षीरादिभिः समम्॥ ८३.४९ ॥

पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शम्भवे॥
ब्राह्मणान् भोजयित्त्वा च दरिद्रान्वेदपारगान्॥ ८३.५० ॥

दत्त्वा गोमिथुनं चैव पाण्डुरं विधिपूर्वकम्॥
सोमलोकमनुप्राप्य सोमेन सह मोदते॥ ८३.५१ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया॥
त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम्॥ ८३.५२ ॥

पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च ॥
इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम्॥ ८३.५३ ॥

कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः॥
स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात्॥ ८३.५४ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवव्रतकथनं नाम त्र्यशीतितमोऽध्यायः॥ ८३ ॥