०८२

सूत उवाच॥
व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम्॥
नन्दिनश्च मुखाच्छ्रुत्वा कुमारेण महात्मना॥ ८२.१ ॥

व्यासाय कथितं तस्माद्बहुमानेन वै मया॥
नमः शिवाय शुद्धाय निर्मलाय यशस्विने॥ ८२.२ ॥

दुष्टान्तकाय सर्वाय भवाय परमात्मने॥
पञ्चवक्त्रो दशभुजो ह्यक्षपञ्चदशैर्युतः॥ ८२.३ ॥

शुद्धस्फटिकसङ्काशः सर्वाभरणभूषितः॥
सर्वज्ञ सर्वगः शान्तः सर्वोपरि सुसंस्थितः॥ ८२.४ ॥

पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु॥
ईशानः पुरुषश्चैव अघोरः सद्य एव च॥ ८२.५ ॥

वामदेवश्च भगवान्पापमाशु व्यपोहतु॥
अनन्तः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः॥ ८२.६ ॥

शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु॥
सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः॥ ८२.७ ॥

शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु॥
शिवोत्तमो महापूज्यः शिवध्यानपरायणः॥ ८२.८ ॥

सर्वगः सर्वदः शान्तः स मे पापं व्यपोहतु॥
एकाश्रो भगवानीशः शिवार्चनपरायणः॥ ८२.९ ॥

शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु॥
त्रिमूर्तिर्भगवानीशः शिवभक्तिप्रबोधकः॥ ८२.१० ॥

शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु॥
श्रीकण्ठः श्रीपतिः श्रीमाञ्शिवध्यानरतः सदा॥ ८२.११ ॥

शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु॥
शिखण्डी भगवाञ्शान्तः शवभस्मानुलेपनः॥८२.१२॥

त्रैलोक्यनमिता देवी सोल्काकारा पुरातन।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु॥८२.१३॥

दाक्षायणी महादेवी भौरी हैमवती शुभा॥
एकपर्णाग्रजा सौम्या तथा वै चैकपाटला॥ ८२.१४ ॥

अपर्णावरदा देवी वरदानैकतत्परा॥
उमा सुरहरा साक्षात्कौशिकी वा कपर्दिनी॥ ८२.१५ ॥

खट्वाङ्गधारिणी दिव्या कराग्रतरुपल्लवा॥
नैगमेयादिभिर्दिव्यैश्चतुर्भिः पुत्रकैर्वृता॥ ८२.१६ ॥

मेनाया नन्दिनी देवी वारिजा वारिजेक्षणा॥
अम्बाया वीतशोकस्य नन्दिनश्च महात्मनः॥ ८२.१७ ॥

शुभावत्याः सखी शान्ता पञ्चचूडा वरप्रदा॥
सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया॥ ८२.१८ ॥

त्रयोविंशतिभिस्तत्त्वैर्महदाद्यौर्विजृम्भिता॥
लक्ष्म्यादिशक्तिभिर्नित्यं नमिता नन्दनन्दिनी॥ ८२.१९ ॥

मनोन्मनी महादेवी मायावी मण्डनप्रिया॥
मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम्॥ ८२.२० ॥

क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता॥
एकानेकस्थिता लोके इन्दीवरनिभेक्षणा॥ ८२.२१ ॥

भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता॥
गणेँद्राम्भोजगर्भैन्द्रयमवित्तेशपूर्वकैः॥ ८२.२२ ॥

संस्तुता जननी तेषां सर्वोपद्रवनाशिनी॥
भक्तानामार्तिहा भव्या भवभावविनाशनी॥ ८२.२३ ॥

भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः॥
सा मे साक्षान्महादेवी पापमाशु व्यपोहतु॥ ८२.२४ ॥

चण्डः सर्वगणेशानो मुखाच्छम्भोर्विनिर्गतः॥
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु॥ ८२.२५ ॥

शालङ्कायनपुत्रस्तु हलमार्गोत्थितः प्रभुः॥
जामाता मरुतां देवः सर्वभूतमहेश्वरः॥ ८२.२६ ॥

सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः॥
सनारायणकैर्देवैः सेन्द्रचन्द्रदिवाकरैः॥ ८२.२७ ॥

सिद्धैश्च यक्षगन्धर्वैर्भूतैर्भूतविधायकैः॥
उरगैर्ऋषिभिश्चैव ब्रह्मणा च महात्मना॥ ८२.२८ ॥

स्तुतस्त्रैलोक्यनाथस्तु मुनिरन्तः पुरं स्थितः॥
सर्वदा पूजितः सर्वैर्नन्दी पापं व्यपोहतु॥ ८२.२९ ॥

महाकायो महा तेजा महादेव इवापरः॥
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु॥ ८२.३० ॥

मेरुमन्दारकैलासतटकूटप्रभेदनः॥
ऐरावतादिभिर्दिव्यैर्दिग्गजैश्च सुपूजितः॥ ८२.३१ ॥

सप्तपातालपादश्च सप्तद्वीपोरुजङ्घकः॥
सप्तार्णवाङ्कुशश्चैव सर्वतीर्थोदरः शिवः॥ ८२.३२ ॥

आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः॥
हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः॥ ८२.३३ ॥

ब्रह्माद्याधोरणैर्दिव्यैर्योगपाशसमन्वितैः॥
बद्धो हृत्पुण्डरीकाख्येस्तम्भे वृत्तिं निरुध्य च॥ ८२.३४ ॥

नागेन्द्रवक्त्रो यः साक्षाद्गणकोटिशतैर्वृतः॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु॥ ८२.३५ ॥

भृङ्गीशः पिङ्गलाक्षोसौ भसिताशस्तु देहयुक्॥
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु॥ ८२.३६ ॥

चतुर्भिस्तनुभिर्नित्यं सर्वासुरनिबर्हणः॥
स्कन्दः शक्तिधरः शान्तः सेनानीः शिखिवाहनः॥ ८२.३७ ॥

देवसेनापतिः श्रीमान्स मे पापं व्यपोहतु॥
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्तथा॥ ८२.३८ ॥

उग्रो भीमो महादेवः शिवार्चनरतः सदा॥
एताः पापं व्यपोहन्तु मूर्तयः परमेष्ठिनः॥ ८२.३९ ॥

महादेवः शिवो रुद्रः शङ्करो नीललोहितः॥
ईशानो विजयो भीमो देवदेवो भवोद्भवः॥ ८२.४० ॥

कपालीशश्च विज्ञेयो रुद्रा रुद्रांशसम्भवाः॥
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम॥ ८२.४१ ॥

विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः॥
लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः॥ ८२.४२ ॥

आदित्यश्च तथा सूर्यश्चांशुमांश्च दिवाकरः॥
एते वै द्वादशादित्या व्यपोहन्तु मलं मम॥ ८२.४३ ॥

गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा॥
चन्द्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः॥ ८२.४४ ॥

पापं व्यपोहन्तु मम भयं निर्नाशयन्तु मे॥
वासवः पावकश्चैव यमो निर्ऋतिरेव च॥ ८२.४५ ॥

वरुणो वायुसोमौ च ईशानो भगवान् हरिः॥
पितामहश्च भगवान् शिवध्यानपरायणः॥ ८२.४६ ॥

एते पापं व्यपोहन्तु मनसा कर्मणा कृतम्॥
नभस्वान्स्पर्शनो वायुरनिलो मारुतस्तथा॥ ८२.४७ ॥

प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः॥
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम॥ ८२.४८ ॥

खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः॥
सुषेणः शाश्वतः पृष्टः सुपुष्टश्चमहाबलः॥ ८२.४९ ॥

एते वै चारणाः शम्भोः पूजयन्तीव भाविताः॥
व्यपोहन्तु मलं सर्वं पापं चैव मया कृतम्॥ ८२.५० ॥

मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धपूजितः॥
सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः॥ ८२.५१ ॥

व्यपोहन्तु मलं सर्वे सिद्धाः शिवपदार्चकाः॥
यक्षो यक्षेश धनदो जृम्भको मणिभद्रकः॥ ८२.५२ ॥

पूर्णभद्रेश्वरो माली शितिकुण्डलिरेव च॥
नरेन्द्रश्चैव यक्षेशा व्यपोहन्तु मलं मम॥ ८२.५३ ॥

अनन्तः कुलिकश्चैव वासुकिस्तक्षकस्तथा।
कर्कोटको महापद्मः शङ्खपालो महाबलः॥ ८२.५४ ॥

शिवप्रणामसम्पन्नाः शिवदेहप्रभूषणाः॥
मम पापं व्यपोहन्तु विषं स्थावरजङ्गमम्॥ ८२.५५ ॥

वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः॥
अतिशयः स प्रयोगी गीतज्ञश्चैव किन्नराः॥ ८२.५६ ॥

शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम॥
विद्याधरश्च विबुधो विद्याराशिर्विदां वरः॥ ८२.५७ ॥

विबुद्धो विबुधः श्रीमान्कृतज्ञश्च महायशाः॥
एते विद्याधराः सर्वे शिवध्यानपरायणाः॥ ८२.५८ ॥

व्यपोहन्तु मलं घोरं महादेवप्रसादतः॥
वामदेवी महाजम्भः कालनेमिर्महाबलः॥ ८२.५९ ॥

सुग्रीवो मर्दकश्चैव पिङ्गलो देवमर्दनः॥
प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ॥ ८२.६० ॥

जम्भः कुम्भश्च मायवी कार्तवीर्यः कृतञ्जयः॥
एतेऽसुरा महात्मानो महादेवपरायणाः॥ ८२.६१ ॥

व्यपोहन्तु भयं घोरमासुरं भावमेव च॥
गरुत्मान् खगतिश्चैव पक्षिराट् नागमर्दनः॥ ८२.६२ ॥

नागशत्रुर्हिरण्याङ्गो वैनतेयः प्रभञ्जनः॥
नागाशीर्विषनाशश्च विष्णुवाहन एव च॥ ८२.६३ ॥

एते हिरण्यवर्णाभा गरुडा विष्णुवाहनाः॥
नानाभरणसम्पन्ना व्यपोहन्तु मलं मम॥ ८२.६४ ॥

अगस्त्यश्च वसिष्ठश्च अङ्गिराभृगुरेव च॥
काश्यपो नारदश्चैव दधीचश्च्यवनस्तथा॥ ८२.६५ ॥

उपमन्युस्तथान्ये च ऋषयः शिवभाविताः॥
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम॥ ८२.६६ ॥

पितरः पितामहाश्चैव तथैव च प्रपितामहाः॥
अग्निष्वात्ता बर्हिषदस्तथा मातामहादयः॥ ८२.६७ ॥

व्यपोहन्तु भयं पापं शिवध्यानपरायणाः॥
लक्ष्मीश्च धरणी चैव गायत्री च सरस्वती॥ ८२.६८ ॥

दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः॥
देवानां मातरश्चैव गणानां मातरस्तथा॥ ८२.६९ ॥

भूतानां मातरः सर्वा यत्र या गणमातरः॥
प्रसादाद्देवदेवस्य व्यपोहन्तु मलं मम॥ ८२.७० ॥

उर्वशी मेनका चैव रम्भा रतितिलोत्तमाः॥
सुमुखी दुर्मुखी चैव कामुखी कामवर्धनी॥ ८२.७१ ॥

तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस्तथा॥
शिवाय ताण्डवं नित्यं कुर्वन्त्योतीव भाविताः॥ ८२.७२ ॥

देव्यः शिवार्चनरता व्यपोहन्तु मलं मम॥
अर्कः सोमोङ्गारकश्च बुधश्चैव बृहस्पतिः॥ ८२.७३ ॥

शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च॥
व्यपोहन्तु भयं घोरं ग्रहपीडां शिवार्चकाः॥ ८२.७४ ॥

मेषो वृषोथ मिथुनस्तथा कर्कटकः शुभः॥
सिंहश्च कन्या विपुला तुला वै वृश्चिकस्तथा॥ ८२.७५ ॥

धनुश्च मकरश्चैव कुम्भो मीनस्तथैव च॥
राशयो द्वादश ह्येते शिवपूजापरायणाः॥ ८२.७६ ॥

व्यपोहन्तु भयं पापं प्रसादात्परमेष्ठिनः॥
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा॥ ८२.७७ ॥

श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः॥
मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा॥ ८२.७८ ॥

हस्तश्चित्रा तथा स्वाती विशाखा चानुराधिका॥
ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च॥ ८२.७९ ॥

उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका॥
शतभिषक्पूर्वभद्रा च तथा प्रोष्ठपदा तथा॥ ८२.८० ॥

पौष्णं च देव्यः सततं व्यपोहन्तु मलं मम॥
ज्वरः कुम्भोदरश्चैव शङ्कुकर्णो महाबलः॥ ८२.८१ ॥

महाकर्णः प्रभातश्च महाभूतप्रमर्दनः॥
श्येनजिच्छिवदूतश्च प्रमथाः प्रीतिवर्धनाः॥ ८२.८२ ॥

कोटिकोटिशतैश्चैव भूतानां मातरः सदा॥
व्यपोहन्तु भयं पापं महादेवप्रसादतः॥ ८२.८३ ॥

शिवध्यानैकसम्पन्नो हिमराडम्बुसन्निभः॥
कुन्देन्दुसदृशाकारः कुम्भकुन्देन्दुभूषणः॥ ८२.८४ ॥

वडवानलशत्रुर्यो वडवामुखभेदनः॥
चतुष्पादसमायुक्तः क्षीरोद इव पाण्डुरः॥ ८२.८५ ॥

रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः॥
वृषेन्द्रो विश्वधृग्देवो विश्वस्य जगतः पिता॥ ८२.८६ ॥

वृतो नन्दादिभिर्नित्यं मातृभिर्मखमर्दनः॥
शिवार्चनरतो नित्यं स मे पापं व्यपोहतु॥ ८२.८७ ॥

गङ्गा माता जगन्माता रुद्रलोके व्यवस्थिता॥
शिवभक्ता तु या नन्दा सा मे पापं व्यपोहतु॥ ८२.८८ ॥

भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता ॥
माता गवां महाभागा सा मे पापं व्यपोहतु॥ ८२.८९ ॥

सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी॥
रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु॥ ८२.९० ॥

सुशीला शीलसम्पन्ना श्रीप्रदा शिवभाविता॥
शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु॥ ८२.९१ ॥

वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिन्तकः॥
समस्तगुणसम्पन्नः सर्वदेवेश्वरात्मजः॥ ८२.९२ ॥

ज्येष्ठः सर्वेश्वरः सौम्यो महा विष्णुतनुः स्वयम्॥
आर्यः सेनापतिः साक्षाद्गहनो मखमर्दनः॥ ८२.९३ ॥

ऐरावतगजारूढः कृष्णकुञ्चितमूर्धजः॥
कृष्णाङ्गो रक्तनयनः शशिपन्नगभूषणः॥ ८२.९४ ॥

भूतैः प्रेतैः पिशाचैश्च कूष्माण्डैश्च समावृतः॥
शिवार्चनरतः साक्षात्स मे पापं व्यपोहतु॥ ८२.९५ ॥

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा॥
वाराही चैव माहेन्द्री चामुण्डाग्नेयिका तथा॥ ८२.९६ ॥

एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः॥
योगिनीभीर्महापापं व्यपोहन्तु समाहिताः॥ ८२.९७ ॥

वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः॥
रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः॥ ८२.९८ ॥

सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम्॥
त्रेताग्निनयनो देवस्त्रैलोक्याभयदः प्रभुः॥ ८२.९९ ॥

मातॄणां रक्षको नित्यं महावृषभवाहनः॥
त्रैलोक्यनमितः श्रीमान्शिवपादार्चने रतः॥ ८२.१०० ॥

यज्ञस्य च शिरश्छेत्ता पूष्णो दन्तविनाशनः॥
वह्नेर्हस्तहरः साक्षाद्भगनेत्रनिपातनः॥ ८२.१०१ ॥

पादाङ्गुष्ठेन सोमाङ्गपेषकः प्रभुसञ्ज्ञकः॥
उपेन्द्रेन्द्रयमादीनां देवानामङ्गरक्षकः॥ ८२.१०२ ॥

सरस्वत्य महादेव्या नासिकोष्ठावकर्तनः॥
गणेश्वरोयः सेनानीः स मे पापं व्यपोहतु॥ ८२.१०३ ॥

ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता॥
महालक्ष्मीर्जगन्माता सा मे पापं व्यपोहतु॥ ८२.१०४ ॥

महामोहा महाभागा महाभूतगणैर्वृता॥
शिवार्चनरता नित्यं सा मे पापं व्यपोहतु॥ ८२.१०५ ॥

लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता॥
सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु॥ ८२.१०६ ॥

सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया॥
विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता॥ ८२.१०७ ॥

त्रिनेत्र वरदा देवी महिषासुरमर्दिनी॥
शिवार्चनरता दुर्गा सा मे पापं व्यवोहतु॥ ८२.१०८ ॥

ब्रह्माण्डधारका रुद्राः सर्वलोकप्रपूजिताः॥
सत्याश्च मानसाः सर्वे व्यपोहन्तु भयं मम॥ ८२.१०९ ॥

भूताः प्रेताः पिशाचाश्च कूष्माण्डगणनायकाः॥
कूष्माण्डकाश्च ते पापं व्यपोहन्तु समाहिताः॥ ८२.११० ॥

अनेन देवं स्तुत्वा तु चान्ते सर्वं समापयेत्॥
प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः॥ ८२.१११ ॥

व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि॥
विधूय सर्वपापानि रुद्रलोकेमहीयते॥ ८२.११२ ॥

कन्यार्थी लभते कन्यां जयकामो जयं लभेत्॥
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान्॥ ८२.११३ ॥

विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात्॥
यान्यान्प्रार्थयते कामान्मानवः श्रवणादिह॥ ८२.११४ ॥

तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत्॥
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते॥ ८२.११५ ॥

तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः॥
नाकाले मरणं तस्य न सर्पैरपि दश्यते॥ ८२.११६ ॥

यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम्॥
दानानां चैव यत्पुण्यं व्रतानां च विशेषतः॥ ८२.११७ ॥

तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः॥
गोघ्नश्चैव कृतघ्नश्च वीरहा ब्रह्महा भवेत्॥ ८२.११८ ॥

शरणागतघाती च मित्रविश्वासघातकः॥
दुष्टः पापसमाचारो मातृहा पितृहा तथा॥ ८२.११९ ॥

व्यपोह्य सर्वपापानि शिवलोके महीयते॥ ८२.१२० ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे व्यपोहनस्तवनिरूपणं नाम द्व्यशीतितमोऽध्यायः॥ ८२ ॥