ऋषय ऊचुः॥
व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम्॥
पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमोध्यायः॥ ८१.१ ॥
वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम्॥
सूत उवाच॥
पुरा सनत्कुमारेण पृष्टः शैलादिरादरात्॥ ८१.२ ॥
नन्दी प्राह वचस्तस्मै प्रवदामि समासतः॥
देवैर्दैत्यैस्तथा सिद्धैर्गन्धर्वैः सिद्धचारणैः॥ ८१.३ ॥
मुनिभिश्च महाभागैरनुष्ठितमनुत्तमम्॥
व्रतं द्वादशलिङ्गाख्यं पशुपाशविमोक्षणम्॥ ८१.४ ॥
भोगदं योगदं चैव कामदं मुक्तिदं शुभम्॥
अवियोगकरं पुण्यं भक्तानां भयनाशनम्॥ ८१.५ ॥
षडङ्गसहितान् वेदान्मथित्वा तेन निर्मितम्॥
सर्वदानोत्तमं पुण्यमश्वमेधायुताधिकम्॥ ८१.६ ॥
सर्वमङ्गलदं पुण्यं सर्वशत्रुविनाशनम्॥
संसारार्णवमग्नानां जन्तूनामपि मोक्षदम्॥ ८१.७ ॥
सर्वव्याधिहरं चैव सर्वज्वरविनाशनम्॥
देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा॥ ८१.८ ॥
कृत्वाऽकनीयसं लिङ्गंस्नाप्य चन्दनवारिणा॥
चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं चरेत्॥ ८१.९ ॥
कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम्॥
नवरत्नैश्च खचितमष्टपत्रं यथाविधि॥ ८१.१० ॥
कर्णिकायां न्यसेल्लिङ्गं स्फाटिकं पीठसंयुतम्॥
तत्र भक्त्या यथान्यायमर्चयेद्बिल्वपत्रकैः॥ ८१.११ ॥
सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि॥
श्वेतार्ककर्णिकारैश्च करवीरैर्बकैरपि॥ ८१.१२ ॥
एतैरन्यैर्यथालाभं गायत्र्या तस्य सुव्रताः॥
सम्पूज्य चैव गन्धाद्यैर्धूपैर्दीपैश्च मङ्गलैः॥ ८१.१३ ॥
नीराजनाद्यैश्चान्यैश्च लिङ्गमूर्ति महेश्वरम्॥
अगरुं दक्षिणे दद्यादघोरेण द्विजोत्तमाः॥ ८१.१४ ॥
पश्चिमे सद्यमन्त्रेण दिव्यां चैव मनःशिलाम्॥
उत्तरे वामदेवेन चन्दनं वापि दापयेत्॥ ८१.१५ ॥
पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः॥
सितागरूद्भवं विप्रास्तथा कृष्णागरूद्भवम्॥ ८१.१६ ॥
तथा गुग्गुलुधूपं च सौगन्धिकमनुत्तमम्॥
सितारं नाम धूपं च दद्यदीशाय भक्तितः॥ ८१.१७ ॥
महाचरुर्निवेद्यः स्यादाढकान्नमथापि वा॥
एतद्वः कथितं पुण्यं शिवलिङ्गमहाव्रतम्॥ ८१.१८ ॥
सर्वमासेषु सामान्यं विशेषोपि च कीर्त्यते॥
वैशाखे वज्रलिङ्गं च ज्येष्ठे मारकतं तथा॥ ८१.१९ ॥
आषाढं मौक्तिकं लिङ्गं श्रावणे नीलनिर्मितम्॥
मासि भाद्रपदे लिङ्गं पद्मरागमयं शुभम्॥ ८१.२० ॥
आश्विने चैव विप्रेन्द्राः गोमेदकमयं शुभम्॥
प्रवलेनैव कार्तिक्यां तथा वै मार्गशीर्षके॥ ८१.२१ ॥
वैडूर्यनिर्मितंलिङ्गं पुष्परागेण पुष्यके॥
माघे च सूर्यकान्तेन फाल्गुने स्फाटिकेन च॥ ८१.२२ ॥
सर्वमासेषु कमलं हैममेकं विधीयते॥
अलाभे राजतं वापि केवलं कमलं तु वा॥ ८१.२३ ॥
रत्नानामप्यलाभे तु हेम्ना वा राजतेन वा॥
रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत्॥ ८१.२४ ॥
शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम्॥
सर्वगन्धमयं वापि क्षाणिकं परिकल्पयेत्॥ ८१.२५ ॥
हैमन्तिके महादेवं श्रीपत्रेणैव पूजयेत्॥
सर्वमासेषु कमलं हैममेकमथापि वा॥ ८१.२६ ॥
राजतं वापि कमलं हैमकर्णिकमुत्तमम्॥
राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत्॥ ८१.२७ ॥
सहस्रकमलालाभेतदर्धेनापि पूजयेत्॥
तदर्धार्धेन वा रुद्रमष्टोत्तरशतेन वा॥ ८१.२८ ॥
बिल्वपत्रे स्थिता लक्ष्मीर्देवी लक्षणसंयुता॥
नीलोत्पलेम्बिका साक्षादुत्पले षण्मुखः स्वयम्॥ ८१.२९ ॥
पद्माश्रिता महादेवः सर्वदेवपतिः शिवः॥
तस्मात्सर्वप्रयत्नेन श्रीपत्रं न त्यजेद्बुधः॥ ८१.३० ॥
नीलोत्पलं चोत्पलं च कमलं च विशेषतः॥
सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा॥ ८१.३१ ॥
कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम्॥
गुग्गुलु प्रभृतीनां च दीपानां च निवेदनम्॥ ८१.३२ ॥
सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम्॥
सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम्॥ ८१.३३ ॥
श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम्॥
सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम्॥ ८१.३४ ॥
श्वेतार्ककुसुमे साक्षाच्चतुर्वक्त्रः प्रजापतिः॥
कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता॥ ८१.३५ ॥
करवीरे गणाध्यक्षो बके नारायणः स्वयम्॥
सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा॥ ८१.३६ ॥
तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः॥
पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः॥ ८१.३७ ॥
निवेदयेत्ततो भक्त्या पायसं च महाचरुम्॥
सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम्॥ ८१.३८ ॥
शुद्धान्नं वापि मुद्गान्नमाढकं चार्धकं तु वा॥
चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत्॥ ८१.३९ ॥
उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि॥
नानाविधानि चार्हाणि प्रोक्षितान्यम्भसा पुनः॥ ८१.४० ॥
निवेदयेच्चरुद्राय भक्तियुक्तेन चेतसा॥
क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम्॥ ८१.४१ ॥
विष्णुना जिष्णुना साक्षादन्ने सर्वं प्रतिष्ठितम्॥
भूतानामन्नदानेन प्रीतिर्भवति शङ्करे॥ ८१.४२ ॥
तस्मात्सम्पूजयेद्देवमन्ने प्राणाः प्रतिष्ठिताः॥
उपहारे तथा तुष्टिर्व्यञ्जने पवनः स्वयम्॥ ८१.४३ ॥
सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः॥
पीठे वै प्रकृतिः साक्षान्महदाद्यैर्व्यवस्थिता॥ ८१.४४ ॥
तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि॥
पौर्णमास्यांव्रतं कार्यं सर्वकामार्थसिद्धये॥ ८१.४५ ॥
सत्यं शौचं दया शान्तिः सन्तोषो दानमेव च॥
पौर्णमास्याममावास्यामुपवासं च कारयेत्॥ ८१.४६ ॥
संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः॥
भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान्॥ ८१.४७ ॥
तल्लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम्॥
स्थापयेद्वा शिवक्षेत्रे दापयेद्ब्राह्मणाय वा॥ ८१.४८ ॥
य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम्॥
कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः॥ ८१.४९ ॥
सूर्यकोटिप्रतीकाशैर्विमानै रत्नभूषितैः॥
गत्वा शिवपुरं दिव्यं नेहायाति कदाचन॥ ८१.५० ॥
अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम्॥
शिवलोकमवाप्नोति नात्र कार्या विचारणा॥ ८१.५१ ॥
अथवा सक्तचित्तश्चेद्यान्यान् सञ्चिन्तयेद्वरान्॥
वर्षमेकं चरेदेवं तांस्तान्प्राप्य शिवंव्रजेत्॥ ८१.५२ ॥
देवत्वं वा पितृत्वं वा देवराजत्वमेव च॥
गाणपत्यपदं वापि सक्तोपि लभते नरः॥ ८१.५३ ॥
विद्यार्थी लभते विद्यां भोगार्थि भोगमाप्नुयात्॥
द्रव्यार्थी च निधिं पश्येदायुःकामश्चिरायुषम्॥ ८१.५४ ॥
यान्यांश्चिन्तयते कामांस्तांस्तान्प्राप्येह मोदते॥
एकमासव्रतादेव सोन्ते रुद्रत्वमाप्नुयात्॥ ८१.५५ ॥
इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम्॥
हिताय देवासुरसिद्धमर्त्यविद्याधराणां परमं शिवेन॥ ८१.५६ ॥
सम्पूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः॥
व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात्॥ ८१.५७ ॥
पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य॥
पितामहेनैव सुरैश्व सार्धं महानुभावेन महार्घ्यमेतत्॥ ८१.५८ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे पशुपाशविमोचनलिङ्गपूजादिकथनं नामैकाशीतितमोध्यायः॥ ८१ ॥