ऋषय ऊचुः॥
कथं पशुपतिं दृष्ट्वा पशुपाशविमोक्षणम्॥
पशुत्वं तत्यजुर्देवास्तन्नो वक्तुमिहार्हसि॥ ८०.१ ॥
सूत उवाच॥
पुरा कैलासशिखरे भोग्याख्ये स्वपुरे स्थितम्॥
समेत्य देवाः सर्वज्ञमाजग्मुस्तत्प्रसादतः॥ ८०.२ ॥
हिताय सर्वदेवानां ब्रह्मणा च जनार्दनः॥
गरुडस्य तथा स्कन्धमारुह्य पुरुषोत्तमः॥ ८०.३ ॥
जगाम देवातभिर्वै देवदेवान्तिकं हरिः॥
सर्वे सम्प्राप्य देवस्य सार्धं गिरिवरं शुभम्॥ ८०.४ ॥
सेन्द्राः ससाध्याः सयमाः प्रणेमुर्गिरमुत्तमम्॥
भगवान्वासुदेवोसौ गरुडाद्गरुडध्वजः॥
अवतीर्य गिरिं मेरुमारुरोह सुरोत्तमैः॥ ८०.५ ॥
सकलदुरितहीनं सर्वदं भोगमुख्यं मुदितकुररवृन्दं नादितं नागवृन्दैः॥
मधुररणितगीतं सानुकूलान्धकारं पदरचितवनान्तं कान्तवातान्ततोयम्॥ ८०.६ ॥
भवनशतसहस्रैर्जुष्टमादित्यकल्पैर्ललितगतिविदग्धैर्हंसवृन्दैश्च भिन्नम्॥
धवखदिरपलाशैश्चन्दनाद्यैश्च वृक्षैर्द्विजवरगणवृन्दैः कोकिलाद्यैर्द्विरेफैः॥ ८०.७ ॥
क्वचिदशेषसुरद्रुमसङ्कुलं कुरबकैः प्रियकैस्तिलकैस्तथा॥
बहुकदम्बतमाललतावृतं गिरिवरं शिखरैर्विविधैस्तथा॥ ८०.८ ॥
गिरेः पृष्ठे परं शार्वं कल्पितं विश्वकर्मणा॥
क्रीडार्थं देवदेवस्य भवस्य परमेष्ठिनः॥ ८०.९ ॥
अपश्यंस्तत्पुरं देवाः सेन्द्रोपेन्द्राः समाहिताः॥
प्रणेमुर्दूरतश्चैव प्रभावादेव शूलिनः॥ ८०.१० ॥
सहस्रसूर्यप्रतिमं महान्तं सहस्रशः सर्वगुणैश्च भिन्नम्॥
जगाम कैलासगिरिं महात्मा मेरुप्रभागे पुरमादिदेवः॥ ८०.११ ॥
ततोथ नारिगजवाजिसङ्कुलं रथैरनैकैरमरारिसूदनः॥
गणैर्गणेशैश्च गिरीन्द्रसन्निभं महापुरद्वारमजो हरिश्च॥ ८०.१२ ॥
अथ जाम्बूनदमयैर्भवनैर्मणिभूषितैः॥
विमानैर्विविधाकारैः प्राकारैश्च समावृतम्॥ ८०.१३ ॥
दृष्ट्वा शम्भोः पुरं बाह्यं देवैः सब्रह्मकैर्हरिः॥
प्रहृष्टवदनो भूत्वा प्रविवेश ततः पुरम्॥ ८०.१४ ॥
हर्म्यप्रासादसम्बाधं महाट्टालसमन्वितम्॥
द्वितीयं देवदेवस्य चतुर्द्वारं सुशोभनम्॥ ८०.१५ ॥
वज्रवैडूर्यमाणिक्यमणिजालैः समावृतम्॥
दोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम्॥ ८०.१६ ॥
मृदङ्गमुरजैर्जुष्टं वीणावेणुनिनादितम्॥
नृत्य——– सङ्घैर्भूतसङ्घैश्च संवृतम्॥
देवेन्द्रभवनाकारैर्भवनैर्दृष्टिमोहनैः॥ ८०.१७ ॥
प्रासादश्रृङ्गेष्वथ पौरनार्यः सहस्रशः पुष्पफलाक्षताद्यैः॥
स्तिताः करैस्तस्य हरेः समन्तात्प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य॥ ८०.१८ ॥
दृष्ट्वा नार्यस्तदा विष्णुं मदाघूर्णितलोचनाः॥ ८०.१९ ॥
विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः॥
काश्चिद्दृष्ट्वा हरिं नार्यः किञ्चित्प्रहसिताननाः॥ ८०.२० ॥
किञ्चिद्विस्रस्तवस्त्राश्च स्रस्तकाञ्चीगुणाजगुः॥
चतुर्थं पञ्चमं चैव षष्ठं च सप्तमं तथा॥ ८०.२१ ॥
अष्टमं नवमं चैव दशमं च पुरोत्तमम्॥
अतीत्यासाद्य देवस्य पुरं शम्भोः सुशोभनम्॥ ८०.२२ ॥
सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे॥
सूर्यमण्डलसङ्काशैर्विमानैश्च विभूषितम्॥ ८०.२३ ॥
स्फाटिकैर्मण्डपैः शुभ्रैर्जाम्बूनदमयैस्तथा॥
नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम्॥ ८०.२४ ॥
गोपुरैर्गोपतेः शम्भोर्नानाभूषणभूषितैः॥
अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस्तथा॥ ८०.२५ ॥
प्राकारैर्विविधाकारैरष्टाविंशतिभिर्वृतम्॥
उपद्वारैर्महाद्वारैर्विदिक्षु विविधैर्दृढैः॥ ८०.२६ ॥
गुह्यालयैर्गुह्यगृहैर्गुहस्य भवनैः शुभैः॥
ग्राम्यैरन्यैरमहाभागा मौक्तिकैर्दृष्टिमोहनैः॥ ८०.२७ ॥
गणेशायतनौर्दिव्यैः पद्मरागमयैस्तथा॥
चन्दनैर्विविधाकारैः पुष्पोद्यानैश्चशौभनैः॥ ८०.२८ ॥
तडागैर्दिर्घिकाभिश्च हेमसोपानपङ्क्तिभिः॥
स्त्रीणाङ्गतिजितैर्हंसैः सेविताभिः समन्ततः॥ ८०.२९ ॥
मयूरैश्चैव कारण्डैः कोकिलैश्चक्रवाककैः॥
शोभिताभिश्च वापीभिर्दिव्यामृतजलैस्तथा॥ ८०.३० ॥
संलापालापकुशलैः सर्वाभरणभूषितैः॥
स्तनबारावनम्रैश्च मदाघूर्णितलोचनैः॥ ८०.३१ ॥
गेयनादरतैर्दिव्यै रुद्रकन्यासहस्रकैः॥
नृत्यद्भिरप्सरः सङ्घैरमरैरपि दुर्लभैः॥ ८०.३२ ॥
प्रफुल्लाम्बुजवृन्दाद्यैस्तथा द्विजवरैरपि॥
रुद्रस्त्रीगमसङ्कीर्णैर्जलक्रीडारतैस्तथा॥ ८०.३३ ॥
रतोत्सवरतैश्चैव ललितैश्च पदेपदे॥
ग्रामरागानुरक्तैश्च पद्मरागसमप्रभैः॥ ८०.३४ ॥
स्त्रीसङ्घैर्दैवदेवस्य भवस्य परमात्मनः॥
दृष्ट्वा विस्मयमापन्नास्तस्थुर्देवाः समन्ततः॥ ८०.३५ ॥
तत्रैव ददृशुर्देवा वृन्दं रुद्रगणस्य च॥
गणेश्वराणां वीराणामपि वृन्दं सहस्रशः॥ ८०.३६ ॥
सुवर्णकृतसोपानान् वज्रवैडूर्य भूषितान्॥
स्फाटिकान् देवदेवस्य ददृशुस्ते विमानकान्॥ ८०.३७ ॥
तेषां श्रृङ्गेषु हृष्टाश्च नार्यः कमललोचनाः॥
विशालजघना यक्षा गन्धर्वाप्सरसस्तथा॥ ८०.३८ ॥
किन्नर्यः किन्नराश्चैव भुजङ्गाः सिद्धकन्यकाः॥
नानावेषधराश्चान्या नानाभूषणभूषिताः॥ ८०.३९ ॥
नानाप्रभाव संयुक्ता नानाभोगरतिप्रियाः॥
नीलोत्पलदलप्रख्याः पद्मपत्रायतेक्षणाः॥ ८०.४० ॥
पद्मकिञ्जल्कसङ्काशैरंशुकैरतिशोभनाः॥
वलयैर्नूपुरैर्हारैश्छत्रैश्चित्रैस्तथांशुकैः॥ ८०.४१ ॥
भूषिता भूषितैश्चान्यैर्माण्डिता मण्डनप्रियाः॥
दृष्ट्वाथ वृन्दं सुरसुन्दरीणां गणेश्वराणां सुरसुन्दरीणाम्॥
जग्मुर्गणेशस्य पुरं सुरेशाः पुरद्विषः शक्रपुरोगमाश्च॥ ८०.४२ ॥
दृष्ट्वा च तस्थुः सुरसिद्धसङ्घाः पुरस्य मध्ये पुरुहूतपूर्वाः॥
भवस्य बालार्कसहस्रवर्णं विमानमाद्यं परमेश्वरस्य॥ ८०.४३ ॥
अथ तस्य विमानस्य द्वारि संस्थं गणेश्वरम्॥
नन्दिनं ददृशुः सर्वे देवाः शक्रपुरोगमाः॥ ८०.४४ ॥
तं दृष्ट्वा नन्दिनं सर्वे प्रणम्याहुर्गणेश्वरम्॥
जयेति देवास्तं दृष्ट्वा सोप्याह च गणेश्वरः॥ ८०.४५ ॥
भो भो देवा महाभागाः सर्वे निर्धूतकल्मषाः॥
सम्प्राप्ताः सर्वलोकेशा वक्तुमर्हथ सुव्रताः॥ ८०.४६ ॥
तमाहुर्वरदं देवं वारणेन्द्रसमप्रभम्॥
पशुपाशविमोक्षार्थं दर्शयास्मान्महेश्वरम्॥ ८०.४७ ॥
पुरा पुरत्रयं दग्धुं पशुत्वं परिभाषितम्॥
शङ्किताश्च वयं तत्र पशुत्वं प्रति सुव्रत॥ ८०.४८ ।
व्रतं पाशुपतं प्रोक्तं भवेन परमेष्ठिना॥
व्रतेनानेन भूतेश पशुत्वं नैव विद्यते॥ ८०.४९ ॥
अथ द्वादशवर्षं वा मासद्वादशकं तु वा॥
दिनद्वादशकं वापि कृत्वा तद्व्रतमुत्तमम्॥ ८०.५० ॥
मुच्यन्ते पशवः सर्वे साम्बं पशुपाशैर्भवस्य तु॥
दर्शयामास तान्देवान्नारायणपुरोगमान्॥ ८०.५१ ॥
नन्दी शिलादतनयः सर्वभूतगणाग्रणीः॥
तं दृष्ट्वा देवमीशानं साम्बं सगणमव्ययम्॥ ८०.५२ ॥
प्रणेमुस्तुष्टुवुश्वैव प्रीतिकण्टकितत्वचः॥
विज्ञाप्य शितिकण्ठाय पशुपाशविमोक्षणम्॥ ८०.५३ ॥
तस्थुस्तदाग्रतः शम्भोः प्रणिपत्य पुनः पुनः॥
ततः सम्प्रेक्ष्य तान् सर्वान्देवदेवो वृषध्वजः॥ ८०.५४ ॥
विशोध्य तेषां देवानां पशुत्वं परमेश्वरः॥
व्रतं पाशुपतं चैव स्वयं देवो महेश्वरः॥ ८०.५५ ॥
उपदिश्य मुनीनां च सहास्ते चाम्बया भवः॥
तदाप्रभृति ते देवाः सर्वे पाशुपताः स्मृताः॥ ८०.५६ ॥
पशूनां च पतिर्यस्मात्तेषां साक्षाद्धि देवताः॥
तस्मात्पाशुपताः प्रोक्तास्तपस्तेपुश्च ते पुनः॥ ८०.५७ ॥
ततो द्वादशवर्षान्ते मुक्त पाशाः सुरोत्तमाः॥
ययुर्यथागतं सर्वे ब्रह्मणा सह विष्णुना॥ ८०.५८ ॥
एतद्वः कथितं सर्वं पितामहमुखाच्छ्रुतम्॥
पुरा सनत्कुमारेण तस्माद्व्यासेन धीमता॥ ८०.५९ ॥
यः श्रावयेच्छ्रुचिर्विप्राञ्छृणुयाद्वा शुचिर्नरः॥
स देहभेदमासाद्य पशुपाशैः प्रमुच्यते॥ ८०.६० ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमोध्यायः॥ ८० ॥