०७८

सूत उवाच॥
वस्त्रपूतेन तोयेन कार्यं चैवोपलेपनम्॥
शिवक्षेत्र मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते॥ ७८.१ ॥

आपः पूता भवन्त्येता वस्त्रपूताः समुद्धृताः॥
अफेना मुनिशार्दूला नादेयाश्च विशेषतः॥ ७८.२ ॥

तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः॥
अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये॥ ७८.३ ॥

जन्तुभिर्मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु॥
यत्पापं सकलं चाद्भिरपूताभिश्चिरं लभेत्॥ ७८.४ ॥

सम्मार्जने तथा नॄणां मार्जने च विशेषतः॥
अग्नौ कण्डनके चैव पेषणे तोयसङ्ग्रहे॥ ७८.५ ॥

हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत्॥
अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः॥ ७८.६ ॥

तस्मात्सर्वप्रयत्नेन वस्त्रपूतं समाचरेत्॥
तद्दानमभयं पुण्यं सर्वादानोत्तमोत्तमम्॥ ७८.७ ॥

तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा॥
मनसा कर्मणा वाचा सर्वदाऽहिंसकं नरम्॥ ७८.८ ॥

रक्षन्ति जन्तवः सर्वे हिंसकं बाधयन्ति च॥
त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे॥ ७८.९ ॥

तत्फलं कोटिगुणितं लभतेऽहिंसको नरः॥
मनसा कर्मणा वाचा सर्वभूतहिते रताः॥ ७८.१० ॥

दयादर्शितपन्थानो रुद्रलोकं व्रजन्ति च॥
स्वामिवत्परिरक्षन्ति बहूनि विविधानि च॥ ७८.११ ॥

ये पुत्रपौत्रवत्स्नेहाद्रुद्रलोकं व्रजन्ति ते॥
तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा॥ ७८.१२ ॥

कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः॥
त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते॥ ७८.१३ ॥

शिवालये निहत्यैकमपि तत्सकलं लभेत्॥
शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः॥ ७८.१४ ॥

यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम्॥
विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम्॥ ७८.१५ ॥

यतस्तस्मान्न हन्तव्या निषिद्धानां निषेवणात्॥
सर्वकर्माणि विन्यस्य सन्न्यस्ता ब्रह्मवादिनः॥ ७८.१६ ॥

न हन्तव्याः सदा पूज्याः पापकर्मरता अपि॥
पवित्रास्तु स्त्रियः सर्वा अत्रेश्च कुलसम्भवाः॥ ७८.१७ ॥

ब्रह्महत्यासमं पापमात्रेयीं विनिहत्य च॥
स्त्रियः सर्वा न हन्तव्याः पापकर्मरता अपि॥ ७८.१८ ॥

न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा॥
सर्ववर्णेषु विप्रेन्द्राः पापकर्मरता अपि॥ ७८.१९ ॥

मलिना रूपवत्यश्च विरूपा मलिनाम्बराः॥
न हन्तव्याः सदा मर्त्यैः शिववच्चङ्कया तथा॥ ७८.२० ॥

वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः॥
पाषण्डिन इति ख्याता न सम्भाष्या द्विजातिभिः॥ ७८.२१ ॥

न स्पृष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते॥
तथापि तेन वध्याश्च नृपैरन्यैश्च जन्तुभिः॥ ७८.२२ ॥

प्रसङ्गाद्वापि यो मर्त्यः सतां सकृदहो द्विजाः॥
रुद्रलोकमवाप्नोति समभ्यर्च्य महेश्वरम्॥ ७८.२३ ॥

भवन्ति दुःखिताः सर्वे निर्दया मुनिसत्तमाः॥
भक्तिहिना नराः सर्वे भवे परमकारणे॥ ७८.२४ ॥

ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः॥
भाग्यवन्तो विमुच्यन्ते भुक्त्वा भोगानिहैव ते॥ ७८.२५ ॥

पुत्रेषु दारेषु गृहेषु नॄणां भक्तं यथा चित्तमथादिदेवे॥
सकृत्प्रसङ्गाद्यतितापसानां तेषां न दूरः परमेशलोकः॥ ७८.२६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे भक्तिमहिमावर्णनं नामाऽष्टसप्ततितमोऽध्यायः॥ ७८ ॥