०७७

ऋषय ऊचुः॥
लिङ्गप्रतिष्ठापुण्यं च लिङ्गस्थापनमेव च॥
लिङ्गानां चैव भेदाश्च श्रुतं तव मुखादिह॥ ७७.१ ॥

मृदादिरत्नपर्यन्तैर्द्रव्यैः कृत्वा शिवालयम्॥
यत्फलं लभते मर्त्यस्तत्फलं वक्तुमर्हसि॥ ७७.२ ॥

सूत उवाच॥
यस्य भक्तोपि लोकेस्मिन्पुत्र दारगृहादिभिः॥
बध्यते ज्ञानयुक्तश्चेन्न च तस्य गृहैस्तु किम्॥ ७७.३ ॥

तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम्॥
प्रयान्ति दिव्यं हि विमानवर्यं सुरेन्द्रपद्मोद्भववन्दितस्य॥ ७७.४ ॥

बाल्यात्तु लोष्टेन शिवं च कृत्वा मृदापि वा पांसुभिरादिदेवम्॥
गृहं च तादृग्विधमस्य शम्भोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति। ७७.५ ॥

तस्मात्सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम्॥
कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये॥ ७७.६ ॥

केसरं नागरं वापि द्राविडं वा तथापरम्॥
कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते॥ ७७.७ ॥

कैलासाख्यं च यः कुर्यात्प्रासादं परमेष्ठिनः॥
कैलासशिखराकारैर्विमानैर्मोदते सुखी॥ ७७.८ ॥

मन्दरं वा प्रकुर्वीत शिवाय विधिपूर्वकम्॥
भक्त्या वित्तानुसारेण उत्तमाधममध्यमम्॥ ७७.९ ॥

मन्दराद्रिप्रतीकाशैर्विमानैर्विश्वतोमुखैः॥
अप्सरोगणसङ्कीर्णैर्देवदानवदुर्लभैः॥ ७७.१० ॥

गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान्॥
ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः॥ ७७.११ ॥

यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः॥
स यत्फलमवाप्नोति न तत्सर्वैर्महामखैः॥ ७७.१२ ॥

सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम्॥
तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम्॥ ७७.१३ ॥

निषधं नाम यः कुर्यात्प्रासादं भक्तितः सुधीः॥
शिवलोकमनुप्राप्य शिववन्मोदते चिरम्॥ ७७.१४ ॥

कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम्॥
हिमशैलोपमैर्यानैर्गत्वा शिवपुरं शुभम्॥ ७७.१५ ॥

ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात्॥
नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम्॥ ७७.१६ ॥

कृत्वा वित्तानुसारेण भक्त्या रुद्राय शम्भवे॥
यत्फलं लभते मर्त्यस्तत्फलं प्रवदाम्यहम्॥ ७७.१७ ॥

हिमशैले कृते भक्त्या यत्फलं प्राक्तवोदितम्॥
तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः॥ ७७.१८ ॥

रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते॥
महेन्द्रशैलनामानं प्रासादं रुद्रसम्मतम्॥ ७७.१९ ॥

कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम्॥
महेन्द्रपर्वताकारैर्विमानैर्वृषसंयुतैः॥ ७७.२० ॥

गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान्यथेप्सितान्॥
ज्ञानं विचारितं रुद्रैः सम्प्राप्य मुनिपुङ्गवाः॥ ७७.२१ ॥

विषयान् विषवत्त्यक्त्वा शिवसायुज्यमाप्नुयात्॥
हेम्ना यस्तु प्रकृर्वीत प्रासादं रत्नशोभितम्॥ ७७.२२ ॥

द्रविडं नागरं वापि केसरं वा विधानतः॥
कूटं वा मण्डपं वापि समं वा दीर्घमेव च॥ ७७.२३ ॥

न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि॥
जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा॥ ७७.२४ ॥

पूर्ववत्कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः॥
प्रसादं मण्डपं वापि प्राकारं गोपुरं तु वा॥ ७७.२५ ॥

कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः॥
वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये॥ ७७.२६ ॥

यः स याति न सन्देहः स्वर्गलोकं सबान्धवः॥
यश्चात्मभोगसिद्ध्यर्थमपि रुद्रालये सकृत्॥ ७७.२७ ॥

कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते॥
तस्मादायतनं भक्त्या यः कुर्यान्मुनिसत्तमाः॥ ७७.२८ ॥

काष्ठेष्टकादिभिर्मर्त्यः शिवलोके महीयते॥
प्रसादार्थ महेशस्य प्रासादे मुनिपुङ्गवाः॥ ७७.२९ ॥

कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये॥
अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम्॥ ७७.३० ॥

सम्मार्जना दिभिर्वापि सर्वान्कामानवाप्नुयात्॥
सम्मार्जनं तु यः कुर्यान्मार्जन्या मृदुसूक्ष्मया॥ ७७.३१ ॥

चान्द्रायणसहस्रस्य फलं मासेन लभ्यते॥
यः कुर्याद्वस्त्रपूतेन गन्धगोमयवारिणा॥ ७७.३२ ॥

आलेपनं यथान्यायं वर्षचान्द्रायणं लभेत्॥
अर्धक्रोशं शिवक्षेत्रं शिवलिङ्गात्समन्ततः॥ ७७.३३ ॥

यस्त्यजेद्दुस्त्यजान्प्राणाञ्शिवसायुज्यमाप्नुयात्॥
स्वायम्भुवस्य मानं हि तथा बाणस्य सुव्रताः॥ ७७.३४ ॥

स्वायम्भुवे तदर्धं स्यात्स्यादार्षे च तदर्धकम्॥
मानुषे च तदर्धं स्यात्क्षेत्रमानं द्विजोत्तमाः॥ ७७.३५ ॥

एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः॥
रुद्रावतारे चाद्यं यच्छिष्ये चैव प्रशिष्यके॥ ७७.३६ ॥

नरावतारे तच्चिष्ये तच्छिष्ये च प्रशिष्यके॥
श्रीपर्वते महापुण्ये तस्य प्रान्ते च वा द्विजाः॥ ७७.३७ ॥

तस्मिन्वा यस्त्यजेत्प्राणाञ्छिवसायुज्यमाप्नुयात्॥
वाराणस्यां तथाप्येवमविमुक्ते विशेषतः॥ ७७.३८ ॥

केदारे च महाक्षेत्रे प्रयागे च विशेषतः॥
कुरुक्षेत्र च यः प्राणान्सन्त्यजेद्याति निर्वृतिम्॥ ७७.३९ ॥

प्रभासे पुष्करेऽवन्त्यां तथा चैवामरेश्वरे॥
वणीशेलाकुले चैव मृतो याति शिवात्मताम्॥ ७७.४० ॥

वाराणस्यां मृतो जन्तुर्न जातु जन्तुतां व्रजेत्॥
त्रिविष्टपे विमुक्ते च केदारे सङ्गमेश्वरे॥ ७७.४१ ॥

शालके वा त्यजेत्प्राणांस्तथा वै जम्बुकेश्वरे॥
शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे॥ ७७.४२ ॥

हिरण्यगर्भे नन्दीशे स याति परमां गतिम् ॥
नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु॥ ७७.४३ ॥

स याति शिवतां योगी मानुषे दैविकेपि वा॥
आर्षे वापि मुनिश्रेष्ठास्तथा स्वायम्भुवेपि वा॥ ७७.४४ ॥

स्वयम्भूते तथा देवे नात्र कार्या विचारणा॥
आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम्॥ ७७.४५ ॥

स्वदेह पिण्डं जुहुयाद्यः स याति परां गतिम्॥
यावत्तावन्निराहारो भूत्वा प्राणान्परित्यजेत्॥ ७७.४६ ॥

शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात्॥
छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः॥ ७७.४७ ॥

स याति शिवतां चैव नात्र कार्या विचारणा॥
क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छ ताधिकः॥ ७७.४८ ॥

तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम्॥
तस्माच्छतगुणं पुण्यं जलस्नानमतः परम्॥ ७७.४९ ॥

क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम्॥
दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम्॥ ७७.५० ॥

घृतस्नानेन चानन्तं शार्करे तच्छताधिकम्॥
शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च॥ ७७.५१ ॥

त्यजेद्देहं विहायान्नं शिवलोके महीयते॥
शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः॥ ७७.५२ ॥

वापीकूपतडागाश्च शिवतीर्था इति स्मृताः॥
स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः॥ ७७.५३ ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः॥
प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः॥ ७७.५४ ॥

अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति॥
मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः॥ ७७.५५ ॥

गङ्गास्नानसमं पुण्यं लभते नात्र संशयः॥
अस्तं गते तथा चार्के स्नात्वा गच्छेच्चिवं पदम्॥ ७७.५६ ॥

पापकञ्चुकमुत्सृज्य शिवतीर्थेषु मानवः॥
द्विजास्त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः॥ ७७.५७ ॥

शिवसायुज्यमाप्नोति नात्र कार्या विचारणा॥
पुराथ सूकरः कश्चित् श्वानं दृष्ट्वा भयात्पथि॥ ७७.५८ ॥

प्रसङ्गाद्वारमेकं तु शिवतीर्थेऽवगाह्य च॥
मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान्॥ ७७.५९ ॥

यः प्रातर्देवदेवेशं शिवं लिङ्गस्वरूपिणम्॥
पश्येत्स याति सर्वस्मादधिकां गतिमेव च॥ ७७.६० ॥

मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत्॥
सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते॥ ७७.६१ ॥

मानसैर्वाचिकैः पापैः कायिकैश्च महत्तरैः॥
तथोपपातकैश्चैव पापैश्चैवानुपातकैः॥ ७७.६२ ॥

सङ्क्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं प्रभुम्॥
मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम्॥ ७७.६३ ॥

अयने चार्धमासेन दक्षिणे चोत्तरायणे॥
विषुवे चैव सम्पूज्य प्रयाति परमां गतिम्॥ ७७.६४ ॥

प्रदक्षिणात्रयं कुर्याद्यः प्रासादं समन्ततः॥
सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः॥ ७७.६५ ॥

पदेपदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात्॥
वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम्॥ ७७.६६ ॥

सोपि याति शिवं स्थानं प्राप्य किं पुनरेव च॥
कृत्वा मण्डलकं क्षेत्रं गन्धगोमयवारिणा॥ ७७.६७ ॥

मुक्ताफलमयैश्चूर्णैरिन्द्रनीलमयैस्तथा॥
पद्मरागमयैश्चैव स्फाटिकैश्च सुशोभनैः॥ ७७.६८ ॥

तथा मारकतैश्चैव सौवर्णै राजतैस्तथा॥
तद्वर्णैर्लौकिकैश्चैव चूर्णैर्वित्तविवर्जितैः॥ ७७.६९ ॥

आलिख्या कमलं भद्रन्दशहस्तप्रमाणतः॥
सकर्णिकं महाभागा महादेवसमीपतः॥ ७७.७० ॥

तत्रावाह्य महादेवं नवशक्तिसमन्वितम्॥
पञ्चभिच्च तथा षड्‌भिरष्टाभिश्चेष्टदं परम्॥ ७७.७१ ॥

पुनरष्टाभिरीशानं दशारे दशभिस्तथा॥
पुनर्बाह्ये च दशभिः सम्पूज्य प्रणिपत्य च॥ ७७.७२ ॥

निवेद्य देवदेवाय क्षितिदानफलं लभेत्॥
शालिपिष्टादिभिर्वापि पद्ममालिख्य निर्धनः॥ ७७.७३ ॥

पूर्वोक्तमखिलं पुण्यं लभते नात्र संशयः॥
द्वादशारं तथालिख्य मण्डलं पदमुत्तमम्॥ ७७.७४ ॥

रत्नचूर्णादिभिश्चूर्णैस्तथा द्वादशमूर्तिभिः॥
मण्डलस्य च मध्ये तु भास्करं स्थाप्य पूजयेत्॥ ७७.७५ ॥

ग्रहैश्च संवृतं वापि सूर्यसायुज्यमुत्तमम्॥
एवं प्राकृतमप्यार्यां षडस्रं परिकल्प्य च॥ ७७.७६ ॥

मध्यदेशे च देवेशीं प्रकृतिं ब्रह्मरूपिणीम्॥
दक्षिणे सत्त्वमूर्तिं च वामतश्च रजोगुणम्॥ ७७.७७ ॥

अग्रतस्तु तमोमूर्तिं मध्ये देवीं तथाम्बिकाम्॥
पञ्चभूतानि तन्मात्रापञ्चकं चैव दक्षिणे॥ ७७.७८ ॥

कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च॥
उत्तरे विधिवत्पूज्य षडस्रे चैव पूजयेत्॥ ७७.७९ ॥

आत्मानं चान्तरात्मानं युगलं बुद्धिमेव च॥
अहङ्कारं च महता सर्वयज्ञफलं लभेत्॥ ७७.८० ॥

एवं वः कथितं सर्वं प्राकृतं मण्डलं परम्॥
अतो वक्ष्यामि विप्रेन्द्राः सर्वकामार्थसाधनम्॥ ७७.८१

गोचर्ममात्रमालिख्य मण्डलं गोमयेन तु॥
चतुरस्रं विधानेन चाद्भिरभ्युक्ष्य मन्त्रवित्॥ ७७.८२ ॥

अलङ्कृत्य वितानाद्यैश्छत्रैर्वापि मनोरमैः॥
बुद्बुदैरर्धचन्द्रैश्च हैमैरश्वत्थपत्रकैः॥ ७७.८३ ॥

सितैर्विकसितैः पद्मै रक्तैर्निलोत्पलैस्तथा॥
मुक्तादामैर्वितानान्ते लम्बितस्तु सितैर्ध्वजैः॥ ७७.८४ ॥

सितमृत्पात्रकैश्चैव सुश्लक्ष्णैः पूर्णकुम्भकैः॥
फलपल्लवमालाभिर्वैजयन्तीभिरंशुकैः॥ ७७.८५ ॥

पञ्चाशद्दीपमालाभिर्धूपैः पञ्चविधैस्तथा॥
पञ्चाशद्दलसंयुक्तमालिखेत्पद्ममुत्तमम्॥ ७७.८६ ॥

तत्तद्वर्णैस्तथा चूर्णैः श्वेतचूर्णैरथापि वा॥
एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः॥ ७७.८७ ॥

कर्णिकायान्न्यसेद्देवं देव्या देवेश्वरं भवम्॥
वर्णानि च न्यसेत्पत्रे रुद्रैः प्रागाद्यनुक्रमात्॥ ७७.८८ ॥

प्रणवादिनमोन्तानि सर्ववर्णानि सुव्रताः॥
सम्पूज्यैवं मुनिश्रेष्ठा गन्धपुष्पादिभिः क्रमात्॥ ७७.८९ ॥

ब्राह्मणान् भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम्॥
अक्षमालोपवीतं च कुण्डलं च कमण्डलुम्॥ ७७.९० ॥

आसनं च तथा दण्डमुष्णीषं वस्त्रमेव च॥
दत्वा तेषां मुनीन्द्राणां देवदेवाय शम्भवे॥ ७७.९१ ॥

महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा॥
अन्ते च देवदेवाय दापयेच्चूर्णमण्डलम्॥ ७७.९२ ॥

यागोपयोगद्रव्याणि शिवाय विनिवेदयेत्॥
ओङ्काराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात्॥ ७७.९२ ॥(७७.९३)

एवमालिख्य यो भक्त्या सर्वमण्डलमुत्तमम्॥
यत्फलं लभते मर्त्यस्तद्वदामि समासतः॥ ७७.९४ ॥

साङ्गान्वेदान्यथान्यायमधीत्य विधिपूर्वकम्॥
इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात्॥ ७७.९५ ॥

ततो विश्वजिदन्तैश्च पुत्रानुत्पाद्य तादृशान्॥
वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च॥ ७७.९६ ॥

चान्द्रायणादिकाः सर्वाः कृत्वा न्यस्य क्रिया द्विजाः॥
ब्रह्मविद्यामधीत्यैव ज्ञानमासाद्य यत्नतः॥ ७७.९७ ॥

ज्ञानेन ज्ञेयमालोक्य योगी यत्काममाप्नुयात्॥
तत्फलं लभते सर्वं वर्णमण्डलदर्शनात्॥ ७७.९८ ॥

येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः॥
उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमा॥ ७७.९९ ॥

चतुष्कोणं तु वा चूर्णैरलङ्कृत्य समन्तत॥
पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते॥ ७७.१०० ॥

यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः॥
चन्दनाद्यैः सकर्पूरैर्गन्धद्रव्यैः समन्ततः॥ ७७.१०१ ॥

विकीर्य गन्धकुसुमैर्धूपैर्धूप्य चतुर्विधैः॥
प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति॥ ७७.१०२ ॥

तत्र भुक्त्वा महाभोगान्कल्पकोटिशतं नरः॥
स्वदेहगन्धकुसुमैः पूरयञ्छिवमन्दिरम्॥ ७७.१०३ ॥

क्रमाद्गान्धर्वमासाद्य गन्धर्वैश्च सुपूजितः॥
क्रमादागत्य लोकेऽस्मिन् राजा भवति वीर्यवान्॥ ७७.१०४ ॥

आदिदेवो महादेवः प्रलयस्थितिकारकः॥
सर्गश्च भुवनाधीशः शर्वव्यापी सदाशिवः॥
शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनमुत्तमम्॥ ७७.१०५ ॥

व्यक्ताव्यक्तं सदा नित्यमचिन्त्यमर्चयेत्प्रभुम्॥ ७७.१०६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे उपलेपनादिकथनं नाम सप्तसप्ततितमोध्यायः॥ ७७ ॥