सूत उवाच॥
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसम्भवम्॥
प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै॥ ७६.१ ॥
स्कन्दोमासहितं देवमासीनं परमासने॥
कृत्वा भक्या प्रतिष्ठाप्य सर्वान्कामानवाप्नुयात्॥ ७६.२ ॥
स्कन्दोमासहितं देवं सम्पूज्य विधिना सकृत्॥
यत्फलं लभते मर्त्यस्तद्वदामि यथाश्रुतम्॥ ७६.३ ॥
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः॥
रुद्रकन्यासमाकीर्णैर्गेयनाट्यसमन्वितैः॥ ७६.४ ॥
शिववत्क्रीडते योगी यावदाभूतसम्प्लवम्॥
तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः॥ ७६.५ ॥
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च॥
प्राजापत्यं महातेजा जनलोकं महस्तथा॥ ७६.६ ॥
ऐन्द्रमासाद्य चैद्रत्वं कृत्वा वर्षायुतं पुनः॥
भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान्॥ ७६.७ ॥
मेरुमासाद्य देवानां भवनेषु प्रमोदते॥
एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम्॥ ७६.८ ॥
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम्॥
अष्टाविंशतिरुद्राणां कोटिः सर्वाङ्गसुप्रभम्॥ ७६.९ ॥
पञ्चविंशतिकं साक्षात्पुरुषं हृदयात्तथा॥
प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः॥ ७६.१० ॥
अहङ्कारमहङ्कारात्तन्मात्राणि तु तत्र वै॥
इन्द्रियाणीन्द्रियादेव लीलया परमेश्वरम्॥ ७६.११ ॥
पृथिवीं पादमूलात्तु गुह्यदेशाज्जकं तथा॥
नाबिदेशात्तथा वह्निं हृदयाद्भास्करं तथा॥ ७६.१२ ॥
कण्ठात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम्॥
सृष्टैवं संस्थितं साक्षाज्जगत्सर्वं चराचरम्॥ ७६.१३ ॥
सर्वज्ञं सर्वगं देवं कृत्वा विद्याविधानतः॥
प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात्॥ ७६.१४ ॥
त्रिपादं सप्तहस्तं च चतुःश्रृङ्गं द्विशीर्षकम्॥
कृत्वा यज्ञेशमीशानं विष्णुलोके महीयते॥ ७६.१५ ॥
तत्र भुक्त्वा महाभोगान्कल्पलक्षं सुखीनरः॥
क्रमादागत्य लोकेऽस्मिन्सर्वयज्ञान्तगो भवेत्॥ ७६.१६ ॥
वृषारूढं तु यः कुर्यात्सोमं सोमार्धभूषणम्॥
हयमेधायुतं कृत्वा यत्पुण्यं तदवाप्य सः॥ ७६.१७ ॥
काञ्चनेन विमानेने किङ्किणीजालमालिना॥
गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते॥ ७६.१८ ॥
नन्दिना सहितं देवं साम्बं सर्वगणैर्वृतम्॥
कृत्वा यत्फलमाप्नोति वक्ष्ये तद्वै यथाश्रुतम्॥ ७६.१९ ॥
सूर्यमण्डलसङ्काशैर्विमानैवृषसंयुतैः॥
अप्सरो गणसङ्कीर्णैर्देवदानवदुर्लभैः॥ ७६.२० ॥
नृत्याद्भिरप्सरः सङ्घैः सर्वतः सर्वशोभितैः॥
गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात्॥ ७६.२१ ॥
नृत्यन्तं देवदेवेशं शैलजासहितं प्रभुम्॥
सहस्रबाहुं सर्वज्ञं चतुर्बाहुमथापि वा॥ ७६.२२ ॥
भृग्वाद्यैर्भूतसङ्घैश्च संवृतं परमेश्वरम्॥
शैलजासहितं साक्षाद्वृषभध्वजमीश्वरम्॥ ७६.२३ ॥
ब्रह्मेन्द्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम्॥
मातभिर्मुनिभिश्चैव संवृतं परमेश्वरम्॥ ७६.२४ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम्॥
सर्वयज्ञतपोदानतीर्थदेवेषु यत् फलम्॥ ७६.२५ ॥
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम्॥
तत्र भुक्त्वा महाभोगान् यावदाभूतसम्प्लवम्॥ ७६.२६ ॥
सृष्ट्यन्तरे पुनः प्राप्ते मानवं पदमाप्नुयात्॥
नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम्॥ ७६.२७ ॥
कपालहस्तं देवेशं कृष्णकुञ्चितमूर्धजम्॥
कृत्वा भक्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात्॥ ७६.२८ ॥
इभेन्द्रदारकं देवं साम्बं सिद्धार्थदं प्रभुम्॥
सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चन्द्रभूषणम्॥ ७६.२९ ॥
काकपक्षधरं मूर्ध्ना नागटङ्कधरं हरम्॥
सिंहाजिनोत्तरीयं च मृगचर्माम्बरं प्रभुम्॥ ७६.३० ॥
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम्॥
हुम्फट्कारे महाशब्दशब्दिताखिलदिङ्मुखम्॥ ७६.३१ ॥
पुण्डरीकाजिनं दोर्भ्यां बिभ्रन्तं कम्बुकं तथा॥
हसन्तं च नदन्तं च पिबन्तं कृष्णसागरम्॥ ७६.३२ ॥
नृत्यन्तं भूतसङ्घैश्च गणसङ्घैस्त्वलङ्कृतम्॥
कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभव विस्तरम्॥ ७६.३३ ॥
सर्वविघ्नातिक्रम्य शिवलोके महीयते॥
तत्र भुक्त्वा महाभोगान् यावदाभूतसम्प्लवम्॥ ७६.३४ ॥
ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते॥
अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम्॥ ७६.३५ ॥
वरदाभयहस्तं च शूलपद्मधरं प्रभुम्॥
स्त्रीपुम्भावेन संस्थानं सर्वाभरणभूषितम्॥ ७६.३६ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते॥
तत्र भुक्त्वा महाभोगानणिमादिगुणैर्युतः॥ ७६.३७ ॥
आचन्द्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते॥
यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम्॥ ७६.३८ ॥
वृतं शिष्यप्रशिष्यैश्च व्याख्यानोद्यतपाणिनम्॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति॥ ७६.३९ ॥
भुक्त्वा तु विपुलांस्तत्र भोगान् युगशतं नरः॥
ज्ञानयोगं समासाद्य तत्रैव च विमुच्यते॥ ७६.४० ॥
पूर्वदेवामराणां च यत्स्थानं सकलेप्सितम्॥
कृतमुद्रस्य देवस्य चिताभस्मानुलेपिनः॥ ७६.४१ ॥
त्रिपुण्ड्रधारिणस्तेषां शिरोमालाधरस्य च॥
ब्रह्मणः केशकेनैकमुपवीतं च बिभ्रतः॥ ७६.४२ ॥
बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम्॥
विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः॥ ७६.४३ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात्॥
ओन्नमो नीलकण्ठाय इति पुण्याक्षराष्टकम्॥ ७६.४४ ॥
मन्त्रमाह सकृद्वा यः पातकैः स विमुच्यते॥
मन्त्रेणानेन गन्धाद्यैर्भक्त्या वित्तानुसारतः॥ ७६.४५ ॥
सम्पूज्य देवदेवेशं शिवलोके महीयते॥
जालन्धरान्तकं देवं सुदर्शनधरं प्रभुम्॥ ७६.४६ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलन्धरम्॥
प्रयाति शिवसायुज्यं नात्र कार्या विचारणा॥ ७६.४७ ॥
सुदर्शनप्रदं देवं साक्षात्पूर्वोक्तलक्षणम्॥
अर्चमानेन देवेन चार्चितं नेत्रपूजया॥ ७६.४८ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते॥
तिष्ठतोथ निकुम्भस्य पृष्ठतश्चरणाम्बुजम्॥ ७६.४९ ॥
वामेतां सुविन्यस्य वामे चालिङ्ग्य चाद्रिजाम्॥
शूलाग्रे कूर्परं स्थाप्य किङ्किणी कृतपन्नगम्॥ ७६.५० ॥
सम्प्रेक्ष्य चान्धकं पार्श्वे कृताञ्जलिपुटं स्थितम्॥
रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात्॥ ७६.५१ ॥
यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम्॥
धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम्॥ ७६.५२ ॥
रथे सुसंस्थितं देवं चतुराननसारथिम्॥
तदाकारतया सोपि गत्वा शिवपुरं सुखी॥ ७६.५३ ॥
क्रीडते नात्र सन्देहो द्वितीय इव शङ्करः॥
तत्र भुक्त्वा महाभोगान्यावदिच्छ द्विजोत्तमाः॥ ७६.५४ ॥
ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते ॥
गङ्गाधरं सुखासीनं चन्द्रशेखरमेव च॥ ७६.५५ ॥
गङ्गया सहितं चैव वामोत्सङ्गेम्बिकान्वितम्॥
विनायकं तथा स्कन्दं ज्येष्ठं दुर्गां सुशोभनाम्॥ ७६.५६ ॥
भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम्॥
कौमारीं वैष्णवीं देवीं वाराहीं वारदां तथा॥ ७६.५७ ॥
इन्द्राणीं चैव चामुण्डां वीरभद्रसमन्विताम्॥
विघ्नेशेन च यो धीमान् शिवसायुज्यमाप्नुयात्॥ ७६.५८ ॥
लिङ्गमूर्तिं महाज्वालमालासंवृतमव्ययम्॥
लिङ्गस्य मध्ये वै कृत्वा चन्द्रशेखरमीश्वरम्॥ ७६.५९ ॥
व्योम्निकुर्यात्तथा लिङ्गं ब्रह्माणं हंसरूपिणम्॥
विष्णुं वराहरूपेण लिङ्गस्याधस्त्वधोमुखम्॥ ७६.६० ॥
ब्रह्माणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम्॥
मध्ये लिङ्गं महाघोरं महाम्भसि च संस्थितम्॥ ७६.६१ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात्॥
क्षेत्रसंरक्षकं देवं तथा पाशुपतं प्रभुम्॥ ७६.६२ ॥
कृत्वा भक्त्या यथान्यायं शिवलोके महीयते॥ ७६.६३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवमूर्तिप्रतिष्ठाफलकथनं नाम षट्सप्ततितमोऽध्यायः॥ ७६ ॥