ऋषय ऊचुः॥
निष्कलो निर्मला नित्यः सकलत्वं कथं गतः॥
वक्तुमर्हसि चास्माकं यथा पूर्वं यथा श्रुतम्॥ ७५.१ ॥
सूत उवाच॥
परमार्थविदः केचिदूचुः प्रणवरूपिणम्॥
विज्ञानमिति विप्रेन्द्राः श्रुत्वा श्रुतिशिरस्यजम्॥ ७५.२ ॥
शब्दादिविषयं ज्ञानं ज्ञानमित्यभिधीयते॥
तज्ज्ञानं भ्रान्तिरहितमित्यन्ये नेति चापरे॥ ७५.३ ॥
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं निराश्रयम्॥
गुरुप्रकाशकं ज्ञानमित्यन्ये मुनयो द्विजाः॥ ७५.४ ॥
ज्ञानेनैव भवेन्मुक्तिः प्रसादो ज्ञानसिद्धये॥
उभाभ्यां मुच्यते योगी तत्रानन्दमयो भवेत्॥ ७५.५ ॥
वदन्ति मुनयः केचित्कर्मणा तस्य सङ्गतिम्॥
कल्पनाकल्पितं रूपं संहृत्य स्वेच्छयैव हि॥ ७५.६ ॥
द्यौर्मूर्धा तु विभोस्तस्य खं नाभिः परमेष्ठिनः॥
सोमसूर्याग्नयो नेत्रे दिशः श्रोत्रं महात्मनः॥ ७५.७ ॥
चरणौ चैव पातालं समुद्रस्तस्य चाम्बरम्॥
देवास्तस्य भुजाः सर्वे नक्षत्राणि च भूषणम्॥ ७५.८ ॥
प्रकृतिस्तस्य पत्नी च पुरुषो लिङ्गमुच्यते॥
वक्त्राद्वै ब्राह्मणाः सर्वे ब्रह्मा च भगवान्प्रभुः॥ ७५.९ ॥
इन्द्रोपेन्द्रौ भुजाभ्यां तु क्षत्रियाश्च महात्मनः॥
वैश्याश्चोरुप्रदेशात्तु शूद्राः पादात्पिनाकिनः॥ ७५.१೦ ॥
पुष्करावर्तकाद्यास्तु केशास्तस्य प्रकीर्तिताः॥
वायवो घ्राणजास्तस्य गतिः श्रौतं स्मृतिस्तथा॥ ७५.११ ॥
अथानेनैव कर्मात्मा प्रकृतेस्तु प्रवर्तकः॥
पुंसां तु पुरुषः श्रीमान् ज्ञानगम्यो न चान्यथा॥ ७५.१२ ॥
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते॥
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते॥ ७५.१३ ॥
जपयज्ञसहस्रेभ्यो ध्यानयज्ञोविशिष्यते॥
ध्यानयज्ञात्परो नास्ति ध्यानं ज्ञानस्य साधनम्॥ ७५.१४ ॥
यदा समरसे निष्ठो योगी ध्यानेन पश्यति॥
ध्यानयज्ञरतस्यास्य तदा सन्निहितः शिवः॥ ७५.१५ ॥
नास्ति विज्ञानिनां शौचं प्रायश्चित्तादि चोदना॥
विशुद्धा विद्यया सर्वे ब्रह्मविद्याविदो जनाः॥ ७५.१६ ॥
नास्ति क्रिया च लोकेषु सुखं दुःखं विचारतः॥
धर्माधर्मौ जपो होमो ध्यानिनां सन्निधिः सदा॥ ७५.१७ ॥
परानन्दात्मकं लिङ्गं विशुद्धं शिवमक्षरम्॥
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम्॥ ७५.१८ ॥
लिङ्गं तु द्विविधं प्राहुर्बाह्यमाभ्यन्तरं द्विजाः॥
बाह्यं स्थूलं मुनिश्रेष्ठाः सूक्ष्ममाभ्यन्तरं द्विजाः॥ ७५.१९ ॥
कर्मयज्ञरताः स्थूलाः स्थूललिङ्गार्चनेरताः॥
असतां भावनार्थाय नान्यथा स्थूलविग्रहः॥ ७५.२೦ ॥
आध्यात्मिकं च यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत्॥
असौ मूढो बहिः सर्वं कल्पयित्वैव नान्यथा॥ ७५.२१ ॥
ज्ञानिनां सूक्ष्मममलं भवेत्प्रत्यक्षमव्ययम्॥
यता स्थूलमयुक्तानां मृत्काष्ठाद्यौः प्रकल्पितम्॥ ७५.२२ ॥
अर्थो विचारतो नास्तीत्यन्ये तत्त्वार्थवेदिनः॥
निष्कलः सकलश्चेति सर्वं शिवमयं ततः॥ ७५.२३ ॥
व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः॥
पृथक्त्वं चापृथक्त्वं च शङ्करस्येति चापरे॥ ७५.२४ ॥
प्रत्ययार्थं हि जगतामेकस्थोपि दिवाकरः॥
एकोपि बहुधा दृष्टो जलाधारेषु सुव्रताः॥ ७५.२५ ॥
जन्तवो दिवि भूमा च सर्वे वै पाञ्चभौतिकाः॥
तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः॥ ७५.२६ ॥
दृश्यते श्रूयते यद्यत्तत्तद्विद्धि शिवात्मकम्॥
भेदो जनानां लोकेस्मिन्प्रतिभासो विचारतः॥ ७५.२७ ॥
स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत्॥
दुःखी च भेगं दुःखं च नानुभूतं विचारतः॥ ७५.२८ ॥
एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः॥
हृदि संसारिणां साक्षात्सकलः परमेश्वरः॥ ७५.२९ ॥
योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः॥
त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते॥ ७५.३० ॥
निष्कलं प्रथमं चैकं ततः सकलनिष्कलम्॥
तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः॥ ७५.३१ ॥
अर्चयन्ति मुहुः केचित्सदा सकलनिष्कलम्॥
सर्वज्ञं हृदये केचिच्छिवलिङ्गे विभावसौ॥ ७५.३२ ॥
सकलं मुनयः केचित्सदा संसारवर्तिनः॥
एवमभ्यर्चयन्त्येव सदाराः ससुतानराः॥ ७५.३३ ॥
यथा शिवस्तथा देवी यथा देवी तथा शिवः॥
तस्मादभेदबुद्ध्यैव सप्तविंशत्प्रभेदतः॥ ७५.३४ ॥
यजन्ति देहे बाह्ये च चतुष्कोणे षडस्रके॥
दशारे द्वादशारे च षोडशारे त्रिरस्रके॥ ७५.३५ ॥
स स्वेच्छया शिवः साक्षाद्देव्या सार्धं स्थितः प्रभुः॥
सन्तारणार्थं च शिवः सदसद्व्यक्तिवर्जितः॥ ७५.३६ ॥
तमेकमाहुर्द्विगुणं च केचित्केचित्तमाहुस्त्रिगुणात्मकं च॥
ऊचुस्तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदन्ति॥ ७५.३७ ॥
भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः॥
यजन्ति योगेशमशेषमूर्ति षडस्रमध्ये भगवन्तमेव॥ ७५.३८ ॥
ये तत्र पश्यन्ति शिवं त्रिरस्रे त्रितत्त्वध्ये त्रिगुणं त्रियक्षम्॥
ते यान्ति चैनं न च योगिनोऽन्ये तया च देव्या पुरुषं पुराणम्॥ ७५.३९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवाद्वैतकथनं नाम पञ्चसप्ततितमोऽध्यायः॥ ७५ ॥