०७३

सूत उवाच॥
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात्॥
सदस्याह सुरेन्द्राणां भगवान्पद्मसम्भवः॥ ७३.१ ॥

पितामह उवाच॥
सन्त्यज्य देव देवेशं लिङ्गमूर्ति महेश्वरम्॥
तारपौत्रो महातेजास्तारकस्य सुतो बली॥ ७३.२ ॥

तारकाक्षोपि दितिजः कमलाक्षश्च वीर्यवान्॥
विद्युन्माली च दैत्येशः अन्ये चापि सबान्धवाः॥ ७३.३ ॥

त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः॥
सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसम्भवैः॥ ७३.४ ॥

तस्मात्सदा पूजनीयो लिङ्गमूर्तिः सदाशिवः॥
यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः॥ ७३.५ ॥

पूजनीयः शिवो नित्यं श्रद्धया देवपुङ्गवैः॥
सर्वलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम्॥ ७३.६ ॥

तस्मात्सम्पूजयेल्लिङ्गं य इच्छेत्सिद्धिमात्मनः॥
सर्वे लिङ्गार्चनादेव देवा दैत्याश्च दानवाः॥ ७३.७ ॥

यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः॥
पितरो मुनयश्चापि पिशाचाः किन्नरादयः॥ ७३.८ ॥

अर्चयित्वा लिङ्गमूर्ति संसिद्धा नात्र संशयः॥
तस्माल्लिङ्गं यजेन्नित्यं येन केनापि वा सुराः॥ ७३.९ ॥

पशवश्च वयं तस्य देवदेवस्य धीमतः॥
पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः॥ ७३.१೦ ॥

पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः॥
विशोध्य चैव भूतानि पञ्चभिः प्रणवैः समम्॥ ७३.११ ॥

प्राणायामैः समायुक्तैः पञ्चभिः सुरपुङ्गवाः॥
चतुर्भिः प्रणवैश्चैव प्राणायामपरायणैः॥ ७३.१२ ॥

त्रिभिश्च प्रणवैर्देवाः प्राणायामैस्तथाविधैः॥
द्विधा न्यस्य तथोङ्कारं प्राणायामपरायणः॥ ७३.१३ ॥

ततश्चोङ्कारमुच्चार्य प्राणापानौ नियम्य च॥
ज्ञानामृतेन सर्वाङ्गान्यापूर्य प्रणवेन च॥ ७३.१४ ॥

गुणत्रयं चतुर्धाख्यमहङ्कारं च सुव्रताः॥
तन्मात्राणि च भूतानि तथा बुद्धीन्द्रियाणि च॥ ७३.१५ ॥

कर्मेन्द्रियाणि संशोध्य पुरुषं युगलं तथा॥
चिदात्मानं तनुं कृत्वा चाग्निर्भस्मेति संस्पृशेत्॥ ७३.१६ ॥

वायुर्भस्मेति च व्योम तथाम्भो पृथिवी तथा॥
त्रियायुषं त्रिसन्ध्यं च धूलयेद्भसितेन यः॥ ७३.१७ ॥

स योगी सर्वतत्त्वज्ञो व्रतं पाशुपतं त्विदम्॥
भवेन पाशमोक्षार्थं कथितं देवसत्तमाः॥ ७३.१८ ॥

एवं पाशुपतं कृत्वा सम्पूज्य परमेश्वरम्॥
लिङ्गे पुरा मया दृष्टे विष्णुना च महात्मना॥ ७३.१९ ॥

पशवो नैव जायन्ते वर्षमात्रेण देवताः॥
अस्माभिः सर्वकार्याणां देवमभ्यर्च्य यत्नतः॥ ७३.२೦ ॥

बाह्ये चाभ्यन्तरे चैव मन्ये कर्तव्यमीश्वरम्॥
प्रतिज्ञा मम विष्णोश्च दिव्यैषा सुरसत्तमाः॥ ७३.२१ ॥

मुनीनां च न सन्देहस्तस्मात्सम्पूजयेच्छिवम्॥
सा हानिस्तन्महच्छिद्रं स मोहः सा च मूकता॥ ७३.२२ ॥

यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत्॥
भवभक्तिपरा ये च भवप्रणतचेतसः॥ ७३.२३ ॥

भवसंस्मरणोद्युक्ता न ते दुःखस्य भाजनम्॥
भवनानि मनोज्ञानि दिव्यमाभरणं स्त्रियः॥ ७३.२४ ॥

धनं वा तुष्टिपर्यन्तं शिवपूजाविधेः फलम्॥
ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये॥

तेऽर्चयन्तु सदा कालं लिङ्गमूर्तिं महेश्वरम्॥ ७३.२५ ॥
हत्वा भित्त्वा च भूतानि दग्ध्वा सर्वमिदं जगत्॥ ७३.२६ ॥

यजेदेकं विरूपाक्षं न पापैः स प्रलिप्यते॥
शैलं लिङ्गं मदीयं हि सर्वदेवनमस्कृतम्॥ ७३.२७ ॥

इत्युक्त्वा पूर्वमभ्यर्च्य रुद्रं त्रिभुवनेश्वरम्॥
तुष्टाव वाग्भिरिष्टाभि र्देवदेवं त्रियम्बकम्॥ ७३.२८ ॥

तदाप्रभृति शक्राद्याः पूजयामासुरीश्वरम्॥
साक्षात्पाशुपतं कृत्वा भस्मोद्धूलितविग्रहाः॥ ७३.२९ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मप्रोक्तलिङ्गार्चनविधिर्नाम त्रिसप्ततितमोध्यायः॥ ७३ ॥