०७२

सूत उवाच॥
अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा॥
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम्॥ ७२.१ ॥

सर्वभूतमयश्चैव सर्वदेवनमस्कृतः॥
सर्वदेवमयश्चैव सौवर्णः सर्वसम्मतः॥ ७२.२ ॥

रथाङ्गं दक्षिणं सूर्यो वामाङ्गं सोम एव च॥
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम्॥ ७२.३ ॥

अरेषु तेषु विप्रेन्द्राश्चादित्या द्वादशैव तु॥
शशिनः षोडशारेषु कला वामस्य सुव्रताः॥ ७२.४ ॥

ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम्॥
नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः॥ ७२.५ ॥

पुष्करं चान्तरिक्षं वै रथनीडश्च मन्दरः॥
अस्ताद्रिरुदयाद्रिश्च उभौ तौ कूबरौ स्मृतौ॥ ७२.६ ॥

अधिष्ठानं महामेरुराश्रयाः केसराचलाः॥
वेगः संवत्सरस्तस्य अयने चक्रसङ्गमौ॥ ७२.७ ॥

मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः॥
तस्य काष्ठाः स्मृता घोणा चाक्षदण्डा क्षणाश्च वै॥ ७२.८ ॥

निमेषाश्चानुकर्षाश्च ईषा चास्य लवाः स्मृताः॥
दायौर्वरूथं रथस्यास्य स्वर्गमो क्षावुभौ ध्वजौ॥ ७२.९ ॥

धर्मो विरागो दण्डोस्य यज्ञां दण्डाश्रयाः स्मृताः॥
दक्षिणाः सन्धयस्तस्य लोहाः पञ्चाशदग्नयः॥ ७२.१೦ ॥

युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ॥
ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः॥ ७२.११ ॥

कोणस्तथा ह्यहङ्कारो भूतानि च बलं स्मृतम्॥
इन्द्रियाणि च तस्यैव भूषणानि समन्ततः॥ ७२.१२ ॥

क्षद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः॥
पदानि भूषणान्येव षडङ्गान्युपभूषणम्॥ ७२.१३ ॥

पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः॥
वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः॥ ७२.१४ ॥

मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः॥
अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः॥ ७२.१५ ॥

दिशः पादा रथस्यास्य तथा चोपदिशश्च ह॥
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः॥ ७२.१६ ॥

समुद्रास्तस्य चत्वारो रधकम्बलिकाः स्मृताः॥
गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः॥ ७२.१७ ॥

चामरासक्तहस्ताग्राः सरावः स्त्रीरूपशोभिताः॥
तत्रतत्र कृतस्थानाः शोभयाञ्चक्रिरे रथम्॥ ७२.१८ ॥

आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम्॥
सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः॥ ७२.१९ ॥

प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम्॥
लोकालोका चलस्तस्य ससोपानः समन्ततः॥ ७२.२೦ ॥

विषमश्च तदाबाह्यो मानसाद्रिः सुशोभनः॥
नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः॥ ७२.२१ ॥

तलाः कपोताः कापोताः सर्वे तलनिवासिनः॥
मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः॥ ७२.२२ ॥

शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम्॥
कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः॥ ७२.२३ ॥

घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी॥
इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च॥ ७२.२४ ॥

कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः॥
अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः॥ ७२.२५ ॥

एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा॥
सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम्॥ ७२.२६ ॥

आरुरोह रथं दिव्यं रणमण्डनधृग्भवः॥
सर्वदेवगणैर्युक्तं कम्पयन्निव रोहसी॥ ७२.२७ ॥

ऋषिभिः स्तूयमानश्च वन्द्यमानश्च वन्दिभिः॥
उपनृत्यश्चाप्सरसां गणैर्नृत्यविशारदैः॥ ७२.२८ ॥

सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम्॥
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम्॥ ७२.२९ ॥

शिरोभिः पतिता भूमिं तुरगा वेदसम्भवाः॥
अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः॥ ७२.३೦ ॥

वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम्॥
क्षणान्तरे वृषेन्द्रोपि जानुभ्यामगमद्धराम्॥ ७२.३१ ॥

अभीषुहस्तो भगवानुद्यम्य च हयान् विभुः॥
स्थापयामास देवस्य वचनाद्वै रथं शुभम्॥ ७२.३२ ॥

ततोश्वांश्चोदयामास मनोमारुतरंहसः॥
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्॥ ७२.३३ ॥

अथाह भगवान् रुद्रो देवानालोक्य शङ्करः॥
पशूनामाधिपत्यं मे दत्तं हन्मि ततोऽसुरान्॥ ७२.३४ ॥

पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः॥
कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः॥ ७२.३५ ॥

इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः॥
विषादमगमन् सर्वे पशुत्वं प्रति शङ्किताः॥ ७२.३६ ॥

तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत्॥
मा वोस्तु पशुभावेस्मिन् भयं विबुधसत्तमाः॥ ७२.३७ ॥

श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः॥
यो वै पशुपतं दिव्यं चरिष्यति स मोक्ष्यति॥ ७२.३८ ॥

पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः॥
ये चाप्यन्ये चरिष्यन्ति व्रतं पाशुपतं मम॥ ७२.३९ ॥

मोक्ष्यन्ति ते न सन्देहः पशुत्वात्सुरसत्तमाः॥
नैष्ठिकं द्वादशाब्दंवा तदर्धं वर्षकत्रयम्॥ ७२.४೦ ॥

शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते॥
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः॥ ७२.४१ ॥

तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते॥
तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः॥ ७२.४२ ॥

रुद्रः पशुपतिश्चैव पशुपाशविमोचकः॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत्॥ ७२.४३ ॥

तत्कृत्वा न च पापीयानिति शास्त्रस्य निश्चयः॥
ततो विनायकः साक्षाद्बालोऽबालपराक्रमः॥ ७२.४४ ॥

अपूजितस्तदा देवैः प्राह देवान्निवारयन्॥
श्रीविनायक उवाच॥
मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः॥ ७२.४५ ॥

कः पुमान्सिद्धिमाप्नोति देवो वा दानवोपि वा॥
ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः॥ ७२.४६ ॥

विघ्नं करिष्ये देवेश कथं कर्त्तुं समुद्यताः॥
ततः सेन्द्राः सुराः सर्वे भीताः सम्पूज्य तं प्रभुम्॥ ७२.४७ ॥

भक्ष्यभोज्यदिभिश्चैव उण्डरैश्चैव मोदकैः॥
अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा॥ ७२.४८ ॥

भवोप्यनेकैः कुसुमैर्गणेशं भक्ष्यैश्च भोज्यैः सुरसैः सुगन्धैः॥
आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः॥ ७२.४९ ॥

सम्पूज्य पूज्यं सह देवसङ्घैर्विनायकं नायकमीश्वराणाम्॥
गणेश्वरैरेव नगेन्द्रधन्वा पुरत्रयं दग्धुमसौ जगाम॥ ७२.५೦ ॥

तं देवदेवं सुरसिद्धसङ्घा महेश्वरं भूतगणाश्च सर्वे॥
गणेश्वरा नन्दिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः॥ ७२.५१ ॥

अग्रे सुराणां च गणेश्वराणां तदाथ नन्दी गिरिराजकल्पम्॥
विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः॥ ७२.५२ ॥

यान्तं तदानीं तु शिलादपुत्रमारुह्य नागेन्द्रवृषाश्ववर्यान्॥
देवास्तदानीं गणपाश्च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः॥ ७२.५३ ॥

खगेन्द्रमारुह्य नगेन्द्रकल्पं खगध्वजो वामत एव शम्भोः॥
जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः॥ ७२.५४ ॥

तं सर्वदेवाः सुरलोकनाथं समन्ततश्चान्वयुरप्रमेयम्॥
सुरासुरेशं शितशक्तिटङ्कगदात्रिशूलासिवरायधैश्च॥ ७२.५५ ॥

रराज मध्ये भगवान्सुराणां विवाहनो वारिजपत्रवर्णः॥
यथा सुमेरोः शिखराधिरूढः सहस्ररश्मिर्भगवान्सुतीक्ष्णः॥ ७२.५६ ॥

सहस्रनेत्रः प्रथमः सुराणां गजेन्द्रमारुह्य च दक्षिणेऽस्य॥
जगाम रुद्रस्य पुरं निहन्तुं यथोरगांस्तत्र तु वैनतेयः॥ ७२.५७ ॥

तं सिद्धगन्धर्वसुरेन्द्रवीराः सुरेन्द्रवृन्दाधिपमिन्द्रमीशम्॥
समन्ततस्तुष्टुवुरिष्टदं ते जयेति शक्रं वरपुष्पवृष्ट्या॥ ७२.५८ ॥

तदा ह्यहल्योपपतिं सुरेशं जगत्पतिं देवपतिं दिविष्ठाः॥
प्रणेमुरालोक्य सहस्रनेत्रं सलीलमम्बा तनयं यथेन्द्रम्॥ ७२.५९ ॥

यमपावकवित्तेशा वायुर्निर्ऋतिरेव च॥
अपां पतिस्तथेशानो भवं चानुसमागताः॥ ७२.६೦ ॥

वीरभद्रो रणे भद्रो नैर्ऋत्यां वै रथस्य तु॥
वृषभेन्द्रं समारुह्य रोमजैश्च समावृतः॥ ७२.६१ ॥

सेवां चक्रे पुरं हन्तुं देवदेवं त्रियम्बकम्॥
महाकालो महातेजा महादेव इवापरः॥ ७२.६२ ॥

वायव्यां सगणैः सार्धं सेवाञ्चक्रे रथस्य तु॥ ७२.६३ ॥

षण्मुखोपि सह सिद्धचारणैः सेनया च गिरिराज सन्निभः॥
देवनाथगणवृन्दसंवृतो वारणेन च तथाग्निसम्भवः॥ ७२.६४ ॥

विघ्नं गणेशोप्यसुरेश्वराणां कृत्वा सुराणां भगवानविघ्नम्॥
विघ्नेश्वरो विघ्नगणैश्च सार्धं तं देशमीशानपदं जगाम॥ ७२.६५ ॥

काली तदा कालनिशाप्रकाशं शूलं कपालाभरणा करेण॥
प्रकम्पयन्ती च तदा सुरेन्द्रान्महासुरासृङ्मधुपानमत्ता॥ ७२.६६ ॥

मत्तेभगामी मदलोलनेत्रा मत्तैः पिशाचैश्च गणैश्च मत्तैः॥
मत्तेभचर्माम्बरवोष्टिताङ्गी ययौ पुरस्ताच्च गणेश्वरस्य॥ ७२.६७ ॥

तां सिद्धगन्धर्वपिशाचयक्षविद्याधराहीन्द्रसुरेन्द्रमुख्याः॥
प्रणेमुरुच्चैरभितुष्टुवुश्च जयेति देवीं हिमशैल पुत्रीम्॥ ७२.६८ ॥

मातरः सुरवरारिसूदनाः सादरं सुरगणैः सुपूजिताः॥
मातरं ययुरथ स्ववाहनैः स्वैर्गणैर्ध्वजधरैः समन्ततः॥ ७२.६९ ॥

दुर्गारूढमृगाधिपा दुरतिगा दोर्दण्डवृन्दैः शिवा
बिभ्राणाङ्कुशशूलपाशपरशुं चक्रासिशङ्खायुधम्॥
प्रौढादित्यसहस्रसदृशैर्नेत्रैर्दहन्ती पथं
बालाबालपराक्रमा भगवती दैत्यान्प्रहर्तुं ययौ॥ ७२.७೦ ॥

तं देवमीशं त्रिपुरं निहन्तुं तदा तु देवेन्द्ररविप्रकाशाः॥
गजैर्हयैः सिंहवरै रथैश्च वृषैर्ययुस्ते गणराजमुख्याः॥ ७२.७१ ॥

हलैश्च फालैर्मुसलैर्भुशुंर्भुशुण्डैर्गिरीन्द्रकूटैर्गिरिसन्निभास्ते॥
ययुः पुरस्ताद्धि महेश्वरस्य सुरेश्वरा भूतगणेश्वराश्च॥ ७२.७२ ॥

तथेन्द्रपद्मोद्भवविष्णुमुख्याः सुरा गणेशाश्च गणेशमीशम्॥
जयेति वाग्भिर्भगवन्तमूचुः किरीटदत्ताञ्जलयः समन्तात्॥ ७२.७३ ॥

ननृतुर्मुनयः सर्वे दण्डहस्ता जटाधराः ॥
ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः॥
पुरत्रयं च विप्रेन्द्राः प्राणदत्सर्वतस्तथा॥ ७२.७४ ॥

गणेश्वरै र्देवगणैश्च भृङ्गी सहावृतः सर्वगणेन्द्रवर्यः॥
जगाम योगी त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः॥ ७२.७५ ॥

केशो विगतवासाश्च महाकेशो महाज्वरः॥
सोमवल्ली सवर्णश्च सोमपः सेनकस्तथा॥ ७२.७६ ॥

सोमधृक् सूर्यवाचश्च सूर्यपेषणकस्तथा॥
सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च॥ ७२.७७ ॥

प्रकृदः ककुदन्तश्च कम्पनश्च प्रकम्पनः॥
इन्द्रश्चेन्द्रजयश्चैव महाभीर्भीमकस्तथा॥ ७२.७८ ॥

शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः॥
यमजिह्वः शताश्वश्च कण्ठनः कण्ठपूजनः॥ ७२.७९ ॥

द्विशिखस्त्रिशिखश्चैव तथा पञ्चशिखो द्विजाः॥
मुण्डोर्धमुण्डो दीर्घश्च पिशाचास्यः पिनाकधृक्॥ ७२.८೦ ॥

पिप्पलायतनश्चैव तथा ह्यङ्गारकाशनः॥
शिथिलः शिथिलास्यश्च अक्षपादो ह्यजः कुजः॥ ७२.८१ ॥

अजवक्रो हयवक्रो गजवक्त्रोर्ध्ववक्रकः॥
इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः॥ ७२.८२ ॥

वृन्दशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः॥
सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम्॥ ७२.८३ ॥

समावृत्य महादेवं देवदेवं महेश्वरम्॥
दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः॥ ७२.८४ ॥

त्रयस्त्रिंशत्सुराश्चैव त्रयश्च त्रिशतास्तथा॥
त्रयश्च त्रिसहस्राणि जग्मुर्देवाः समन्ततः॥ ७२.८५ ॥

मातरः सर्वलोकानां गणानां चैव मातरः॥
भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः॥ ७२.८६ ॥

भाति मध्ये गणानां च रथमध्ये गणेश्वरः॥
नभस्यमलनक्षत्रे तारामध्य इवोडुराट्॥ ७२.८७ ॥

रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता॥
तदा प्रभावतो गौरी भवस्येव जगन्मयी॥ ७२.८८ ॥

शुभावती तदा देवी पार्श्वसंस्था विभाति सा॥
चामरासक्तहस्ताग्रा सा हेमाम्बुजवर्णिका॥ ७२.८९ ॥

अथ विभाति विभोर्विशदं वपुर्भसितभासितमम्बिकया तया॥
सितमिवाभ्रमहो इहविद्युता नभसि देवपतेः परमेष्ठिनः॥ ७२.९೦ ॥

भातीन्द्रधनुषाकाशं मेरुणा च यथा जगत्॥
हिरण्यधनुषा सौम्यं वपुः शम्भोः शशिद्युति॥ ७२.९१ ॥

सितातपत्रं रत्नांशुमिश्रितं परमेष्ठिनः॥
यथोदये शशाङ्कस्य भात्यखण्डं हि मण्डलम्॥ ७२.९२ ॥

सदुकूला शिवे रक्ता लम्बिता भाति मालिका॥
छत्रान्ता रत्नजाकाशात्पतन्तीव सरिद्वरा॥ ७२.९३ ॥

अथ महेन्द्रविरिञ्चिविभावसुप्रभृतिभिर्नतपादसरोरुहः॥
सह तदा च जगाम तयाम्बया सकललोकहिताय पुरत्रयम्॥ ७२.९४ ॥

दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली॥
किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश्च सार्धम्॥ ७२.९५ ॥

रथेन किं चेषुवरेण तस्य गणैश्च किं देवगणैश्च शम्भोः॥
पुरत्रयं दग्धुमलुप्तशक्तेः किमेतदित्याहुरजेन्द्र मुख्याः॥ ७२.९६ ॥

मन्वाम नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रवर्तुम्॥
व्यवस्थितश्चेति तथान्यथा चेदाडम्बरेणास्य फलं किमन्यत्॥ ७२.९७ ॥

पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर्नन्दिमुखैश्च नन्दी॥
गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टश्रृङ्गैः॥ ७२.९८ ॥

अथ निरिक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा॥
त्रिपुररङ्गतलोपरि संस्थितः सुरगणोनुजगाम स्वयं तथा॥ ७२.९९ ॥

जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक्॥
नरेश्वरैश्चैव गणैश्च देवैः सुरेतरैश्च त्रिविधैर्मुनीन्द्राः॥ ७२.१೦೦ ॥

अथ सज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम्॥
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्॥ ७२.१೦१ ॥

तस्मिंस्थिते महादेवे रुद्रे विततकार्मुके॥
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै॥ ७२.१೦२ ॥

एकीभावं गते चैव त्रिपुरे समुपागते॥
बभूव तुमुलो हर्षो देवतानां महात्मनाम्॥ ७२.१೦३ ॥

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः॥
जयेति वाचो मुमुचुः संस्तुवन्तोष्टमूर्तिनम्॥ ७२.१೦४ ॥

अथाह भगवान्ब्रह्मा भगनेत्रनिपातनम्॥
पुष्ययोगोपि सम्प्राप्ते लीलावशमुमापतिम्॥ ७२.१೦५ ॥

स्थाने तव महादेव चेष्टेयं परमेश्वर॥
पूर्वदेवाश्च देवाश्च समास्तव यतः प्रभो॥ ७२.१೦६ ॥

तथापि देवा धर्मिष्ठाः पूर्वदेवाश्च पापिनः॥
यतस्तस्माज्जगन्नाथ लीलां त्यक्तुमिहार्हसि॥ ७२.१೦७ ॥

किं रथेन ध्वजेनेश तव दग्धुं पुरत्रयम्॥
इषुणा भूतसङ्घैश्च विष्णुना च मया प्रभो॥ ७२.१೦८ ॥

पुष्ययोगे त्वनुप्राप्ते पुरं दग्धुमिहार्हसि॥
यावन्न यान्ति देवेश वियोगं तावदेव तु॥ ७२.१೦९ ॥

दग्धुमर्हसि शीघ्रं त्वं त्रीण्येतानि पुराणि वै॥
अथ देवो महादेवः सर्वज्ञस्तदवैक्षत॥ ७२.११೦ ॥

पुरत्रयं विरूपाक्षस्तत्क्षणाद्भस्म वै कृतम्॥
सोमश्च भगवान्विष्णुः कालाग्निर्वायुरेव च॥ ७२.१११ ॥

शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम्॥
दग्धमप्यथ देवेश वीक्षणेन पुरत्रयम्॥ ७२.११२ ॥

अस्मद्धितार्थं देवेश शरं मोक्तुमिहार्हसि॥
अथ सम्मृज्य धनुपो ज्यां हसन् त्रिपुरार्दनः॥ ७२.११३ ॥

मुमोच बाणं विप्रेन्द्रा व्याकृष्याकर्णमीश्वरः॥
तत्क्षणात्त्रिपुरं दग्ध्वा त्रिपुरान्तकरः शरः॥ ७२.११४ ॥

देवदेवं समासाद्य नमस्कृत्वा व्यवस्थितः॥
रेजे पुरत्रयं दग्धं दैत्यकोटिशतैर्वृतम्॥ ७२.११५ ॥

इषुणा तेन कल्पान्ते रुद्रेणेव जगत्त्रयम्॥
ये पूजयन्ति तत्रापि दैत्या रुद्रं सबान्धवाः॥ ७२.११६ ॥

गाणपत्यं तदा शम्भोर्ययुः पूजाविधेर्बलात्॥
न किञ्चिदब्रुवन्देवाः सेन्द्रोपेन्द्रा गणेश्वराः॥ ७२.११७ ॥

भयाद्देवं निरीक्ष्यैव देवीं हिमवतः सुताम्॥
दृष्ट्वा भीतं तदानीकं देवानां देवपुङ्गवः॥ ७२.११८ ॥

किं चेत्याह तदा देवान्प्रणेमुस्तं समन्ततः॥ ७२.११९ ॥

ववन्दिरे नन्दिनमिन्दुभूषणं ववन्दिरे पर्वतराजसम्भवाम्॥
ववन्दिरे चाद्रिसुतासुतं प्रभुं ववन्दिरे देवगणा महेश्वरम्॥ ७२.१२೦ ॥

तुष्टाव हृदये ब्रह्मा देवैः सह समाहितः॥
विष्णुना च भवं देवं त्रिपुरारातिमीश्वरम्॥ ७२.१२१ ॥

श्रीपितामह उवाच॥
प्रसीद देवदेवेश प्रसीद परमेश्वर॥
प्रसीद जगतां नाथ प्रसीदानन्ददाव्यय॥ ७२.१२२ ॥

पञ्चास्य रुद्ररुद्राय पञ्चाशत्कोटिमूर्तये॥
आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः॥ ७२.१२३ ॥

शिवाय शिवतत्त्वाय अघोराय नमोनमः॥
अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे॥ ७२.१२४ ॥

विद्युत्कोटिप्रतीकाशमष्टकाशं सुशोभनम्॥
रूपमास्थाय लोकेस्मिन् संस्थिताय शिवात्मने॥ ७२.१२५ ॥

अग्निवर्णायरौद्राय अम्बिकार्धशरीरिणे॥
धवलश्यामरक्तानां मुक्तिदायामराय च॥ ७२.१२६ ॥

ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च॥
त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः॥ ७२.१२७ ॥

मध्ये गगनरूपाय गगनस्थाय ते नमः॥
अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः॥ ७३.१२८ ॥

चतुर्धा च चतुर्धाच चतुर्धा संस्थिताय च॥
पञ्चधा पञ्चधा चैव पञ्चमन्त्रशरीरिणे॥ ७२.१२९ ॥

चतुःषष्टिप्रकाराय अकाराय नमोनमः॥
द्वात्रिंशत्तत्वरूपाय उकाराय नमोनमः॥ ७२.१३೦ ॥

षोडशात्मस्वरूपाय मकाराय नमोनमः॥
अष्टधात्मस्वरूपाय अर्धमात्रात्मने नमः॥ ७२.१३१ ॥

ओङ्काराय नमस्तुभ्यं चतुर्धा संस्थिताय च॥
गगनेशाय सहस्रशिरसे स्वर्गेशाय नमोनमः॥ ७२.१३२ ॥

सप्तलोकाय पातालनरकेशाय वै नमः॥
अष्टक्षेत्राष्टरूपाय परात्परतराय च॥ ७२.१३३ ॥

सहस्रशिरसे तुभ्यं सहस्राय च ते नमः॥
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने॥ ७२.१३४ ॥

नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये॥
पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये॥ ७२.१३५ ॥

चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते॥
गुणाष्टकवृतायैव गुणिने निर्गुणाय ते॥ ७२.१३६ ॥

मूलस्ताय नमस्तुभ्यं शास्वतस्थानवासिने॥
नाभिमण्डलसंस्थाय हृदि निस्स्वनकारिणे॥ ७२.१३७ ॥

कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च॥
श्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च॥ ७२.१३८ ॥

चन्द्रबिबस्थितायैव शिवाय शिवरूपिणे॥
वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे॥ ७२.१३९ ॥

त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने॥
त्रिप्रकारं स्तितायैव त्रेताग्निमयरूपिणे॥ ७२.१४೦ ॥

सदाशिवाय शान्ताय महेशाय पिनाकिने॥
सर्वज्ञाय शरण्याय सद्योजाताय वै नमः॥ ७२.१४१ ॥

अघोराय नमस्तुभ्यं वामदेवाय ते नमः॥
तत्पुरुषाय नमोस्तु ईशानाय नमोनमः॥ ७२.१४२ ॥

नमस्त्रिंशत्प्रकाशाय शान्तातीताय वै नमः॥
अनन्तेशाय सूक्ष्माय उत्तमाय नमोस्तु ते॥ ७२.१४३ ॥

एकाक्षाय नमस्तुभ्यमेकरुद्राय ते नमः॥
नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने॥ ७२.१४४ ॥

अनन्तासनसंस्थाय अनन्तायान्तकारिणे॥
विमलाय विशालाय विमलाङ्गाय ते नमः॥ ७२.१४५ ॥

विमलासनसंस्थाय विमलार्थार्थरूपिणे॥
योगपीठान्तरस्थाय योगिने योगदायिने॥ ७२.१४६ ॥

योगिनां हृदि संस्थाय सदा नीवारशूकवत्॥
प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते॥ ७२.१४७ ॥

प्रत्याहाररतानां च प्रतिस्थानस्थिताय च॥
धारणायै नमस्तुभ्यं धारणाभिरताय ते॥ ७२.१४८ ॥

धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च॥
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः॥ ७२.१४९ ॥

ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः॥
ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते॥ ७२.१५೦ ॥

समाधानाभिगम्याय समाधानाय ते नमः॥
समाधानरतानां तु निर्विकल्पार्थरूपिणे॥ ७२.१५१ ॥

दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरुत्रयं हि॥
कस्तोतुमिच्छेत्कथमीदृशं त्वां स्तेष्येह तुष्टाय शिवाय तुभ्यम्॥ ७२.१५२ ॥

भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव॥
एते गणाः सिद्धगणैः प्रणामं कुर्वाति देवेश गणेश तुभ्यम्॥ ७२.१५३ ॥

निरीक्षणादेव विभोसि दग्धुं पुरत्रयं चैव जगत्त्रयं च॥
लीलालसेनाम्बिकया क्षणेन दग्धं किलेषुश्च तदाथ मुक्तः॥ ७२.१५४ ॥

कृतो रथश्चैषुवरश्च शुभ्रं शरासनं ते त्रिपुरक्षयाय॥
अनेकयत्नैश्च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसङ्घैः॥ ७२.१५५ ॥

रथो रथी देववरे हरिश्च रुद्रः स्वयं शक्रपितामहौ च॥
त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्यतोष्यं प्रणिपत्य मूर्ध्ना॥ ७२.१५६ ॥

अनम्पाद स्त्वमनन्तबाहुरनन्तमूर्धान्तकरः शिवश्च॥
अनन्तमूर्तिः कथमीदृशं त्वां तेष्ये ह्यतोष्यं कथमीदृशं त्वाम्॥ ७२.१५७ ॥

नमोनमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम्॥
स्तूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्मसूक्ष्माय सूक्ष्मार्थविदे विधात्रे॥ ७२.१५८ ॥

स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे॥
नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे॥ ७२.१५९ ॥

वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय॥
वेदात्मरूपाय भवाय तुभ्यमन्ताय मध्याय सुमध्यमाय॥ ७२.१६೦ ॥

आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च॥
अलिङ्गिने लिङ्गमयाय तुभ्यं लिगाय वेदादिमयाय साक्षात्॥ ७२.१६१ ॥

रुद्राय मूर्धाननिकृन्तनाय ममादि देवस्य च यज्ञमूर्तेः॥
विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या॥ ७२.१६२ ॥

अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश॥
देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्व॥७२.१६३॥

एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं सूर्तामूर्तं मूर्तमेकं ह्यमूर्तम्॥
एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते॥ ७२.१६४ ॥

स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि॥
मूर्तिर्नो वै देव मीशान देवैर्लक्ष्या यत्नैरप्यलक्ष्यं कथं तु॥ ७२.१६५ ॥

दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश्च॥
तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन्क्षमस्व॥ ७२.१६६ ॥

सूत उवाच॥
य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य वा पठेत्॥
स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम्॥ ७२.१६७ ॥

श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य॥
स्तवं तदा प्राह महानुभावं महाभुजो मन्दरश्रृङ्गवासी॥ ७२.१६८ ॥

शिव उवाच॥
स्तवेनानेन तुष्टोस्मि तव भक्त्या च पद्मज॥
वरान् वरय भद्रं ते देवानां च यथेप्सितान्॥ ७२.१६९ ॥

सूत उवाच॥
ततः प्रणम्य देवेशं भगवान्पद्मसम्भवः॥
कृताञ्जलिपुटो भूत्वा प्राहेदं प्रीतमानसः॥ ७२.१७೦ ॥

श्रीपितामह उवाच॥
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर॥
त्वयि भक्तिं परां मेऽद्य प्रसीद परमेश्वरम्॥ ७२.१७१ ॥

देवानां चैव सर्वेषां त्वयी सर्वार्थदेश्वर॥
प्रसीद भक्तियोगेन सारथ्येन च सर्वदा॥ ७२.१७२ ॥

जनार्दनोपि भगवान्नमस्कृत्य महेश्वरम्॥
कृताञ्जलिपुटो भूत्वा प्राह साम्बं त्रियम्बकम्॥ ७२.१७३ ॥

वाहनत्वं तवेशान नित्यमीहे प्रसीद मे॥
त्वयि भक्तिं च देवेश देवदेव नमोस्तु ते॥ ७२.१७४ ॥

सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम्॥
सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर॥ ७२.१७५ ॥

सूत उवाच॥
तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः॥
सारथ्ये वाहनत्वे च कल्पयामास वै भवः॥ ७२.१७६ ॥

दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा॥
सार्धं देव्या नन्दिना भूतसङ्घैरन्तर्धानं कारयामास शर्वः॥ ७२.१७७ ॥

ततस्तदा महेश्वरे गते रणाद्गणैः सह॥
सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम्॥ ७२.१७८ ॥

ययुश्च दुःखवर्जिताः स्ववाहनैर्दिवं ततः॥
सुरेश्वरा मुनीश्वरा गणेश्वराश्च भास्कराः॥ ७२.१७९ ॥

त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा॥
यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः॥ ७२.१८೦ ॥

श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति॥
मानसैर्वाचिकैः पापैस्तथा वै कायिकैः पुनः॥ ७२.१८१ ॥

स्थूलैः सूक्ष्मै सुसूक्ष्मैश्च महापातकसम्भवैः॥
पातकैश्च द्विजश्रेष्ठा उपपातकसम्भवैः॥ ७२.१८२ ॥

पापैश्च मुच्यते जन्तुः श्रुत्वाऽध्यायमिमं शुभम्॥
शत्रवो नाशमायान्ति सङ्ग्रामे विजयीभवेत्॥ ७२.१८३ ॥

सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम्॥
धनमायुर्यशो विद्यां प्रभावमतुलं लभेत्॥ ७२.१८४ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रिपुरदाहे ब्रह्मस्तवो नाम द्विसप्तितमोऽध्यायः॥ ७२ ॥