०७१

ऋषय ऊचुः॥
समासाद्विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः॥
कथं पशुपतिश्चासीत्पुरं दग्धुं महेश्वरः॥ ७१.१ ॥

कथं च पशवश्चासन्देवाः सब्रह्मकाः प्रभोः॥
मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम्॥ ७१.२ ॥

हैमं च राजतं दिव्यमयस्मय मनुत्तमम्॥
सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम्॥ ७१.३ ॥

कथं ददाह भगवान् भगनेत्रनिपातनः॥
एकेनेषुनिपातेन दिव्येनापि तदा कथम्॥ ७१.४ ॥

विष्णुनोत्पादितैर्भूतैर्न दग्धं तत्पुरत्रयम्॥
पुरस्य सम्भवः सर्वो वरलाभः पुरा श्रुतः॥ ७१.५ ॥

इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत॥
तेषां तद्वचनं श्रुत्वा सूताः पौराणिकोत्तमः॥ ७१.६ ॥

यथा श्रुतं तथा प्राह व्यासाद्विश्वार्थसूचकात्॥
सूत उवाच॥
त्रैलोक्यस्यास्य शापाद्धिमनोवाक्कायसम्भवात्॥ ७१.७ ॥

निहते तारके दैत्ये तारपुत्रे सबान्धवे॥
स्कन्देन वा प्रयत्नेन तस्य पुत्रा महाबलाः॥ ७१.८ ॥

विद्युन्माली तारकाक्षः कमलाक्षश्च वीर्यवान्॥
तपस्तेपुर्महात्मानो महाबलपराक्रमाः॥ ७१.९ ॥

तप उग्रं समास्थाय नियमे परमे स्थिताः॥
तपसा कर्शयामासुर्देहान् स्वान्दानवोत्तमाः॥ ७१.१೦ ॥

तेषां पितामहः प्रीतो वरदः प्रददौ वरम्॥
दैत्या ऊचुः॥
अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा॥ ७१.११ ॥

सहिता वरयामासुः सर्वलोकपितामहम्॥
तानब्रवीत्तदा देवो लोकानां प्रभुरख्ययः॥ ७१.१२ ॥

नास्ति सर्वामरत्वं वै निवर्तध्वमतोसुराः॥
अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते॥ ७१.१३ ॥

ततस्ते सहिता दैत्याः सम्प्रधार्य परस्परम्॥
ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम्॥ ७१.१४ ॥

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्॥
विचरिष्याम लोकेश त्वत्प्रसादाज्जगद्गुरो॥ ७१.१५ ॥

तथा वर्षसहस्रेषु समेष्यामः परस्परम्॥
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ॥ ७१.१६ ॥

समागतानि चैतानि यो हन्याद्भगवंस्तदा॥
एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति॥ ७१.१७ ॥

एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्॥
ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ॥ ७१.१८ ॥

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्॥
आयसं चाभवद्भूमौ पुरं तेषां महात्मनाम्॥ ७१.१९ ॥

एकैकं योजनशतं विस्तारायामतः समम्॥
काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम्॥ ७१.२೦ ॥

विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम्॥
मयश्च बलवांस्तत्र दैत्यदानवपूजितः॥ ७१.२१ ॥

हैरण्ये राजते चैव कृष्णायसमये तथा॥
आलयं चात्मनः कृत्वा तवास्ते बलवांस्तदा॥ ७१.२२ ॥

एवं बभूवुर्दैत्यानामतिदुर्गाणि सुव्रताः॥
पुराणि त्रीणी विप्रेन्द्रास्त्रैलोक्यमिव चापरम्॥ ७१.२३ ॥

पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये॥
पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः॥ ७१.२४ ॥

कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम्॥
नानाप्रसादसङ्कीर्णं मणिजालैः समावृतम्॥ ७१.२५ ॥

सूर्यमण्डलसङ्काशैर्विमानैर्विश्वतोमुखैः॥
पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसन्न्निभैः॥ ७१.२६ ॥

प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः॥
शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः॥ ७१.२७ ॥

दिव्यस्त्रीभिः सुसम्पूर्णं गन्धर्वैः सिद्धचारणैः॥
रुद्रालयैः प्रतिगृहं साग्निहोत्रैर्द्विजोत्तमाः॥ ७१.२८ ॥

वापीकूपतडागैश्च दीर्घिकाभिस्तु सर्वतः॥
मत्तमातङ्गयूथैश्च तुरङ्गैश्च सुशोभनैः॥ ७१.२९ ॥

रथैश्च विविधाकारैर्विचित्रैर्विश्वतोमुखैः॥
सभा प्रपादिभिश्चैव क्रीडास्थनैः पृथक्पृथक्॥ ७१.३೦ ॥

वेदाध्ययनशालाभिर्विविधाभिः समन्ततः॥
अधृष्यं मनसाप्यन्यैर्मयस्यैव च मायया॥ ७१.३१ ॥

पतिव्रताभिः सर्वत्र सेवितं मुनिपुङ्गवाः॥
कृत्वापि सुमहत्पापामपापैः शङ्करार्चनात्॥ ७१.३२ ॥

दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः॥
श्रौतस्मार्तार्थधर्मज्ञैस्तद्धर्मनिरतैः सदा॥ ७१.३३ ॥

महादेवेतरं त्यक्त्वा देवं तस्यार्चनं स्थितैः॥
व्यूढोरस्कैर्वृषस्कन्धैः सर्वायुधधरैः सदा॥ ७१.३४ ॥

सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः॥
प्रशान्तैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा॥ ७१.३५ ॥

नीलोत्पल दलप्रख्यैर्नीलकुञ्चितमूर्धजैः॥
नीलाद्रिमेरुसङ्काशैर्नीरदोपमनिःस्वनैः॥
मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः॥ ७१.३६ ॥

अथ समररतैः सदा समन्ताच्छिवपदपूजनया सुलब्धवीर्यैः॥
रविमरुदमरेन्द्रसन्निकाशैः सुरमथनैः सुदृढैः सुसेवितं तत्॥ ७१.३७ ॥

सेन्द्रा देवा द्विजश्रेष्ठा द्रुमा दावाग्निना यथा॥
पुरत्रयाग्निना दग्धा ह्यभवन्दैत्यवैभवात्॥ ७१.३८ ॥

अथैवं ते तदा दग्धा देवा देवेश्वरं हरिम्॥
अभिवन्द्य तदा प्राहुस्तप्रतिमवर्चसम्॥ ७१.३९ ॥

सोपि नारायणः श्रीमान् चिन्तयामास चेतसा॥
किं कार्यं देवकार्येषु भगवानिति स प्रभुः॥ ७१.४೦ ॥

तदा सस्मार वै यज्ञं यज्ञमूर्तिर्जनार्दनः॥
यज्वा यज्ञभुगीशानो यज्वनां फलदः प्रभुः॥ ७१.४१ ॥

ततो यज्ञः स्मृतस्तेन देवकार्यार्थसिद्धये॥
देवं ते पुरुषं चैव प्रणेमुस्तुष्टुवुस्तदा ॥ ७१.४२ ॥

भगवानपि तं दृष्ट्वा यज्ञं प्राह सनातनम्॥
सनातनस्तदा सेन्द्रान्देवां नालोक्य चाच्युतः॥ ७१.४३ ॥

श्रीविष्णुरुवाच॥
अनेनोपसदा देवा यजध्वं परमेश्वरम्॥
पुरत्रयविनाशाय जगत्त्रयविभूतये॥ ७१.४४ ॥

सूत उवाच॥
अथ तस्य वचः श्रुत्वा देवदेवस्य धीमतः॥
सिंहनादं महत्कृत्वा यज्ञेशं तुष्टुवुः सुराः॥ ७१.४५ ॥

ततः सञ्चिन्त्य भगवान् स्वयमेव जनार्दनः॥
पुनः प्राह स सर्वांस्तांस्त्रिदशांस्त्रिदशेश्वरः॥ ७१.४६ ॥

हत्वा दग्ध्वा च भूतानि भुक्त्वा चान्यायतोऽपि वा॥
यजेद्यदि महादेवमपापो नात्र संशयः॥ ७१.४७ ॥

अपापा नैव हन्तव्याः पापा एव न संशयः॥
हन्तव्याः सर्वयत्नेन कथं वध्याः सुरोत्तमाः॥ ७१.४८ ॥

असुरा दुर्मदाः पापा अपि देवैर्महाबलैः॥
तस्मान्न वध्या रुद्रस्य प्रभावत्परमेष्ठिनः॥ ७१.४९ ॥

कोहं ब्रह्माथवा देवा दैत्या देवारिसूदनाः॥
मुनयश्च महात्मानः प्रसादेन विना प्रभोः॥ ७१.५೦ ॥

यः सप्तविंशको नित्यः परात्परतरः प्रभुः॥
विश्वामरेश्वरो वन्द्यो विश्वाधारो महेश्वरः॥ ७१.५१ ॥

स एव सर्वदेवेशः सर्वेषामपि शङ्करः॥
लीलया देवदैत्येन्द्रविभागमकरोद्धरः॥ ७१.५२ ॥

तस्यांशमेकं सम्पूज्य देवा देवत्वमागताः॥
ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमेव च॥ ७१.५३ ॥

तमपूज्य जगत्यस्मिन् कः पुमान् सिद्धिमिच्छति॥
तस्मात्तेनैव हन्तव्या लिङ्गार्चनविधेर्बलात्॥ ७१.५४ ॥

धर्मनिष्ठाश्च ते सर्वे श्रौतस्मार्तविधौ स्थिताः॥
तथापि यजमानेन रौद्रेणोपसदा प्रभुम्॥
रुद्रमिष्ट्वा यथान्यायं जेष्यामो दैत्यसत्तमान्॥ ७१.५५ ॥

सतारकाक्षेण मयेन गुप्तं स्वस्थं च गुप्तं स्फटिकाभमेकम्॥
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम्॥ ७१.५६ ॥

सूत उवाच॥
एवमुक्त्वा हरिश्चेष्ट्वा यज्ञेनोपसदा प्रभुम्॥
उपविष्टो ददर्शाथ भूतसङ्घान्सहस्रशः॥ ७१.५७ ॥

शूलशक्तिगदाहस्तान् टङ्कोपलशिलायुधान्॥
नानाप्रहरणोपेतान्नानावेषधरांस्तदा॥ ७१.५८ ॥

कालाग्निरुद्रसङ्काशान् कालरुद्रोपमांस्तदा॥
प्राह देवो हरिः साक्षात्प्रणिपत्यस्थितान् प्रभुः॥ ७१.५९ ॥

विष्णुरुवाच॥
दग्ध्वा भित्त्वा च भुक्त्वा च गत्वा दैत्यपुरत्रयम्॥
पुनर्यथागतं वीरा गन्तुमर्हथ भूतये॥ ७१.६೦ ॥

ततः प्रणम्य देवेशं भूतसङ्घाः पुरत्रयम्॥
प्रविश्य नष्टास्ते सर्वे शलभा इव पावकम्॥ ७१.६१ ॥

ततस्तु नष्टास्ते सर्वे भूता देवेश्वराज्ञया॥
ननृतुर्मुमुदुश्चैव जगुर्दैत्याः सहस्रशः॥ ७१.६२ ॥

तुष्टुवुर्देवदेवेशं परमात्मानमीश्वरम्॥
ततः पराजिता देवा ध्वस्तवीर्याः क्षणेन तु॥ ७१.६३ ॥

सेन्द्राः सङ्गम्य देवेशमुपेन्द्रं धिष्ठिता भयात्॥
तान्दृष्ट्वा चिन्तयामास भगवान्पुरुषोत्तमः॥ ७१.६४ ॥

किं कृत्यमिति सन्तप्तः सन्तप्तान्सेन्द्रकान्क्षणम्॥
कथं तु तेषां दैत्यानां बलं हत्वा प्रयत्नतः॥ ७१.६५ ॥

देवकार्य्यं करिष्यामि प्रसादात्परमेष्ठिनः॥
पापं विचारतो नास्ति धर्मिष्ठानां न संशयः॥ ७१.६६ ॥

तस्माद्दैत्या न वध्यास्ते भूतैश्चोपसदोद्भवैः॥
पापं नुदति धर्मेण धर्में सर्वं प्रतिष्ठितम्॥ ७१.६७ ॥

धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी॥
दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः॥ ७१.६८ ॥

तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुङ्गवाः॥
कृत्वापि सुमहत्पापं रुद्रमभ्यर्चयन्ति ये॥ ७१.६९ ॥

मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा॥
पूजया भोगसम्पत्तिरवश्यं जायते द्विजाः॥ ७१.७೦ ॥

तस्मात्ते भोगिनो दैत्या लिङ्गार्चनपरायणाः॥
तस्मात्कृत्वा धर्मविघ्नमहं देवाः स्वमायया॥ ७१.७१ ॥

दैत्यानां देवाकार्यार्थं जेष्येहं त्रिपुरं क्षणात्॥
सूत उवाच॥
विचार्यैनं ततस्तेषां भगवान्पुरुषोत्तमः॥
कर्तुं व्यवसितश्चाभूद्धर्मविघ्नं सुरारिणाम्॥ ७१.७२ ॥

असृजच्च महातेजाः पुरुषं चात्मसम्भवम्॥
मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः॥ ७१.७३ ॥

शास्त्रं च शास्ता सर्वेषामकरोत्कामरूपधृक्॥
सर्वसम्मोहनं मायी दृष्टप्रत्ययसंयुतम्॥ ७१.७४ ॥

एतत्स्वाङ्गभवायैव पुरुषायोपदिश्य तु॥
मायी मायामयं शास्त्रं ग्रन्थषोडशलक्षकम्॥ ७१.७५ ॥

श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम्॥
इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः॥ ७१.७६ ॥

तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम्॥
पुरत्रयविनाशाय प्राहौनं पुरुषं हरिः॥ ७१.७७ ॥

गन्तुमर्हसि नाशाय भो तूर्णं पुरवासिनाम्॥
धर्मास्तथा प्रमश्यन्तु श्रौतस्मार्ता न संशयः॥ ७१.७८ ॥

ततः प्रणम्य तं मायी मायाशास्त्रविशारदः॥
प्रविश्य तत्पुरं तूर्णं मुनिर्मायां तदाकरोत्॥ ७१.७९ ॥

मायया तस्य ते दैत्याः पुरत्रयनिवासिनः॥
श्रैतं स्मार्तं च सन्त्यज्य तस्य शिष्यास्तदाभवन्॥ ७१.८೦ ॥

तत्यजुश्च महादेवं शङ्करं परमेश्वरम्॥
नारदोपि तदा मायी नियोगान्मायिनः प्रभोः॥ ७१.८१ ॥

प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः॥
मुनिः शिष्यैः प्रशिष्यैश्च संवृतः सर्वतः स्वयम्॥ ७१.८२ ॥

स्त्रीधर्मं चाकरोत्स्त्रीणां दुश्चारफलसिद्धिदम्॥
चक्रुस्ताः सर्वदा लब्ध्वा सद्य एव फलं स्त्रियः॥ ७१.८३ ॥

जनासक्ता बभूवुस्ता विनिन्द्य पतिदेवताः॥
अद्यापि गौरवात्तस्य नारदस्य कलौ मुनेः॥ ७१.८४ ॥

नार्यश्चरन्ति सन्त्यज्य भर्तॄन्स्वैरं वृथाधमाः॥
स्त्रीणां माता पिता बन्धुः सखा मित्रं च बान्धवः॥ ७१.८५ ॥

भर्ता एव न सन्देहस्तथाप्यासहमायया॥
कृत्वापि सुमहत्पापं या भर्तुः प्रेमसंयुता॥ ७१.८६ ॥

प्रप्नुयात्परमं स्वर्गं नरकं च विपर्ययात्॥
पुरैकामुनिशार्दूलाः सर्वधर्मान् सदा पतिम्॥ ७१.८७ ॥

सन्त्यज्यापूजयन्साध्व्यो देवानन्याञ्जगद्गुरून्॥
ताः स्वर्गलोकमासाद्य मोदन्ते विगतज्वराः॥ ७१.८८ ॥

नरकं च जगामान्या तस्माद्भर्ता परा गतिः॥
तथापि भर्तॄन्स्वांस्त्यक्त्वा बभूवुः स्वैरवृत्तयः॥ ७१.८९ ॥

मायया देवदेवस्य विष्णोस्तस्याज्ञया प्रभोः॥
अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता॥ ७१.९೦ ॥

या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादजात्॥
बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः॥ ७१.९१ ॥

बुद्धि मोहं तथामूतं विष्णुमायाविनिर्मितम्॥
तेषां दत्त्वा क्षणं देवस्तासां मायी च नारदः॥ ७१.९२ ॥

सुखासीनौ ह्यसम्भ्रान्तौ धर्मविघ्नार्थमव्ययौ॥
एवं नष्टे तदा धर्मे श्रौतस्मार्ते सुशोभने॥ ७१.९३ ॥

पाषण्डे ख्यापिते तेन विष्णुना विश्वयोनिना॥
त्यक्ते महेश्वरे दैत्यैस्त्यक्ते लिङ्गार्चने तथा॥ ७१.९४ ॥

स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते॥
कृतार्थ इव देवेशो देवैः सार्धमुमापतिम्॥ ७१.९५ ॥

तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः॥
श्रीभगवानुवाच॥
महेश्वराय देवाय नमस्ते परमात्मने॥ ७१.९६ ॥

नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे॥
शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः॥ ७१.९७ ॥

सूत उवाच॥
एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च॥
जजाप रुद्रं भगवान्कोटिवारं जले स्थितः॥ ७१.९८ ॥

देवाश्च सर्वे ते देवं तुष्टुवुः परमेश्वरम्॥
सेन्द्राः ससाध्याः सयमाः सरुद्राः समरुद्गणाः॥ ७१.९९ ॥

देवा ऊचुः॥
नमः सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे॥
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे॥ ७१.१೦೦ ॥

गतिर्नः सर्वदास्माभिर्वन्द्यो देवारिमर्दनः॥
त्वमादिस्त्वमनन्तश्च अनन्तश्चाक्षयः प्रभुः॥ ७१.१೦१ ॥

प्रकृतिः पुरुषः साक्षात्स्रष्टा हर्ता जगद्गुरो॥
त्राता नेता जगत्यस्मिन्द्विजानां द्विजवत्सल॥ ७१.१೦२ ॥

वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः॥
याज्यो मुक्त्यर्थमीशानो योगिभिर्योगविभ्रमैः॥ ७१.१೦३ ॥

हृत्पुण्डरीकसुषिरे योगिनां संस्थितः सदा॥
वदन्ति सूरयः सन्तं परं ब्रह्मस्वरूपिणम्॥ ७१.१೦४ ॥

भवन्तं तत्त्वमित्यार्यस्तेजोराशिं परात्परम्॥
परमात्मानमित्याहुरस्मिञ्जगति तद्विभो॥ ७१.१೦५ ॥

दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो॥
अणोरल्पतरं प्राहुर्महतोपि महत्तरम्॥ ७१.१೦६ ॥

सर्वतः पाणिपादं त्वां सर्वतोक्षिशिरोमुखम्॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि॥ ७१.१೦७ ॥

महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम्॥
विश्वरूपं विरुपाक्षं सदाशिवमनामय्म्॥ ७१.१೦८ ॥

कोटिभास्करसङ्काशं कोटिशीतांशुसन्निभम्॥
कोटिकालाग्निसङ्काशं षड्विंशकमनीश्वरम्॥ ७१.१೦९ ॥

प्रवर्तकं जगत्यस्मिन्प्रकृतेः प्रपितामहम्॥
वदान्ति वरदं देवं सर्वावासं स्वयम्भुवम्॥ ७१.११೦ ॥

श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदोजनाः॥ ७१.१११ ॥

अदृष्टमस्माभिरनेकमूर्ते विना कृतं यद्भवताथ लोके॥
त्वमेव दैत्यासुरभूतसङ्घान्देवान्नरान्स्थावरजङ्गमांश्च॥ ७१.११२ ॥

पाहि नान्या गतिः शम्भो विनिहत्यासुरोत्तमान्॥
मायया मोहिताः सर्वे भवतः परमेश्वर॥ ७१.११३ ॥

यथा तरङ्गा लहरीसमूहा युध्यन्ति चान्योन्यमपान्निधौ च॥
जलाश्रयादेव जडीकृताश्च सुरासुरास्तद्वदजस्य सर्वम्॥ ७१.११४ ॥

सूत उवाच॥
य इदं प्रातरुत्थाय सुचिर्भूत्वा जपेन्नरः॥
श्रृणुयाद्वा स्तवं पुण्यं सर्वकामवाप्नुयात्॥ ७१.११५ ॥

स्तुतस्त्वेवं सुरैर्विष्णोर्जपेन च महेश्वरः॥
सोमः सोमामथालिङ्ग्य नन्दी दत्तकरः स्मयन् ॥७१.११६

प्राह गम्भीरया वाचा देवानालोक्य शङ्करः॥
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वराः॥ ७१.११७ ॥

विष्मोर्मायाबलं चैव नारदस्य च धीमतः॥
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तमाः॥ ७१.११८ ॥

पुरत्रयविनाशं च करिष्येहं सुरोत्तमाः॥
सूत उवाच॥
अथ सब्रह्मका देवाः सेन्द्रपेन्द्राः समागताः॥ ७१.११९ ॥

श्रुत्वा प्रभोस्तदा वाक्यं प्रणेमुस्तुष्टुवुश्च ते॥
अप्येतदन्तरं देवी देवमालोक्य विस्मिता॥ ७१.१२೦ ॥

लीलाम्बुजेन चाहत्य कलमाह वृषध्वजम्॥
देव्युवाच॥
क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम्॥ ७१.१२१ ॥

पुत्रं पुत्रवतां श्रेष्ठं भूपितं भूषणैः शुभैः॥
मुकुटैः कटकैश्चैव कुण्डलैर्वलयैः शुभैः॥ ७१.१२२ ॥

नूपुरैश्छन्नवारैश्च तथा ह्युदरबन्धनैः॥
किङ्किणीभिरनेकाभिर्हैमैरस्वत्थपत्रकैः॥ ७१.१२३ ॥

कल्पकद्रुमजैः पुष्पैः शोभितैरलकैः शुभैः॥
हारैर्वारीजरागादिमणिचित्रैस्तथाङ्गदैः॥ ७१.१२४ ॥

मुक्ताफलमयैर्हारैः पूर्णचन्द्रसमप्रभैः॥
तिलकैश्च महादेव पश्य पुत्रं सुशीभनम्॥ ७१.१२५ ॥

अङ्कितं कुङ्कुमाद्यैश्च वृत्तं भसितरनिर्मितम्॥
वक्रवृन्दं च पश्येश वृन्दं कामलकं यथा॥ ७१.१२६ ॥

नेत्राणि च विभो पश्य शुभानि त्वं शुभानि च॥
अञ्जनानि विचित्राणि मङ्गलार्थं च मातृभिः॥ ७१.१२७ ॥

गङ्गादीभीः कृत्तिकाद्यैः स्वाहया च विशेषतः॥
इत्येवं लोकमातुश्च वाग्भिः सम्बोधितः शिवः॥ ७१.१२८ ॥

न ययौ तृप्तिमीशानः पिबन्स्कन्दाननामृतम्॥
न सस्मार च तान्देवान्दैत्यशस्त्रनिपीडितान्॥ ७१.१२९ ॥

स्कन्दमालिङ्ग्य चाघ्राय नृत्य पुत्रेत्युवाच ह॥
सोपि लीलालसो बालो ननर्तार्तिहरः प्रभुः॥ ७१.१३೦ ॥

सहैव ननृतुश्चान्वे सह तेन गणेश्वराः॥
त्रैलोक्यमखिलं तत्र ननर्तेशाज्ञया क्षणम्॥ ७१.१३१ ॥

नागाश्च ननृतुः सर्वे देवाः सेन्द्रपुरोगमाः॥
तुष्टुवुर्गणपाः स्कन्दं मुमोदाम्बा च मातरः॥ ७१.१३२ ॥

ससृजुः पुष्पवर्षाणि जगुर्गन्धर्वकिन्नराः॥
नृत्यामृतं तदा पीत्वा पार्वतीपरमेश्वरौ॥
अवापतुस्तदा तृप्तिं नन्दिना च गणेश्वराः॥ ७१.१३३ ॥

ततः स नन्दी सह षण्मुखेन तथा च सार्धं गिरिराजपुत्र्या॥
विवेश दिव्यं भवनं भवोपि यथां बुदोऽन्याम्बुदमम्बुदाभः॥ ७१.१३४ ॥

द्वारस्य पार्श्वे ते तस्थुर्देवा देवस्य धीमतः॥
तुष्टुवुश्च महादेवं किञ्चिदुद्विग्नचेतसः॥ ७१.१३५ ॥

किन्तु किन्त्विति चान्योन्यं प्रेक्ष्य चैतत्समाकुलाः॥
पापा वयमिति ह्यन्ये अभाग्याश्चेति चापरे॥ ७१.१३६ ॥

भाग्यवन्तश्च दैत्येन्द्रा इति चान्ये सुरेश्वराः॥
पूजाफलमिमं तेषामित्यन्ये नेति चापरे॥ ७१.१३७ ॥

एतस्मिन्नन्तरे तेषां श्रुत्वा शब्दाननेकशः॥
कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान्॥ ७१.१३८ ॥

दुद्रुवुस्ते भयाविष्टा देवा हाहेतिवादिनः॥
अपतन्मुनयश्चान्ये देवाश्च धरणीतले॥ ७१.१३९ ॥

अहो विधेर्बलं चेति मुनयः कश्यपादयः॥
दृष्ट्वापि देवदेवेशं देवानां चासुरद्विषाम्॥ ७१.१४೦ ॥

अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः॥
प्रोचुर्नमः शिवायेति पूज्य चाल्पतरं हृदि॥ ७१.१४१ ॥

ततः कपर्दि नन्दीशो महादेवाप्रियो मुनिः॥
शूली माली तथा हाली कुण्डली वलयी गदी॥ ७१.१४२ ॥

वृषमारुह्य सुश्वेतं ययौ तस्याज्ञया तदा॥
ततो वै नन्दिनं दृष्ट्वा गणः कुम्भोदरोपि सः॥ ७१.१४३ ॥

प्रणम्य नन्दिनं मूर्ध्ना सह तेन त्वरन्ययौ॥
नन्दी भाति महातेजा वृषपृष्टे वृषध्वजः॥ ७१.१४४ ॥

सगणो गणसेनानीर्मेघपृष्ठे यथा भवः॥
दशयोजनविस्तीर्णं मुक्ताजालैरलङ्कृतम्॥ ७१.१४५ ॥

सितातपत्रं शैलादेराकाशमिव भाति तत्॥
तत्रान्तर्बद्धमाला सा मुक्ताफलमयी शुभा॥ ७१.१४६ ॥

गङ्गाकाशान्निपतिता भाति मूर्ध्नि विभोर्यथा॥
अथ दृष्ट्वा गणाध्यक्षं देवदुन्दुभयः शुभाः॥ ७१.१४७ ॥

नियोगाद्वज्रिणः सर्वे विनेदुर्मुनिपुङ्गवाः॥
तुष्टुवुश्च गणेशानं वाग्भिरिष्टप्रदं शुभम्॥ ७१.१४८ ॥

यथा देवा भवं दृष्ट्वा प्रीतिकण्ट कितत्वचः॥
नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं च खेचराः॥ ७१.१४९ ॥

ववृषुश्च सुगन्धाढ्य नन्दिनो गगनोदितम्॥
वृष्ट्या तुष्टस्तदा रेजे तुष्ट्या पुष्ट्या यथार्थया॥ ७१.१५೦ ॥

नन्दी भवश्चान्द्रया तु स्नातया गन्धवारिणा॥
पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य तत्॥ ७१.१५१ ॥

सङ्कीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः॥
कुसुमैः संवृतो नन्दी वृषपृष्ठे रराज सः॥ ७१.१५२ ॥

दिवः पृष्ठे यथा चन्द्रो नक्षत्रैरिव सुव्रताः॥
तं दृष्ट्वा नन्दिनं देवाः सेन्द्रोपेन्द्रास्तथाविधम्॥ ७१.१५३ ॥

तुष्टुवुर्गणपेशानं देवदेवमिवापरम्॥
देवा ऊचुः॥
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च॥ ७१.१५४ ॥

रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते॥
कूष्माण्डगणनाथाय योगिनां पतये नमः॥ ७१.१५५ ॥

सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे॥
वेदानां पतये चैव वेदवेद्याय ते नमः॥ ७१.१५६ ॥

वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे॥
वज्रालङ्कृतदेहाय वज्रिणाराधिताय ते॥ ७१.१५७ ॥

रक्ताय रक्तनेत्राय रक्ताम्बरधराय ते॥
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने॥ ७१.१५८ ॥

नमः सेनाधिपतये रुद्राणां पतेय नमः॥
भूतानां भुवने शानां पतये पापहारिणे॥ ७१.१५९ ॥

रुद्राय रुद्रपतये रौद्रपापहराय ते॥
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः॥ ७१.१६೦ ॥

सूत उवचा॥
ततः प्रीतो गणाध्यक्षः प्राह देवांश्छिलात्मजः॥
रथं च सारथिं शम्भोः कार्मुकं शरमुत्तमम्॥ ७१.१६१ ॥

कर्तुमर्हथ यत्नेन नष्टं मत्वा पुरत्रयम्॥
अथ ते ब्रह्मणा सार्धं तथा वै विश्वकर्मणा॥ ७१.१६२ ॥

रथं चक्रुः सुसंरब्धा देवदेवस्य धीमतः॥ ७१.१६३ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे पुरदाहे नन्दिकेश्वरवाक्यं नाम एकसप्ततितमोध्यायः॥ ७१ ॥