ऋषय ऊचुः॥
आदिसर्गस्त्वया सूत सूचितो न प्रकाशितः॥
साम्प्रतं विस्तरेणैव वक्तुमर्हसि सुव्रत॥ ७०.१ ॥
सूत उवाच॥
महेश्वरो महादेवः प्रकृतेः पुरुषस्य च॥
परत्वे संस्थितो देवः परमात्मा मुनीश्वराः॥ ७०.२ ॥
अव्यक्तं चेश्वरात्तस्मादभवत्कारणं परम्॥
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः॥ ७०.३ ॥
गन्धर्वणरसैर्हीनं शब्दस्पर्शविवर्जितम्॥
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्॥ ७०.४ ॥
जगद्योनिं महाभूतं परं ब्रह्म सनातनम्॥
विग्रहः सर्वभूतानामीश्वराज्ञाप्रचोदितम्॥ ७०.५ ॥
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाव्ययम्॥
अप्रकाशमविज्ञेयं ब्रह्माग्रे समवर्तत॥ ७०.६ ॥
अस्यात्मना सर्वमिदं व्याप्तं त्वासीच्छिवेच्छया॥
गुणसाम्ये तदा तस्मिन्नविभागे तमोमये॥ ७०.७ ॥
सर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै॥
गुणभावाद्व्यज्यमानो महान्प्रादुर्बभूवह॥ ७०.८ ॥
सूक्ष्मेण महता चाथ अव्यक्तेन समावृतम्॥
सत्त्वोद्रिक्तो महानग्रे सत्तामात्रप्रकाशकः॥ ७०.९ ॥
मनो महांस्तु विज्ञेयमेकं तत्कारणं स्मृतम्॥
समुत्पन्नं लिङ्गमात्रं क्षेत्रज्ञाधिष्ठितं हि तत्॥ ७०.१० ॥
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः॥
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया॥ ७०.११ ॥
मनो महान्मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः॥
प्रज्ञा चितिः स्मॄतिः संविद्विश्वेशश्चेति स स्मृतः॥ ७०.१२ ॥
मनुते सर्वभूतानां यस्माच्चेष्टा फलं ततः॥
सौक्ष्म्यात्तेन विभक्तं तु येन तन्मन उच्यते॥ ७०.१३ ॥
तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः॥
विशेषेभ्यो गुणेभ्योपि महानिति ततः स्मृतः॥ ७०.१४ ॥
बिभर्ति मानं मनुते विभागं मन्यतेपि च॥
पुरुषो भोगसम्बन्धात्तेन चासौ मतिः स्मृतः॥ ७०.१५ ॥
बृहत्त्वात्बृंहणत्वाच्च भावानां सकलाश्रयात्॥
यस्माद्धारयते भावान्ब्रह्म तेन निरुच्यते॥ ७०.१६ ॥
यः पूरयति यस्माच्च कृत्स्नान्देवाननुग्रहैः॥
नयते तत्त्वभावं च तेन पूरिति चोच्यते॥ ७०.१७ ॥
बुध्यते पुरुषश्चात्र सर्वान् भावान् हितं तथा॥
यस्माद्बोधयते चैव बुद्धिस्तेन निरुच्यते॥ ७०.१८ ॥
ख्यातिः प्रत्युपभोगश्च यस्मात्संवर्तते ततः॥
भोगस्य ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः॥ ७०.१९ ॥
ख्यायते तद्गुणैर्वापि ज्ञानादिभिरनेकशः॥
तस्माच्च महतः सञ्ज्ञा ख्यातिरित्यभिधीयते॥ ७०.२० ॥
साक्षात्सर्वं विजानाति महात्मा तेन चेश्वरः॥
यस्माज्ज्ञानानुगश्चैव प्रज्ञा तेन स उच्यते॥ ७०.२१ ॥
ज्ञानादीनि च रूपाणि बहुकर्मफलानि च॥
चिनोति यस्माद्भोगार्थं तेनासौ चितिरुच्यते॥ ७०.२२ ॥
वर्तमानव्यतीतानि तथैवानागतान्यपि॥
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते॥ ७०.२३ ॥
कृत्स्नं च विन्दते ज्ञानं यस्मान्माहात्म्यमुत्तमम्॥
तस्माद्विन्देर्विदेश्चैव संविदित्यभिधीयते॥ ७०.२४ ॥
विद्यतेपि च सर्वत्र तस्मिन्सर्वं च विन्दति॥
तस्मात्संविदिति प्रोक्तो महद्भिर्मुनिसत्तमाः॥ ७०.२५ ॥
जानातेर्ज्ञानमित्याहुर्भगवान् ज्ञानसन्निधिः॥
बन्धनादिपरीभावादीश्वरः प्रोच्यते बुधैः॥ ७०.२६ ॥
पर्यायवाचकैः शब्दैस्तत्त्व माद्यमनुत्तमम्॥
व्याख्यातं तत्त्वभावज्ञैर्देवसद्भावचेतकैः॥ ७०.२७ ॥
महान्सृष्टिं विकुरुते चोद्यमानः सिसृक्षया॥
सङ्कल्पोध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम्॥ ७०.२८ ॥
त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत्॥
महता च वृतः सर्गो भूतादिर्बाह्यतस्तु सः॥ ७०.२९ ॥
तस्मादेव तमोद्रिक्तादहङ्कारादजायत॥
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः॥ ७०.३० ॥
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह॥
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम्॥ ७०.३१ ॥
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्॥
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह॥ ७०.३२ ॥
ज्योतिरुत्पद्यते वायोस्तद्रूप गुणमुच्यते॥
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत्॥ ७०.३३ ॥
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह॥
सम्भवन्ति ततो ह्यापस्ता वै सर्वरसात्मिकाः॥ ७०.३४ ॥
रसमात्रास्तु ता ह्यापो रूपमात्रोग्निरावृणोत्॥
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे॥ ७०.३५ ॥
सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः॥
तस्मिंस्तस्मिंश्च तन्मात्रं तेन तन्मात्रता स्मृता॥ ७०.३६ ॥
अविशेषवाचकत्वादविशेषास्तततस्तु ते॥
प्रशान्तघोरमूढत्वादविशेषास्ततः पुनः॥ ७०.३७ ॥
भूततन्मात्रसर्गोयं विज्ञेयस्तु परस्परम्॥
वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकात्॥ ७०.३८ ॥
वैकारिकः ससर्गस्तु युगपत्सम्प्रवर्तते॥
बुद्धिन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च॥ ७०.३९ ॥
साधकानीन्द्रियाणि स्युर्देवा वैकारिका दश॥
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम्॥ ७०.४० ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी॥
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि तानि वै॥ ७०.४१ ॥
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत्॥
गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यं च कर्म तत्॥ ७०.४२ ॥
आकाशं शब्दमात्रं च स्पर्शमात्रं समाविशत्॥
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत्॥ ७०.४३ ॥
रूपं तथैव विशतः शब्दस्पर्श गुणावुभौ॥
त्रिगुणस्तु ततस्त्वग्निः सशब्दस्पर्शरूपवान्॥ ७०.४४ ॥
सशब्दस्पर्शरूपं च रसमात्रं समाविशत्॥
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः॥ ७०.४५ ॥
शब्दस्पर्शं च रूपं च रसो वै गन्धमाविशत्॥
सङ्गता गन्धमात्रेण आविशन्तो महीमिमाम्॥ ७०.४६ ॥
तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु शस्यते॥
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः॥ ७०.४७ ॥
परस्परानुप्रवेशाद्धारयन्ति परस्परम्॥
भूमेरन्तस्त्विदं सर्वं लोकालोकाचलावृतम्॥ ७०.४८ ॥
विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः॥
गुणं पूर्वस्य सर्गस्य प्राप्नुवन्त्युत्तरोत्तराः॥ ७०.४९ ॥
तेषां यावच्च तद्यच्च यच्च तावद्गुणं स्मृतम्॥
उपलभ्याप्सु वै गन्धं केचिद्ब्रूयुरपां गुणम्॥ ७०.५० ॥
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रयात्॥
एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात्॥ ७०.५१ ॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च॥
महा दयो विशेषान्ता ह्यण्डमुत्पादयन्ति ते॥ ७०.५२ ॥
एककालसमुत्पन्न जलबुद्बुदवच्च तत्॥
विशेषेभ्योण्डमभवन्महत्तदुदकेशयम्॥ ७०.५३ ॥
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम्॥
आपो दशगुणेनैतास्तेजसा बाह्यतो वृताः॥ ७०.५४ ॥
तेजो दशगुणेनैव वायुना बाह्यतो वृतम्॥
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः॥ ७०.५५ ॥
आकाशेनावृतो वायुः खं तु भूतादिनावृतम्॥
भूतादिर्महता चापि अव्यक्तेनावृतो महान्॥ ७०.५६ ॥
सर्वश्चाण्डकपालस्थो भवश्चाम्भसि सुव्रताः॥
रुद्रोग्निमध्ये भगवानुग्रो वायौ पुनः स्मृतः॥ ७०.५७ ॥
भीमश्चावनिमध्यस्थो ह्यहङ्कारे महेश्वरः॥
बुद्धौ च भगवानीशः सर्वतः परमेश्वरः॥ ७०.५८ ॥
एतैरावरणैरण्डं सप्तभिः प्राकतैर्वृतम्॥
एता आवृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः॥ ७०.५९ ॥
प्रसर्गकाले स्थित्वा तु ग्रसन्त्येताः परस्परम्॥
एवं परस्परोत्पन्ना धारयन्ति परस्परम्॥ ७०.६० ॥
आधाराधेयभावेन विकारास्ते विकारिषु॥
महेश्वरः परोव्यक्तादण्डमव्यक्तसम्भवम्॥ ७०.६१ ॥
अण्डाज्जज्ञे स एवेशः पुरुषोर्कसमप्रभः॥
तस्मिन्कार्यस्य करणं संसिद्धं स्वेच्छयैव तु॥ ७०.६२ ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते॥
तस्य वामाङ्गजो विष्णुः सर्वदेवनमस्कृतः॥ ७०.६३ ॥
लक्ष्म्या देव्या ह्यभूद्देव इच्छया परमेष्ठिनः॥
दक्षिणाङ्गभवो ब्रह्मा सरस्वत्या जगद्गुरुः॥ ७०.६४ ॥
तस्मिन्नण्डे इमे लोका अन्तर्विश्वमिदं जगत्॥
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना॥ ७०.६५ ॥
लोकालोक द्वयं किञ्चिदण्डे ह्यस्मिन्समर्पितम्॥
यत्तु सृष्टौ प्रसङ्ख्यातं मया कालान्तरं द्विजाः॥ ७०.६६ ॥
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम्॥
रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः॥ ७०.६७ ॥
अहस्तस्य तु या सृष्टिः रात्रिश्च प्रलयः स्मृतः॥
नाहस्तु विद्यते तस्य न रात्रिरिति धारयेत्॥ ७०.६८ ॥
उपचारस्तु क्रियते लोकानां हितकाम्यया॥
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च॥ ७०.६९ ॥
तस्मात्सर्वाणिभूतानि बुद्धिश्च सह दैवतैः॥
अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः॥ ७०.७० ॥
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः॥
स्वात्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहृते॥ ७०.७१ ॥
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ॥
तमः सत्त्वरजोपेतौ समत्वेन व्यस्थितौ॥ ७०.७२ ॥
अनु पृक्तावभूतान्तावोतप्रोतौ परस्परम्॥
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते॥ ७०.७३ ॥
तिले यथा भवेत्तैलं घृतं पयसि वा स्थितम्॥
तथा तमसि सत्त्वे च रजस्यनुसृतं जगत्॥ ७०.७४ ॥
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तथा॥
अर्हमुखे प्रवृत्तश्च परः प्रकृतिसम्भवः॥ ७०.७५ ॥
क्षोभयामास योगेन परेण परमेश्वरः॥
प्रधानं पुरुषं चैव प्रविश्य स महेश्वरः॥ ७०.७६ ॥
महेश्वरात्त्रयो देवा जज्ञिरे जगदीश्वरात्॥
शाश्वताः परमा गुह्यः सर्वात्मानः शरीरिणः॥ ७०.७७ ॥
एत एव त्रयो देवा एत एव त्रयो गुणाः॥
एत एव त्रयो लोका एत एव त्रयोग्नयः॥ ७०.७८ ॥
परस्पराश्रिता ह्येते परस्परमनुव्रताः॥
परस्परेण वर्तन्ते धारयन्ति परस्परम्॥ ७०.७९ ॥
अन्योन्यमिथुना ह्येते अन्योन्यमुपजीविनः॥
क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम्॥ ७०.८० ॥
ईश्वरस्तु परो देवो विष्णुश्च महतः परः॥
ब्रह्मा च रजसा युक्तः सर्गादौ हि प्रवर्तते॥ ७०.८१ ॥
परः स पुरुषो ज्ञेयः प्रकृतिः सा परा स्मृता॥ ७०.८२ ॥
अधिष्ठिता सा हि महेश्वरेण प्रवर्तते चोद्यमने समन्तात्॥
अनुप्रवृत्तस्तु महांस्तदेनां चिरस्तिरत्वाद्विषयं श्रियः स्वयम्॥ ७०.८३ ॥
प्रधानगुणवैषम्यात्सर्गकालः प्रवर्तते॥
ईश्वराधिष्ठितात्पूर्वं तस्मात्सदसदात्मकात्॥ ७०.८४ ॥
संसिद्धः कार्यकरणे रुद्रश्चाग्रे ह्यवर्तत॥
तेजसाप्रतिमो धीमानव्यक्तः सम्प्रकाशकः॥ ७०.८५ ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते॥
ब्रह्मा च भगवांस्तस्माच्चतुर्वक्त्रः प्रजापतिः॥ ७०.८६ ॥
संसिद्धः कार्यकरणे तथा वै समवर्तत॥
एक एव महादेवस्त्रिधैवं स व्यवस्थितः॥ ७०.८७ ॥
अप्रतीपेन ज्ञानेन ऐश्वर्येण समन्वितः॥
धर्मेण चाप्रतीषेन वैराग्येण च तेऽन्विताः॥ ७०.८८ ॥
अव्यक्ताज्जायते तेषां मनसा यद्यदीहितम्॥
वशीकृतत्वात्त्रैगुण्यं सापेक्षत्वात्स्वभावतः॥ ७०.८९ ॥
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तिकः स्मृतः॥
सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः॥ ७०.९० ॥
ब्रह्मत्वे सृजते लोकान्कालत्वे सङ्क्षिपत्यपि॥
पुरुषत्वे ह्युदासीनस्तिस्रावेस्थाः प्रजापतेः॥ ७०.९१ ॥
ब्रह्मा कमलगर्भाभो रुद्रः कालाग्निसन्निभः॥
पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः॥ ७०.९२ ॥
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः॥
महेश्वरः शरीराणि करोति विकरोति च॥ ७०.९३ ॥
नानाकृतिक्रियारूपनामवन्ति स्वलीलया॥
महेश्वरः शरीराणि करोति विकरोति च॥ ७०.९४ ॥
त्रिधा यद्वर्तते लोके तस्मात्त्रिगुण उच्यते॥
चतुर्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः॥ ७०.९५ ॥
यदाप्नोति यदादत्ते यच्चात्ति विषयानयम्॥
यच्चास्य सततं भावस्तस्मादात्मा निरुच्यते॥ ७०.९६ ॥
ऋषिः सर्वगतत्वाच्च शरीरी सोस्य यत्प्रभुः॥
स्वामित्वमस्य यत्सर्वं विष्णुः सर्वप्रवेशनात्॥ ७०.९७ ॥
भगवान् भगवद्भावान्निर्मलत्वाच्छिवः स्मृतः॥
परमः सम्प्रकृष्टत्वादवनादोमिति स्मृतः॥ ७०.९८ ॥
सर्वज्ञः सर्वविज्ञानात्सर्वः सर्वमयो यतः॥
त्रिधा विभज्य चात्मानं त्रैलोक्यं सम्प्रवर्तते॥ ७०.९९
सृजते ग्रसते चैव रक्षते च त्रिभिः स्वयम्॥
आदित्वादादिदेवोसावजातत्वादजः स्मृतः॥ ७०.१०० ॥
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः॥
देवेषु च महान्देवो महादेवस्ततः स्मृतः॥ ७०.१०१ ॥
सर्वगत्वाच्च देवानामवश्यत्वाच्च ईश्वरः॥
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते॥ ७०.१०२ ॥
क्षेत्रज्ञः क्षेत्रविज्ञानादेकत्वात्केवलः स्मृतः॥
यस्मात्पुर्यां स शेते च तस्मात्पूरुष उच्यते॥ ७०.१०३ ॥
अनादित्वाच्च पूर्वत्वात्स्वयम्भूरिति संस्मृतः॥
याज्यत्वादुच्यते यज्ञः कविर्विक्रान्तदर्शनात्॥ ७०.१०४ ॥
क्रमणः क्रमणीयत्वात्पालकश्चापि पालनात्॥
आदित्य सञ्ज्ञः कपिलो ह्यग्रहोग्निरिति स्मृतः॥ ७०.१०५ ॥
हिरण्यमस्य गर्भोभूद्धिरण्यस्यापि गर्भजः॥
तस्माद्धिरण्यगर्भत्वं पुराणेऽस्मिन्निरुच्यते॥ ७०.१०६ ॥
स्वयम्भुवोपि वृत्तस्य कालो विश्वात्मनस्तु यः॥
न शक्यः परिसङ्ख्यातुमपि वर्षशतैरपि॥ ७०.१०७ ॥
कालसङ्ख्याविवृत्तस्य परार्धो ब्रह्मणः स्मृतः॥
तावच्छेषोस्य कालोन्यस्तस्यान्ते प्रतिसृज्यते॥ ७०.१०८ ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै॥
समतीतानि कल्पानां तावच्छेषाः परे तु ये॥
यस्त्वयं वर्तते कल्पो वाराहस्तं निबोधत॥ ७०.१०९ ॥
प्रथमः साम्प्रतस्तेषां कल्पोयं वर्तते द्विजाः॥
यस्मिन्स्वायम्भुवाद्यास्तु मनवस्ते चदुर्दश॥ ७०.११० ॥
अतीता वर्तमानाश्च भविष्या ये च वै पुनः॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता॥ ७०.१११ ॥
पूर्णं युगसहस्रं वै परिपाल्या महेश्वरैः॥
प्रजाभिस्तपसा चैव तेषां श्रृणुत विस्तरम्॥ ७०.११२ ॥
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च॥
कथितानि भविष्यन्ति कल्पः कल्पेन चैव हि॥ ७०.११३ ॥
अतीतानि च कल्पानि सोदर्काणि सहान्वयैः॥
अनागतेषु तद्वच्च तर्कः कार्यो विजानता॥ ७०.११४ ॥
आपो ह्यग्रे समभवन्नष्टे च पृथिवीतले॥
शान्ततारैकनीरेस्मिन्न प्राज्ञायत किञ्चन॥ ७०.११५ ॥
एकार्णवे तदा तस्मिन्नष्टे स्तावरजङ्गमे॥
तदा भवति वै ब्रह्मा सहस्राक्षः सहस्रपात्॥ ७०.११६ ॥
सहस्रशीर्षा पुरुषो रुक्मवर्णस्तत्वतीन्द्रियः॥
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा॥ ७०.११७ ॥
सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदैक्षत॥
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति॥ ७०.११८ ॥
आपो नाराश्च सूनव इत्यपां नाम शुश्रुमः॥
आपूर्य ताभिरयनं कृतवानात्मनो यतः॥ ७०.११९ ॥
अप्सु शेते यतस्तस्मात्ततो नारायणः स्मृतः॥
चतुर्युगसहस्रस्य नैशं कालमुपास्यतः॥ ७०.१२० ॥
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्॥
ब्रह्मा तु सलिले तस्मिन्वायुर्भूत्वा समा चरत्॥ ७०.१२१ ॥
निशायामिव खद्योतः प्रावृट्काले ततस्तु सः॥
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्॥ ७०.१२२ ॥
अनुमानादसं मूढो भूमेरुद्धरणं पुनः॥
अकरोत्स तनूमन्यां कल्पादिषु यथापुरा॥ ७०.१२३ ॥
ततो महात्मा भगवान्दिव्यरूपमचिन्तयत्॥
सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः॥ ७०.१२४ ॥
किन्नु रूपमहं कृत्वा उद्धरेयं महीमिमाम्॥
जलक्रीडानुसदृशं वाराहं रूपमाविशत्॥ ७०.१२५ ॥
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसञ्ज्ञितम्॥
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्॥ ७०.१२६ ॥
अद्भिः सञ्छादितां भूमिं स तामाशु प्रजापतिः॥
उपगम्योज्जहारैनामापश्चापि समाविशत्॥ ७०.१२७ ॥
सामुद्रा वै समुद्रेषु नादेयाश्च नदीषु च॥
रसातलतले मग्नां रसातलपुटे गताम्॥ ७०.१२८ ॥
प्रभुर्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम्॥
ततः स्वस्थानमानीय पृथिवीं पृतिवीधरः॥ ७०.१२९ ॥
मुमोच पूर्ववदसौ धारयित्वा धराधरः॥
तस्योपरि जलौघस्य महती नौरिव स्थिता॥ ७०.१३० ॥
तत्समा ह्युरुदेहत्वान्न मही याति सम्प्लवम्॥
तत उत्क्षिप्त तां देवो जगतः स्थापनेच्छया॥ ७०.१३१ ॥
पृथिव्याः प्रविभागाय मनश्चक्रेम्बुजेक्षणः॥
पृथिवीं च समां कृत्वा पृथिव्यां सोचिनोद्गिरीन्॥ ७०.१३२ ॥
प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना॥
तेनाग्निना विशीर्णास्ते पर्वता भूरिविस्तराः॥ ७०.१३३ ॥
शैत्यादेकार्णवे तस्मिन् वायुना तेन संहताः॥
निषिक्ता यत्रयत्रासं स्तत्रतत्राचलाभवन्॥ ७०.१३४ ॥
तदाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः॥
गिरयो हि निगीर्णत्वाच्छयानत्वाच्छिलोच्चयाः॥ ७०.१३५ ॥
ततस्तेषु विकीर्णेषु कोटिशो हि गिरिष्वथ॥
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः॥ ७०.१३६ ॥
ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम्॥
भूराद्यांश्च तुरो लोकान्पुनः सोथ व्यकल्पयत्॥ ७०.१३७ ॥
लोकान्प्रकल्पयत्वाथ प्रजासर्गं ससर्ज ह॥
ब्रह्मा स्वयम्भूर्भगवान्सिसृक्षुर्विविधाः प्रजाः॥ ७०.१३८ ॥
ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथापुरा॥
तस्याभिध्यायतः सर्गं तथा वै बुद्धिपूर्वकम्॥ ७०.१३९ ॥
बुद्ध्याश्च समकाले वै प्रादुर्भूतस्तमोमयः॥
तमोमोहो महामोहस्तामिस्रश्चान्धसञ्ज्ञितः॥ ७०.१४० ॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः॥
पञ्चधावस्थितः सर्गो ध्यायतः सोभिमानिनः॥ ७०.१४१ ॥
संवृतस्तमसा चैव बीजाङ्कुरवदावृतः॥
बहिरन्तश्चाप्रकाशस्तब्धो निःसञ्ज्ञ एव च॥ ७०.१४२ ॥
यस्मात्तेषां वृता बुद्धिर्दुःखानि करणानि च॥
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः॥ ७०.१४३ ॥
मुख्यसर्गं तथाभूतं दृष्ट्वा ब्रह्मा ह्यसाधकम्॥
अप्रसन्नमनाः सोथ ततोन्यं सो ह्यमन्यत॥ ७०.१४४ ॥
तस्याभिध्यायतश्चैव तिर्यक्स्रोता ह्यवर्तत॥
तस्मात्तिर्यक्प्रवृत्तः स तिर्यकूस्रोतास्ततः स्मृतः॥ ७०.१४५ ॥
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः॥
तस्याभिध्यायतोन्यं वै सात्त्विकः समवर्तत॥ ७०.१४६ ॥
ऊर्ध्वस्रोतास्तृतीयस्तु स वै चोर्ध्वं व्यवस्थितः॥
यस्मात्प्रवर्तते चोर्ध्वमूर्ध्वस्रोतास्ततः स्मृतः॥ ७०.१४७ ॥
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः॥
प्रकाशाबहिरन्तश्च ऊर्ध्वस्रोतोभवाः स्मृताः॥ ७०.१४८ ॥
ते सत्त्वस्य च योगेन सृष्टाः सत्त्वोद्भवाः स्मृताः॥
ऊर्ध्वस्रोतास्तृतीयो वै देवसर्गस्तु स स्मृतः॥ ७०.१४९ ॥
प्रकाशाद्ब्रहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः॥
ते ऊर्ध्वस्रोतसो ज्ञेयास्तुष्टात्मानो बुधैः स्मृताः॥ ७०.१५० ॥
ऊर्ध्वस्रोतस्सु सृष्टेषु देवेषु वरदः प्रभुः॥
प्रीतिमानभवद्ब्रह्मा ततोन्यं सोभ्यमन्यत॥ ७०.१५१ ॥
ससर्ज सर्गमन्यं हि साधकं प्रभुरीश्वरः॥
ततोभिध्यायतस्तस्य सत्याभिध्ययिनस्तदा॥ ७०.१५२ ॥
प्रादुरासीत्तदा व्यक्तादर्वाक्स्रोतास्तु साधकः॥
यस्मादर्वाक् न्यवर्तन्ते ततोर्वाक्स्रोतसस्तु ते॥ ७०.१५३ ॥
ते च प्रकाशबहुलास्तमः पृक्ता रजोधिकाः॥
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः॥ ७०.१५४ ॥
संवृता बहिरन्तश्च मनुष्याः साधकाश्च ते॥
लक्षणैस्तारकाद्यैस्ते ह्यष्टधा तु व्यवस्तिताः॥ ७०.१५५ ॥
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः॥
इत्येष तैजसः सर्गो ह्यर्वाक्स्रोतः प्रकीर्तितः॥ ७०.१५६ ॥
पञ्चमोनुग्रहः सर्गश्चतुर्धा तु व्यवस्थितः॥
विपर्ययेण शक्त्या च सिद्ध्या तुष्ट्या तथैव च॥ ७०.१५७ ॥
स्थावरेषु विपर्यासः स्तिर्यग्योनिषु शक्तितः॥
सिद्धात्मानो मनुष्यास्तु ऋषिदेवेषु कृत्स्नशः॥ ७०.१५८ ॥ (तुलनीय - ब्रह्माण्डपुराणम् १.१.५.६१, पद्मपुराणम् १.३.७३ )
इत्येष प्राकृतः सर्गो वैकृतोऽनवमः स्मृतः॥
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते॥ ७०.१५९ ॥
निवृत्तं वर्तमानं च तेषां जानन्ति वै पुनः॥
भूतादिकानां भूतानां सप्तमः सर्ग एव च॥ ७०.१६० ॥
तेऽपरिग्राहिणः सर्वे संविभागरताः पुनः॥
स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते॥ ७०.१६१ ॥
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः॥
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणः स्मृतः॥ ७०.१६२ ॥
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते॥
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः॥ ७०.१६३ ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः॥
मुख्यसर्गश्चतुर्थश्च मुख्या वै स्थावराः स्मृताः॥ ७०.१६४ ॥
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः॥ ७०.१६५ ॥
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः॥
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः॥ ७०.१६६ ॥
अबुद्धिपूर्वकाः सर्गाः प्राकृतास्तु त्रय स्मृताः॥
बुद्धिपूर्वं प्रवर्तन्ते षट् पुनर्ब्रह्मणस्तु ते॥ ७०.१६७ ॥
विस्तरानुग्रहः सर्गः कीर्त्यमानो निबोधत॥
चतुर्धावस्थितः सोथ सर्वभूतेषु कृत्स्रशः॥ ७०.१६८ ॥
इत्येते प्राकृताश्चैव वैकृताश्च नवस्मृताः॥
परस्परानुरक्ताश्च कारणैश्च बुधैः स्मृताः॥ ७०.१६९ ॥
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्॥
ऋभुः सनत्कुमारश्च द्वावेतावूर्ध्वरेतसौ॥ ७०.१७० ॥
पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ॥
व्यतीते त्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ॥ ७०.१७१ ॥
तौ वाराहे तु भूर्लोके तेजः सङ्क्षिप्य धिष्ठितौ॥
तावुभौ मोक्षकर्माणावारोप्यात्मानमात्मनि॥ ७०.१७२ ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ॥
यथोत्पन्नस्तथैवेह कुमारः स इहोच्यते॥ ७०.१७३ ॥
तस्मात्सनत्कुमारोति नामास्येह प्रकीर्तितम्॥
सनन्दं सनकं चैव विद्वांसं च सनातनम्॥ ७०.१७४ ॥
विज्ञानेन निवृत्तास्ते व्यवर्तन्त महौजसः॥
सम्बुद्धाश्चैव नानात्वे अप्रवृत्ताश्च योगिनः॥ ७०.१७५ ॥
असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः॥
ततस्तेषु व्यतीतेषु ततोन्यान्साधकान्सुतान्॥ ७०.१७६ ॥
मानसानसृजद्ब्रह्म पुनः स्थानाभिमानिनः॥
आभूतसम्प्लवावस्था यैरियं विधृता मही॥ ७०.१७७ ॥
आपोग्निं पृथिवीं वायुमन्तरिक्षं दिवं तथा॥
समुद्रांश्च नदीश्चैव तथा शैलवनस्पतीन्॥ ७०.१७८ ॥
ओषधीनां तथात्मानो वल्लीनां वृक्षवीरुधाम्॥
लताः काष्ठाः कलाश्चैव मुहूर्ताः सन्धिरात्र्यहान्॥ ७०.१७९ ॥
अर्धमासांश्च मासांश्च अयनाब्दयुगानि च॥
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः॥ ७०.१८० ॥
देवानृषींश्च महतो गदतस्तान्नबोधत॥
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम्॥ ७०.१८१ ॥
दक्षमत्रिं वसिष्ठं च सोसृजन्मानसान्नव॥
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः॥ ७०.१८२ ॥
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम्॥
स्थानानि कल्पयामास पूर्ववत्पद्मसम्भवः॥ ७०.१८३ ॥
ततोसृजच्च सङ्कल्पं धर्मं चैव सुखावहम्॥
सोसृजद्व्यवसायात्तु धर्मं देवो महेश्वरः॥ ७०.१८४ ॥
सङ्कल्पं चैव सङ्कल्पात्सर्वलोकपितामहः॥
मानसश्च रुचिर्नाम विजज्ञे ब्रह्मणः प्रभोः॥ ७०.१८५ ॥
प्राणाद्ब्रह्मासृजद्दक्षं चक्षुर्भ्यां च मरीचिनम्॥
भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिल जन्मनः॥ ७०.१८६ ॥
शिरसोङ्गिरसश्चैव श्रोत्रादत्रिं ततासृजत्॥
पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः॥ ७०.१८७ ॥
समानजो वसिष्ठश्च अपानान्निर्ममे क्रतुम्॥
इत्येते ब्रह्मणः पुत्रा दिव्या एकादशा स्मृताः॥ ७०.१८८ ॥
धर्मादयः प्रथमजाः सर्वे ते ब्रह्मणः सुताः॥
भृग्वादयस्तु ते सृष्टा नवैते ब्रह्मवादिनः॥ ७०.१८९ ॥
गृहमेधिनः पुराणास्ते धर्मस्तैः सम्प्रवर्तितः॥
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः॥ ७०.१९० ॥
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः॥
ऋभुः सनत्कुमारश्च द्वावेतावूर्ध्वरेतसौ॥ ७०.१९१ ॥
पूर्वोत्पन्नौ परं तेभ्यः सर्वेषामपि पूर्वजौ॥
व्यतीतेत्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ॥ ७०.१९२ ॥
विराजेतामुभौ लोके तेजः सङ्क्षिप्य धिष्ठितौ॥
तावुभौ योगकर्माणावारोप्यात्मानमात्मनि॥ ७०.१९३ ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ॥
यथोत्पन्नः स एवेह कुमारः स इहोच्यते॥ ७०.१९४ ॥
तस्मात्सनत्कुमारेति नामास्येह प्रतिष्ठितम्॥
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः॥ ७०.१९५ ॥
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह॥
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः॥ ७०.१९६ ॥
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम्॥
सिसृक्षुरम्भास्येतानि स्वमात्मानमयूयुजत्॥ ७०.१९७ ॥
ततस्तु युञ्जतस्तस्य तमोमात्रसमुद्भवम्॥
समभिध्यायतः सर्गं प्रयत्नेन प्रजापतेः॥ ७०.१९८ ॥
ततोस्य जघनात्पूर्वमसुरा जज्ञिरे सुताः॥
असुः प्राणः स्मृतो विप्रस्तज्जन्मानस्ततोसुराः॥ ७०.१९९ ॥
यया सृष्टासुराः सर्वे तां तनुं स व्यपोहत॥
शापविद्धा तनुस्तेन सद्यो रात्रिजायत॥ ७०.२०० ॥
सा तमोबहुला यस्मात्ततो रात्रिर्नियामिका॥
आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वपन्त्युत॥ ७०.२०१ ॥
सृष्ट्वासुरांस्ततः सो वै तनुमन्यामगृह्णत॥
अव्यक्तां सत्त्वबहुलां ततस्तां सोभ्यपूजयत्॥ ७०.२०२ ॥
ततस्तां युञ्जस्तस्य प्रियमासीत्प्रजापतेः॥
ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः॥ ७०.२०३ ॥
यतोस्य दीव्यतो जातास्तेन देवाः प्रकीर्तिताः॥
धातुर्दिविति यः प्रोक्तः क्रीडायां स विभाव्यते॥ ७०.२०४ ॥
यस्मात्तस्य तु दीव्यन्तो जज्ञिरे तेन देवताः॥
देवान्सृष्ट्वाथ देवेशस्तनुमन्यामपद्यत॥ ७०.२०५ ॥
उत्सृष्टा सा तनुस्तेन सद्योहः समजायत॥
तस्मादहो धर्मयुक्तं देवताः समुपासते॥ ७०.२०६ ॥
सत्त्वमात्रात्मिकामेव ततोन्यां सोभ्यमन्यत॥
पितृवन्मन्यमानस्य पुत्रांस्तान्ध्यायतः प्रभोः॥ ७०.२०७ ॥
पितरो ह्युपपक्षाभ्यां रात्र्यह्नोरन्तरेभवन्॥
तस्मात्ते पितरो देवाः पितृत्वं तेन तेषु तत्॥ ७०.२०८ ॥
यया सृष्टास्तु पितरस्तनुं तां स व्यपोहत॥
शापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत॥ ७०.२०९ ॥
यस्मादहर्देवतानां रात्रिर्या सासुरी स्मृता॥
तयोर्मध्ये तु पैत्री या तनुः सा तु गरीयसी॥ ७०.२१० ॥
तस्माद्देवा सुराः सर्वे ऋषयो मानवास्तथा॥
उपासन्ते मुदायुक्ता रात्र्यह्नोर्मध्यमां तनुम्॥ ७०.२११ ॥
ततो ह्यन्यां पुनर्ब्रह्मा तनुं वै समगृह्णत॥
रजोमात्रात्मिकायां तु मानसा सोसृजत्प्रभुः॥ ७०.२१२ ॥
रजः प्रियांस्ततः सोथ मानसानसृजत्सुतान्॥
मनस्विनस्ततस्तस्य मानवा जज्ञिरे सुताः॥ ७०.२१३ ॥
सृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं तामपोहत॥
शापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत॥ ७०.२१४ ॥
यस्माद्भवन्ति संहृष्टाज्योत्स्नाया उद्भवे प्रजाः॥
इत्येतास्तनवस्तेन ह्यपविद्धा महात्मना॥ ७०.२१५ ॥
सद्यो रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च जज्ञिरे॥
ज्योत्स्ना सन्ध्या अहश्चैव सत्त्वमात्रात्मकं त्रयम्॥ ७०.२१६ ॥
तमोमात्रात्मिका रात्रिः सा वै तस्मान्निशात्मिका॥
तस्माद्देवा दिवातन्वा तुष्ट्या सृष्टा मुखात्तु वै॥ ७०.२१७ ॥
यस्मात्तेषां दिवा जन्म बलिनस्तेन वै दिवा॥
तन्वा ययासुरान् रात्रौ जघनादसृजत्प्रभुः॥ ७०.२१८ ॥
प्राणेभ्यो निशिजन्मानो बलिनो निशि तेन ते॥
एतान्येव भविष्याणां देवानामसुरैः सह॥ ७०.२१९ ॥
पितॄणां मानवानां च अतीतानागतेषु वै॥
मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि॥ ७०.२२० ॥
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्यम्भांसि तानि वै॥
भान्ति यस्मात्ततोम्भांसि शब्दोयं सुमनीषिभिः॥ ७०.२२१ ॥
भातिर्दीप्तौ निगदितः पुनश्चाथ प्रजापतिः॥
सोऽम्भांस्येतानि सृष्ट्वा तु देवमानुषदानवान्॥ ७०.२२२ ॥
पितॄंश्चैव सृजत्तन्वा आत्मना विविधान्पुनः॥
तामुत्सृज्य तनुं ज्योत्स्नां ततोन्यां प्राप्य स प्रभुः॥ ७०.२२३ ॥
मूर्तिं तमोरजः प्रायां पुनरेवाभ्यपूजयत्॥
अन्धकारे क्षुधाविष्टांस्ततोन्यसोसृजत्प्रभुः॥ ७०.२२४ ॥
तेन सृष्टाः क्षुधात्मानो अम्भांस्यादातुमुद्यताः॥
अभांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये॥ ७०.२२५ ॥
राक्षसा नाम ते यस्मात् क्षुधाविष्टा निशाचराः॥
येब्रुवन्यक्षमोम्भांसि तेषां हृष्टाः परस्परम्॥ ७०.२२६ ॥
तेन ते कर्मणा यक्षा गुह्यका गूढकर्मणा॥
रक्षेति पालने चापि धातुरेष विभाष्यते॥ ७०.२२७ ॥
एवं च यक्षतिर्धातुर्भक्षणे स निरुच्यते॥
तं दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्णास्तु धीमतः॥ ७०.२२८ ॥
ते शीर्णाश्चोत्थिता ह्यूर्ध्वं ते चैवारुरुधुः प्रभुम्॥
हीनास्तच्छिरसो बाला यस्माच्चैवावसर्पिणः॥ ७०.२२९ ॥
व्यालात्मानः स्मृता बाला हीनत्वादहयः स्मृताः॥
पतत्वात्पन्नगाश्चैव सर्पाश्चैवावसर्पणात्॥ ७०.२३० ॥
तस्य क्रोधोद्भवो योसौ अग्निगर्भः सुदारुणः॥
स तु सर्पान् सहोत्पन्नानाविवेश विषात्मकः॥ ७०.२३१ ॥
सर्पान्सृष्ट्वा ततः क्रुद्धः क्रोधात्मानो विनिर्ममे॥
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः॥ ७०.२३२ ॥
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात्॥
प्रसन्नं गायतस्तस्य गन्धर्वा जज्ञिरे यदा॥ ७०.२३३ ॥
धयतीत्येष वै धातुः पानत्वे परिपठ्यते॥
धयन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः॥ ७०.२३४ ॥
अष्टस्वेतासु सृष्टासु देवयोनिषु स प्रभुः॥
ततः स्वच्छन्दतोन्यानि वयांसि वयसासृजत्॥ ७०.२३५ ॥
स्वच्छन्दतः स्वच्छन्दांसि वयसा च वयांसि च॥
पशून्सृष्ट्वा स देवेशोऽसृजत्पक्षिगणानपि॥ ७०.२३६ ॥
मुखतोजाः ससर्जाथ वक्षसश्चावयोसृजत्॥
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्यां च विनिर्ममे॥ ७०.२३७ ॥
पद्भ्यां चाश्वान् समातङ्गान् रासभानावयान्मृगान्॥
उष्ट्रानश्वतरांश्चैव तथान्याश्चैव जातयः॥ ७०.२३८ ॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे॥
एवं पश्वोषधीः सृष्ट्वायूयुजत्सोध्वरे प्रभुः॥ ७०.२३९ ॥
गौरजः पूरुषो मेषो ह्यश्वोश्वतरगर्दभौ॥
एतान्ग्राम्यान्पशूनाहुरारण्यान्वै निबोधत॥ ७०.२४० ॥
श्वापदो द्विखुरो हस्ती वानराः पक्षिपञ्चमाः॥
आदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः॥ ७०.२४१ ॥
महिषा गवयाक्षाश्च प्लवङ्गाः शरभा वृकाः॥
सिंहस्तु सप्तमस्तेषामारण्याः पशवः स्मृताः॥ ७०.२४२ ॥
गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम्॥
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्॥ ७०.२४३ ॥
यजूंषि त्रैष्टुभं छन्दस्तोमं पञ्चदशं तथा॥
बृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात्॥ ७०.२४४ ॥
सामानि जगतीच्छन्दस्तोमं सप्तदशं तथा॥
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्॥ ७०.२४५ ॥
एकविंशमथर्वाणमाप्तोर्या माणमेव च॥
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्॥ ७०.२४६ ॥
विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च॥
तेजांसि च ससर्जादौ कल्पस्य भगवान्प्रभुः॥ ७०.२४७ ॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे॥
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः॥ ७०.२४८ ॥
सृष्ट्वा चतुष्टयं पूर्वं देवासुरनरान्पितॄन्॥
ततोसृजत्स भूतानि स्थावराणि चराणि च॥ ७०.२४९ ॥
यक्षान्पिशाचान् गन्धर्वंस्त्वथैवाप्सरसां गणान्॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान्॥ ७०.२५० ॥
अव्ययं च व्ययं चापि यदिदं स्थाणुजङ्गमम्॥
तेषां वै यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे॥ ७०.२५१ ॥
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे नृतानृते॥ ७०.२५२ ॥
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते॥
महाभूतेषु सृष्टेषु इन्द्रियार्थेषु मूर्तिषु॥ ७०.२५३ ॥
विनियोगं च भूतानां धातैव व्यदधात्स्वयम्॥
केचित्पुरुषकारं तु प्राहुः कर्म सुमानवाः॥ ७०.२५४ ॥
दैवमित्यपरे विप्राः स्वभावं भूत चिन्तकाः॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः॥ ७०.२५५ ॥
न चैकं न पृथग्भावमधिकं न ततो विदुः॥
एतदेवं च नैकं च नामभेदेन नाप्युभे॥ ७०.२५६ ॥
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शनाः॥
नाम रूपं च भूतानां कृतानां च प्रपञ्चनम्॥ ७०.२५७ ॥
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः॥
ऋषीणां नामधेयानि याश्च वेदेषु वृत्तयः॥ ७०.२५८ ॥
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः॥
एवंविधाः सृष्टयस्तु ब्रह्मणोव्यक्तजन्मनः॥ ७०.२५९ ॥
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम्॥
एवम्भूतानि सृष्टानि स्थावराणि चराणि च॥ ७०.२६० ॥
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त सत्तमाः॥
तमोमात्रावृतो ब्रह्मा तदा शोकेन दुःखितः॥ ७०.२६१ ॥
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम्॥
अथात्मनि समद्राक्षीत्तमोमात्रां नियामिकाम्॥ ७०.२६२ ॥
रजः सत्त्वं परित्यज्य वर्तमानां स्वधर्मतः॥
ततः स तेन दुःखेन दुःखं चक्रे जगत्पतिः॥ ७०.२६३ ॥
तमश्च व्यनुदत्पश्चाद्रजः सत्त्वं तमावृणोत्॥
तत्तमः प्रतिनुन्नं वै मिथुनं समजायत॥ ७०.२६४ ॥
अधर्मस्तमसो जज्ञे हिंसा शोकादजायत॥
ततस्तस्मिन्समुद्भूते मिथुने दारुणात्मिके॥ ७०.२६५ ॥
गतासुर्भगवानासीत्प्रीतिश्चैनमशिश्रियत्॥
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम्॥ ७०.२६६ ॥
द्विधा कृत्वा स्वकं देहमर्धेन पुरुषोभवत्॥
अर्धेन नारी सा तस्य शतरूपा व्यजायत॥ ७०.२६७ ॥
प्रकृतिं भूतधात्रिं तां कामाद्वै सृष्टवान्प्रभुः॥
सा दिवं पृथिवीं चैव महिम्ना व्याप्यधिष्ठिता॥ ७०.२६८ ॥
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्य तिष्ठति॥
या त्वर्धात्सृजतो नारी शतरूपा व्यजायत॥ ७०.२६९ ॥
सा देवी नियुतं तप्त्वा तपः परमदुश्चरम्॥
भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत॥ ७०.२७० ॥
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते॥
तस्यैव सप्ततियुगं मन्वन्तरमिहोच्यते॥ ७०.२७१ ॥
लेभे स पुरुषः पत्नीं शतरूपामयोनिजाम्॥
तया सार्धं स रमते तस्मात्सा रतिरुच्यते॥ ७०.२७२ ॥
प्रथमः सम्प्रयोगात्मा कल्पादौ समपद्यत॥
विराजमसृजद्ब्राह्मा सोभवत्पुरुषो विराट्॥ ७०.२७३ ॥
सम्राट् च शतरूपा वै वेराजः स मनुः स्मृतः॥
स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः॥ ७०.२७४ ॥
वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत॥
प्रियव्रतोत्तनापादौ पुत्रौ द्वौ लोकसम्मतौ॥ ७०.२७५ ॥
कन्ये द्वे च महाभागे याभ्यां जाता इमाः प्रजाः॥
देवी नाम तथाकूतिः प्रसूतिश्चैव ते उभे॥ ७०.२७६ ॥
स्वायम्भुवः प्रसूतिं तु दक्षाय प्रददौ प्रभुः॥
प्राणो दक्ष इति ज्ञेयः सङ्कल्पो मनुरुच्यते॥ ७०.२७७ ॥
रुचेः प्रजापतेः सोथ आकूतिं प्रत्यपादयत्॥
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्॥ ७०.२७८ ॥
यज्ञश्च दक्षिणा चैव यमलौ सम्बभूवतुः॥
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे॥ ७०.२७९ ॥
यामा इति समाख्याता देवाः स्वायम्भुवेन्तरे॥
एतस्य पुत्रा यज्ञस्य तस्माद्यामाश्च ते स्मृताः॥ ७०.२८० ॥
अजितश्चैव शुक्रश्च गणौ द्वौ ब्रह्मणा कृतौ॥
यामाः पूर्वं प्रजाता ये तेऽभवंस्तु दिवौकसः॥ ७०.२८१ ॥
स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः॥
तस्यां कन्याश्चतुर्विशद्दक्षस्त्वजनयत्प्रभुः॥ ७०.२८२ ॥
सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः॥
भोगवत्यश्च ताः सर्वाः सर्वास्ता योगमातरः॥ ७०.२८३ ॥
सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥ ७०.२८४ ॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः॥ ७०.२८५ ॥
दाराण्येतानि वै तस्य विहितानि स्वयम्भुवा॥
ताभ्यः शिष्ट यवीयस्य एकादश सुलोचनाः॥ ७०.२८६ ॥
सती ख्यात्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा॥
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा॥ ७०.२८७ ॥
तास्तथा प्रत्यपद्यन्त पुनरन्ये महर्षयः॥
रुद्रो भृगुर्मरिचिश्च अङ्गिराः पुलहः क्रतुः॥ ७०.२८८ ॥
पुलस्त्योत्रिर्वसिष्ठश्च पितरोग्निस्तथैव च॥
सतीं भवाय प्रायच्छत् ख्यातिं च भृगवे ततः॥ ७०.२८९ ॥
मरीचये च सम्भूति स्मृतिमङ्गिरसे ददौ॥
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च॥ ७०.२९० ॥
क्रतेव सन्नतिं नाम अनसूयां तथात्रये॥
ऊर्जां ददौ वसिष्ठाय स्वाहामप्यग्नये ददौ॥ ७०.२९१ ॥
स्वधां चैव पितृभ्यस्तु तास्वपत्यानि बोधत॥
एताः सर्वा महाभागाः प्रजास्वनुसृताः स्थिताः॥ ७०.२९२ ॥
मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम्॥
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः॥ ७०.२९३ ॥
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोष एव च॥
पुष्ट्या लोभः सुतश्चापि मेधापुत्रः श्रुतस्तथा॥ ७०.२९४ ॥
क्रियायामभवत्पुत्रो दण्डः समय एव च॥
बुद्ध्यां बोधः सुतस्तद्वत्प्रमादोप्युपजायत॥ ७०.२९५ ॥
लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः॥
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत॥ ७०.२९६ ॥
यशः कीर्तिसुतश्चापि इत्येते धर्मसूनवः॥
कामस्य हर्षः पुत्रो वै देव्यां प्रीत्यां व्यजायत॥ ७०.२९७ ॥
इत्येष वै सुतोदर्कः सर्गो धर्मस्य कीर्तितः॥
जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम्॥ ७०.२९८ ॥
निकृत्यां तु द्वयं जज्ञे भयं नरक एव च॥
माया च वेदना चापि मिथुनद्वयमेतयोः॥ ७०.२९९ ॥
भूयो जज्ञेथ वै माया मृत्युं भूतापहारिणम्॥
वेदनायाः सुतश्चापि दुःखं जज्ञे च रौरवः॥ ७०.३०० ॥
मृत्योर्व्याधिजराशोकक्रोधासूयाश्च जज्ञिरे॥
दुःखोत्तराः सुता ह्येते सर्वे चाधर्मलक्षणाः॥ ७०.३०१ ॥
नैषां भार्यास्तु पुत्राश्च सर्वे ह्येते परिग्रहाः॥
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः॥ ७०.३०२ ॥
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः॥
सोभिध्याय सतीं भार्यां निर्ममे ह्यात्मसम्भवान्॥ ७०.३०३ ॥
नाधिकान्न च हीनांस्तान्मानसानात्मनः समान्॥
सहस्रं हि सहस्राणां सोसृजत्कृत्तिवाससः॥ ७०.३०४ ॥
तुल्यानेवात्मनः सर्वान् रूपतेजोबलुश्रुतैः॥
पिङ्गलान्सनिषङ्गांश्च सकपर्दान्सलोहितान्॥ ७०.३०५ ॥
विशिष्टान् हरिकेशांश्चदृष्टिघ्नांश्च कपालिनः॥
महारूपान्विरूपांश्च विश्वरूपान्स्वरूपिणः॥ ७०.३०६ ॥
रथिनश्चर्मिणश्चैव वर्मिणश्च वरूथिनः॥
सहस्रशतबाहुंश्च दिव्यान्भौ मान्तरिक्षगान्॥ ७०.३०७ ॥
स्थूलशीर्षानष्टदंष्ट्रान्द्विजिह्वांस्तांस्त्रिलोचनान्॥
अन्नादान्पिशिताशांश्च आज्यपान्सोमपानपि॥ ७०.३०८ ॥
मीढुषोतिकपालांश्च शितिकण्ठोर्ध्वरेतसः॥
हव्यादाञ्छ्रुतधर्मंश्च धर्मिणो ह्यथ बर्हिणः॥ ७०.३०९ ॥
आसीनान्धावतश्चैव पञ्चभूतान्सहस्रशः॥
अध्यापिनोध्यायिनश्च जपतो युञ्जतस्तथा॥ ७०.३१० ॥
धूमवन्तो ज्वलन्तश्च नदीमन्तोतिदीप्तिनः॥
वृद्धान्बुद्धिमतश्चैव ब्रह्मिष्ठाञ्शुभदर्शनान्॥ ७०.३११ ॥
नीलग्रीवान्सहस्राक्षान्सर्वांश्चाथ क्षमाकरान्॥
अदृश्यान्सर्वभूतानां महायोगान्महौजसः॥ ७०.३१२ ॥
भ्रमन्तोभिद्रवन्तश्च पल्वन्तश्च सहस्रशः॥
अयातयामानसृजद्रुद्रानेतान् सुरोत्तमान्॥ ७०.३१३ ॥
ब्रह्मा दृष्ट्वाब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः॥
स्रष्टव्या नात्मनस्तुल्याः प्रजा देव नमोस्तु ते॥ ७०.३१४ ॥
अन्याः सृज त्वं भद्रं ते प्रजा वै मृत्युसंयुताः॥
नारप्स्यन्ते हि कर्माणि प्रजावगतमृत्यवः॥ ७०.३१५ ॥
एवमुक्तोऽब्रवीदेनं नाहं मृत्युजरान्विताः॥
प्रजाः सक्ष्यामि भद्रं ते स्थितोह त्वं सृज प्रजाः॥ ७०.३१६ ॥
एते ये वै मया सृष्टा विरूपा नीललोहिताः॥
सहस्राणां सहस्रं तु आत्मनो निस्सृताः प्रजाः॥ ७०.३१७ ॥
एते देवा भविष्यन्ति रुद्रा नाम महाबलाः॥
पृथिव्यामन्तरिक्षे च दिक्षु चैव परिश्रिताः॥ ७०.३१८ ॥
शतरुद्राः समात्मनो भविष्यन्तीति याज्ञिकाः॥
यज्ञभाजो भविष्यन्ति सर्वदेवगणैः सह॥ ७०.३१९ ॥
मन्वन्तरेषु ये देवा भविष्यन्तीह भेदतः॥
सार्धं तैरीज्यमानास्ते स्थास्यन्तीहायुगक्षयात्॥ ७०.३२० ॥
एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता॥
प्रत्युवाच नमस्कृत्य हृष्यमाणः प्रजापतिः॥ ७०.३२१ ॥
एवं भवतु भद्रं ते यथा ते व्याहृतं विभो॥
ब्रह्मणा समनु ज्ञाते तथा सर्वमभूत्किल॥ ७०.३२२ ॥
ततः प्रभृति देवेशो न चासूयत वै प्रजाः॥
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम्॥ ७०.३२३ ॥
यस्मादुक्तः स्थितोस्मीति तस्मात्स्थाणुरिति स्मृतः॥
एष देवो महादेवः पुरुषोर्कसमद्युतिः॥ ७०.३२४ ॥
अर्धनारीनरवपुस्तेजसा ज्वलनोपमः॥
स्वेच्छयासौ द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्॥ ७०.३२५ ॥
स एवैकादशार्धेन स्थितोसौ परमेश्वरः॥
तत्र या सा महाभागा शङ्करस्यार्धकायिनी॥ ७०.३२६ ॥
प्रागुक्ता तु महादेवी स्त्री सैवेह सती ह्यभूत्॥
हिताय जगतां देवी दक्षेणाराधिता पुरा॥ ७०.३२७ ॥
कार्यार्थं दक्षिणं तस्याः शुक्लं वामं तथासितम्॥
आत्मानं विभजस्वेति प्रोक्ता देवेन शम्भुना॥ ७०.३२८ ॥
सा तथोक्ता द्विधाभूता शुक्ला कृष्णा च वै द्विजाः॥
तस्या नामानि वक्ष्यामि श्रृण्वन्तु च समाहिताः॥ ७०.३२९ ॥
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती॥
सती दाक्षायणी विद्या इच्छाशक्तिः क्रियात्मिका॥ ७०.३३० ॥
अपर्णा चैकपर्णा च तथा चैवैकपाटला॥
उमा हैमवती चैव कल्याणी चैकमातृका॥ ७०.३३१ ॥
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता॥
गणाम्बिका महादेवी नन्दिनी जातवेदसी॥ ७०.३३२ ॥
एकरूपमथैतस्याः पृथग्देहविभावतान्॥
सावित्री वरदा पुण्या पावनी लोकविश्रुता॥ ७०.३३३ ॥
आज्ञा आवेशनी कृष्णा तामसी सात्त्विकी शिवा॥
प्रकृतिर्विकृता रौद्री दुर्गा भद्रा प्रमाथिनी॥ ७०.३३४ ॥
कालरात्रिर्महामाया रेवती भूतनायिका॥
द्वापरान्तविभागे च नामानीमानिसुव्रताः॥ ७०.३३५ ॥
गौतमी कौशिकी चार्या चण्डी कात्यायनी सती॥
कुमारी यादवी देवी वरदा कृष्णपिङ्गला॥ ७०.३३६ ॥
बर्हिध्वजा शूलधरा परमा ब्रह्मचारिणी॥
महेन्द्रोपेन्द्रभगिनी दृषद्वत्येकशूलधृक्॥ ७०.३३७ ॥
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी॥
शुम्भादिदैत्यहन्त्री च महामहिषमर्दिनी॥ ७०.३३८ ॥
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका॥
देव्या नामविकाराणि इत्येतानि यथाक्रमम्॥ ७०.३३९ ॥
भद्रकाल्या मयोक्तानी सम्यक्फलप्रदानि च॥
ये पठन्ति नरास्तेषां विद्यते न च पातकम्॥ ७०.३४० ॥
अरण्ये पर्वते वापि पुरे वाप्यथवा गृहे॥
रक्षामेतां प्रयुञ्जीत जले वाथ स्थलेपि वा॥ ७०.३४१ ॥
व्याघ्रकुम्भीनचोरेभ्यो भयस्थाने विशेषतः॥
आपत्स्वपि च सर्वासु देव्या नामानि कीर्तयेत्॥ ७०.३४२ ॥
आर्यकग्रहभूतैश्च पूतनामातृभिस्तथा॥
अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत्॥ ७०.३४३ ॥
महादेवीकले द्वे तु प्रज्ञा श्रीश्च प्रकीर्तिते॥
आभ्यां देवीसहस्राणी यैर्व्याप्तमखिलं जगत्॥ ७०.३४४ ॥
अनया देवदेवोसौ सत्या रुद्रो महेश्वरः॥
आतिष्ठत्सर्वलोकानां हिताय परमेश्वरः॥ ७०.३४५ ॥
रुद्रः पशुपतिश्चासीत्पुरा दग्धं पुरत्रयम्॥
देवाश्च पशवः सर्वे बभूवुस्तस्य तेजसा॥ ७०.३४६ ॥
यः पठेच्छृणुयाद्वापि आदिसर्गक्रमं शुभम्॥
स याति ब्रह्मणो लोकं श्रावयेद्वा द्विजोत्तमान्॥ ७०.३४७ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिविस्तारो नाम सप्ततितमोध्यायः॥ ७० ॥