०६८

सूत उवाच॥
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः॥
सङ्क्षेपेणानुपूर्व्याच्च गदतो मे निबोधत॥ ६८.१ ॥

यदोः पुत्रा बभूबुर्हि पञ्च देव सुतोपमाः॥
सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर्नीलोजको लघुः॥ ६८.२ ॥

सहस्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः॥
सुताः शतजितः ख्यातास्त्रयः परमकीर्तयः॥ ६८.३ ॥

हैहयश्च हयश्चैव राजा वेणुहयश्च यः॥
हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः॥ ६८.४ ॥

तस्य पुत्रोभवद्विप्रा धर्म नेत्र इति श्रुतः॥
धर्मनेत्रस्य कीर्तिस्तु सञ्जयस्तस्य चात्मजः॥ ६८.५ ॥

सञ्जयस्य तु दायादो महिष्मान्नाम धार्मिकः॥
आसीन्माहिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्॥ ६८.६ ॥

भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः॥
दुर्दमस्य सुतो धीमान्धनको नाम विश्रुतः॥ ६८.७ ॥

धनकस्य तु दायादाश्चत्वारो लोकसम्मताः॥
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च॥ ६८.८ ॥

कृतौजाश्च चतुर्थोभूत्कार्तवीर्यस्ततोर्जुनः॥
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः॥ ६८.९ ॥

तस्य रामस्तदा त्वासीन्मृत्युर्नारायणात्मकः॥
तस्य पुत्रशतान्यासन्पञ्च तत्र महारथाः॥ ६८.१೦ ॥

कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः॥
शूरश्च शूरसेनश्च धृष्टः कृष्णस्तथैव च॥ ६८.११ ॥

जयध्वजश्च राजासीदावन्तीनां विशां पतिः॥
जयध्वजस्य पुत्रोभूत्तालजङ्घो महाबलः॥ ६८.१२ ॥

शतं पुत्रास्तु तस्येह तालजङ्घाः प्रकीर्तिताः॥
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः॥ ६८.१३ ॥

वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः॥
वृषो वंशकरस्तेषां तस्य पुत्रोभवन्मधुः॥ ६८.१४ ॥

मधोः पुत्रशतं चासीद्वृष्णिस्तस्य तु वंशभाक्॥
वृष्णेस्तु वृष्णयः सर्वे माधोर्वै माधवाः स्मृताः॥

यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः॥ ६८.१५ ॥

तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम्॥ ६८.१६ ॥

वीतिहोत्राश्च हर्याता भोजाश्चावन्तयस्तथा॥
शूरसेनास्तु विख्यातास्तालजङ्घास्तथैव च॥ ६८.१७ ॥

शूरश्च शूरसेनश्च वृषः कृष्णस्तथैव च॥
जयध्वजः पञ्चमस्तु विख्याता हैहयोत्तमाः॥ ६८.१८ ॥

शूरश्च शूरवीरश्च शूरसेनस्य चानघाः॥
शूरसेना इति ख्याता देशास्तेषां महात्मनाम्॥ ६८.१९ ॥

वीतिहोत्रसुतश्चापि विश्रुतोऽनर्त इत्युत॥
दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्शनः॥ ६८.२೦ ॥

क्रोष्टुश्च श्रृणु राजर्षे वंशमुत्तमपौरुषम्॥
यस्यान्वये तु सम्भूतो विष्णुर्विष्णुकुलोद्वहः॥ ६८.२१ ॥

क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान्महायशाः॥
तस्य पुत्रोभवत्स्वाती कुशङ्कुस्तत्सुतोभवत्॥ ६८.२२ ॥

अथ प्रसूतिमिच्छन्वै कुशङ्कुः सुमहाबलः॥
महाक्रतुभिरीजेसौ विविधैराप्तदक्षिणैः॥ ६८.२३ ॥

जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः॥
अथ चैत्ररथो वीरो यज्वा विपुलदक्षिमः॥ ६८.२४ ॥

शशबिन्दुस्तु वै राजा अन्वयाद्व्रतमुत्तमम्॥
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजाः॥ ६८.२५ ॥

शशबिन्दोस्तु पुत्राणां सहस्राणामभूच्छतम्॥
शंसन्ति तस्य पुत्राणामनन्तकमनुत्तमम्॥ ६८.२६ ॥

अनन्तकात्सुतो यज्ञो यज्ञस्य तनयो धृतिः॥
उशनास्तस्य तनयः सम्प्राप्य तु महीमिमाम्॥ ६८.२७ ॥

आजहाराश्वमेधानां शतमुत्तमधार्मिकः॥
स्मृतश्चोशनसः पुत्रः सितेषुर्नाम पार्थिवः॥ ६८.२८ ॥

मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः॥
वीरः कम्बलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः॥ ६८.२९ ॥

पुत्रस्तु रुक्मकवचो विद्वान्कम्बलबर्हिषः॥
निहत्य रुक्मकवचो रीरान्कवचिनो रणे॥ ६८.३೦ ॥

धन्विनो विशितैर्बाणैरवाप श्रियमुत्तमाम्॥
अश्वमेधे तु धर्मात्मा ऋत्विग्भ्यः पृथिवीं ददौ॥ ६८.३१ ॥

जज्ञे तु रुक्मकवचात्परावृत्परवीरहा॥
जज्ञिरे पञ्च पुत्रास्तु महासत्त्वाः परावृतः॥ ६८.३२ ॥

रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघं हरिः॥
परिघं च हरिं चैव विदेहेषु पिता न्यसत्॥ ६८.३३ ॥

रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयात्॥
तैस्तु प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे॥ ६८.३४ ॥

प्रशान्तः स वनस्थोपि ब्राह्मणैरेव बोधितः॥
जगाम धनुरादाय देशमन्यं ध्वजी रथी॥ ६८.३५ ॥

नर्मदातीरमेकाकी केवलं भार्यया युतः॥
ऋक्षवन्तं गिरं गत्वा त्यक्तमन्यैरुवास सः॥ ६८.३६ ॥

ज्यामघस्याभवद्भार्या शैब्या शीलवती सती॥
सा चैव तपसोग्रेण शैब्या वै सम्प्रसूयत॥ ६८.३७ ॥

सुतं विदर्भ सुभगा वयःपरिणता सती॥
राजपुत्रसुतायां तु विद्वांसौ क्रथकैशिकौ॥ ६८.३८ ॥

पुत्रौ विदर्भराजस्य शूरौ रणविशारदौ॥
रोमपादस्तृतीयश्च बभ्रुस्तस्यात्मजः स्मृतः॥ ६८.३९॥

सुधृतिस्तनयस्तस्य विद्वान्परमधार्मिकः॥
कौशिकस्तनयस्तस्मात्तस्माच्चैद्यान्वयः स्मृतः॥ ६८.४೦ ॥

क्रथो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्॥
कुन्तेर्वतस्ततो जज्ञे रणधृष्टः प्रतापवान्॥ ६८.४१ ॥

रणधृष्टस्य च सुतो निधृतिः परवीरहा॥
दशार्हो नैधृतो नाम्ना महारिगणसूदनः॥ ६८.४२ ॥

दर्शार्हस्य सुतो व्याप्तो जीमूत इति तत्सुतः॥
जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः॥ ६८.४३ ॥

अथ भीमरथस्यासीत्पुत्रो नवरथः किल॥
दानधर्मरतो नित्यं सत्यशीलपरायणः॥ ६८.४४ ॥

तस्य चासीद्दृढरथः शकुनिस्तस्य चात्मजः॥
तस्मात्करम्भः सम्भूतो देवरातोऽभवत्ततः॥ ६८.४५ ॥

देवरातादभूद्राजा देवरातिर्महायशाः॥
देवगर्भोपमो जज्ञे यो देवक्षत्रनामकः॥ ६८.४६ ॥

देवक्षत्रसुतः श्रीमान् मधुर्नाम महायशाः॥
मधूनां वंशकृद्राजा मधोस्तु कुरुवंशकः॥ ६८.४७ ॥

कुरुवंशादनुस्तस्मात्पुरुत्वात्पुरुषोत्तमः॥
अंशुर्जज्ञे च वैदर्भ्यां भद्रवत्यां पुरुत्वतः॥ ६८.४८ ॥

ऐक्ष्वाकीमवहच्चांशुः सत्त्वस्तस्मादजायत॥
सत्त्वात्सर्वगुणोपेतः सात्त्वतः कुलवर्धनः॥ ६८.४९ ॥

ज्यामघस्य मया प्रोक्ता सृष्टिर्वै विस्तरेण वः॥
यः पठेच्छृणुयाद्वापि निसृष्टिञ्ज्यामघस्य तु॥ ६८.५೦ ॥

प्रजीवत्येति वै स्वर्गं राज्यं सौख्यं च विन्दति॥ ६८.५१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे वंशानुवर्णनन्नामाष्टषष्टितमोऽध्यायः॥ ६८ ॥