०६७

ययातिरुवाच॥
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः॥
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन॥ ६७.१ ॥

मम ज्येष्ठेन यदुना नियोगो नानुपालितः॥
प्रतिकूलमतिश्चैव न स पुत्रः सतां मतः॥ ६७.२ ॥

मातापित्रोर्वचनकृत्सद्भिः पुत्रः प्रशस्यते॥
स पुत्रः पुत्रवद्यस्तु वर्तते मातृपितृषु॥ ६७.३ ॥

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च॥
द्रुह्येन चानुना चैव मय्यवज्ञा कृता भृशम्॥ ६७.४ ॥

पुरुणा च कृतं वाक्यं मानितश्च विशेषतः॥
कनीयान्मम दायादो जरा येन धृता मम॥ ६७.५ ॥

शुक्रेण मे समादिष्टा देवयान्याः कृते जरा॥
प्रार्थितेन पुनस्तेन जरा सञ्चारिणी कृता॥ ६७.६ ॥

शुक्रेण च वरो दत्तः काव्येनोशनसा क्वयम्॥
पुत्रो यस्त्वानुवर्तेत स ते राज्यधरस्त्विति॥ ६७.७ ॥

भवन्तोऽप्यनुजानन्तु पूरू राज्येऽभिषिच्यते॥
प्रकृतय ऊचुः॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा॥ ६७.८ ॥

सर्वमर्हति कल्याणं कनीया नपि स प्रभुः॥
अर्हः पूरुरिदं राज्यं यः सुतो वाक्यकृत्तव॥ ६७.९ ॥

वरदानेन शुक्रस्य न शक्यं कर्तुमन्यथा॥
सूत उवाच॥
एवं जानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा॥ ६७.१೦ ॥

अभिषिच्य ततो राज्यं पूरुं स सुतमात्मनः॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत्॥ ६७.११ ॥

दक्षिणायामथो राजा यदुं ज्येष्ठं न्ययोजयेत्॥
प्रतीच्यामुत्तरस्यां तु द्रुह्युं चानुं च तावुभौ॥ ६७.१२ ॥

सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्॥
व्यभजच्च त्रिधा राज्यं पुत्रेभ्यो नाहुषस्तदा॥ ६७.१३ ॥

पुत्रसङ्क्रामितश्रीस्तु हर्षनिर्भरमानसः॥
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु॥ ६७.१४ ॥

अत्र गाथा महाराज्ञा पुरा गीता ययातिना॥
याभिः प्रत्याहरेत्कामान्सर्वतोङ्गानि कूर्मवत्॥ ६७.१५ ॥

ताभिरेव नरः श्रीमान्नान्यथा कर्मकोटिकृत्॥
न जातु कामः कामानामुपभोगेन शाम्यति॥ ६७.१६ ॥

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः॥ ६७.१७ ॥

नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्॥ ६७.१८ ॥

कर्मण मनसा वाचा ब्रह्म सम्पद्यते तदा॥
यदा परान्न बिभेति परे चास्मान्न बिभ्यति॥ ६७.१९ ॥

यदा न निन्देन्न द्वोष्टि ब्रह्म सम्पद्यते तदा॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः॥ ६७.२೦ ॥

योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यान्ति जीर्यतः॥ ६७.२१ ॥

चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा॥
जीर्यन्ति देहिनः सर्वे स्वभावादेव नान्यथा॥ ६७.२२ ॥

जीविताशा धनाशा च जीयतोपि न जीर्यते॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्॥ ६७.२३ ॥

तृष्णाक्षयसुखस्यैतत्कलां नार्हति षोडशीम्॥
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम्॥ ६७.२४ ॥

भृगुतुङ्गे तपस्ते वा तत्रैव च महायशाः॥
साधयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्॥ ६७.२५ ॥

तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः॥
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव मरीचिभिः॥ ६७.२६ ॥

धनी प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः॥
ययातिचरितं पुण्यं पठञ्छृण्वंश्च बुद्धिमान्॥ ६७.२७ ॥

सर्वपाप विनिर्मुक्तः शिवलोके महीयते॥ ६७.२८ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशे ययातिचरितं नाम सप्तषष्टितमोऽध्यायः॥ ६७ ॥