सूत उवाच॥
त्रिधन्वा देवदेवस्य प्रसादात्तण्डिनस्तथा॥
अश्वमेधसहस्रस्य फलं प्राप्य प्रयत्नतः॥ ६६.१ ॥
गाणपत्यं दृढं प्राप्तः सर्वदेवनमस्कृतः॥
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणो नृपः॥ ६६.२ ॥
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः॥
तेन भार्या विदर्भस्य हृता हत्वामितौजसम्॥ ६६.३ ॥
पाणिग्रहणमन्त्रेषु निष्ठामप्रापितेष्विह॥
तेनाधर्मेण संयुक्तं राजा त्रय्यारुणोत्यजत्॥ ६६.४ ॥
पितरं सोब्रवीत्त्यक्तः क्व गच्छामीति वै द्विजाः॥
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय॥ ६६.५ ॥
इत्युक्तः स विचक्राम नगराद्वचनात् पितुः॥
स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिके॥ ६६.६ ॥
पित्रा त्यक्तोऽवसद्वीरः पिता चास्य वनं ययौ॥
सर्वलोकेषु विख्यातस्त्रिशङ्कुरिति वीर्यवान्॥ ६६.७ ॥
वसिष्ठकोपात्पुण्यात्मा राजा सत्यव्रतः पुरा॥
विश्वामित्रो महातेजा वरं दत्त्वा त्रिशङ्कवे॥ ६६.८ ॥
राज्येऽभिषिच्य तं पित्र्ये याजयामास तं मुनिः॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः॥ ६६.९ ॥
सशरीरं तदा तं वै दिवमारोपयद्विभुः॥
तस्य सत्य व्रता नाम भार्या कैकयवंशजा॥ ६६.१೦ ॥
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्॥
हरिश्चन्द्रस्य च सुतो रोहितो नाम वीर्यवान्॥ ६६.११ ॥
हरितो रोहितस्याथ धुन्धुर्हारित उच्यते॥
विजयश्च सुतेजाश्च धुन्धुपुत्रौ बभुवतुः॥ ६६.१२ ॥
जेता क्षत्त्रस्य सर्वत्र विजयस्तेन स स्मृतः॥
रुचकस्तस्य तनयो राजा परमाधार्मिकः॥ ६६.१३ ॥
रुचकस्य वृकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान्॥
सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः॥ ६६.१४ ॥
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा॥
ताभ्यामाराधितः पूर्वमौर्वोग्निः पुत्रकाम्यया॥ ६६.१५ ॥
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्॥
एका षष्टिसहस्राणि सुतमेकं परा तथा॥ ६६.१६ ॥
अगृह्णाद्वंशकर्तारं प्रभागृह्णात्सुतान्बहून्॥
एकं भानुमतिः पुत्रमगृह्णादसमञ्जसम्॥ ६६.१७ ॥
ततः षष्टिसहस्राणि सुषुवे सा तु वै प्रभा॥
खनन्तः पृथिवीं दग्धा विष्णुहुङ्कारमार्गणैः॥ ६६.१८ ॥
असमञ्जस्य तनयः सोंशुमान्नाम विश्रुतः॥
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः॥ ६६.१९ ॥
येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता॥
भगीरथ सुतश्चापि श्रुतो नाम बभूव ह॥ ६६.२೦ ॥
नाभागस्तस्य दायादो भवभक्तः प्रतापवान्॥
अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोभवत्॥ ६६.२१ ॥
नाभागेनाम्बरीषेण भुजाभ्यां परिपालिता॥
बभूव वसुधात्यर्थं तापत्रयविवर्जिता॥ ६६.२२ ॥
अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान्॥
पुत्रोऽयुतायुषो धीमानृतुपर्णो महायशाः॥ ६६.२३ ॥
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली॥
नलौ द्वावेव विख्यातौ पुराणेषु दृढव्रतौ॥ ६६.२४ ॥
वीरसेनसुतश्चान्यो यश्चेक्ष्वाकुकुलोद्भवः॥
ऋतुपर्णस्य पुत्रोभूत्सार्वभौमः प्रजेश्वरः॥ ६६.२५ ॥
सुदासस्तस्य तनयो राजा त्विन्द्रसमोभवत्॥
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः॥ ६६.२६ ॥
ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः॥
वसिष्ठस्तु महा तेजाः क्षेत्रे कल्माषपादके॥ ६६.२७ ॥
अश्मकं जनयामास इक्ष्वाकुकुलवर्धनम्॥
अश्मकस्योत्तरायां तु मूलकस्तु सुतोभवत्॥ ६६.२८ ॥
स हि रामभयाद्राजा स्त्रीभिः परिवृतो वने॥
बिभर्ति त्राणमिच्छन्वै नारीकवचमुत्तमम्॥ ६६.२९ ॥
मूलकस्यापि धर्मात्मा राजा शतरथः सुतः॥
तस्माच्छतरथाज्जज्ञे राजा त्विलविलो बली॥ ६६.३೦ ॥
आसीत्त्वैलविलिः श्रीमान्वृद्धशर्मा प्रतापवान्॥
पुत्रो विश्वसहस्तस्य पितृकन्या व्यजीजनत्॥ ६६.३१ ॥
दिलीपस्तस्य पुत्रोभूत्खट्वाङ्ग इति विश्रुतः॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम्॥ ६६.३२ ॥
त्रयोऽग्नयस्त्रयो लोका बुद्ध्या सत्येन वै जिताः॥
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत॥ ६६.३३ ॥
अजः पुत्रो रघोश्चापि तस्माज्जज्ञे च वीर्यवान्॥
राजा दशरथस्तस्माच्छ्रीमानिक्ष्वाकुवंशकृत्॥ ६६.३४ ॥
रामो दशरथाद्वीरो धर्मज्ञो लोकविश्रुतः॥
भरतो लक्ष्मणश्चैव शत्रुघ्नस्च महाबलः॥ ६६.३५ ॥
तेषां श्रेष्ठो महातेजा रामः परमवीर्यवान्॥
रावणं समरे हत्वा यज्ञैरिष्ट्वा च धर्मवित्॥ ६६.३६ ॥
दशवर्षसहस्राणि रामो राज्यं चकार सः॥
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः॥ ६६.३७ ॥
लवश्च सुमहाभागः सत्यवानभवत्सुधीः॥
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः॥ ६६.३८ ॥
नलस्तु निषधाज्जातो नभस्तस्मादजायत॥
नभसः पुण्डरीकाख्यः क्षेमधन्वा ततः स्मृतः॥ ६६.३९ ॥
तस्य पुत्रोभवद्वीरो देवानीकः प्रतापवान्॥
अहीनरः सुतस्तस्य सहस्राश्वस्ततः परः॥ ६६.४೦ ॥
शुभश्चन्द्रावलोकश्च तारापीडस्ततोभवत्॥
तस्यात्मजश्चन्द्रगिरिर्भानुचन्द्रस्ततोभवत्॥ ६६.४१ ॥
श्रुतायुरभवत्तस्माद्बृहद्बल इति स्मृतः॥
भारते यो महातेजाः सौभद्रेण निपातितः॥ ६६.४२ ॥
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः॥
वंशे प्रधाना एतस्मिन्प्रादान्येन प्रकीर्तिताः॥ ६६.४३ ॥
सर्वे पाशुपते ज्ञानमधीत्य परमेश्वरम्॥
समभ्यर्च्य यथाज्ञानमिष्ट्वा यज्ञैर्यथाविधि॥ ६६.४४ ॥
दिवं गता महात्मानः केचिन्मुक्तात्मयोगिनः॥
नृगो ब्राह्मणशापेन कृकलासत्वमागतः॥ ६६.४५ ॥
धृष्टश्च धृष्टकेतुश्च यमबालश्च वीर्यवान्।
रणधृष्टश्च ते पुत्रास्त्रयः परमधार्मिकाः॥ ६६.४६ ॥
आनर्तो नाम शर्यातेः सुकन्या नाम दारिका॥
आनर्तस्याभवत् पुत्रो रोचमानः प्रतापवान्॥ ६६.४७ ॥
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च॥
ककुद्मी चापरो ज्येष्ठपुत्रः पुत्रशतस्य तु॥ ६६.४८ ॥
रेवती यस्य सा कन्या पत्नी रामस्य विश्रुता॥
नरिष्यन्तस्य पुत्रोभूज्जितात्मा तु महाबली॥ ६६.४९ ॥
नाभागादम्बरीषस्तु विष्णुभक्तः प्रतापवान्॥
ऋतस्तस्य सुतः श्रीमान्सर्वधर्मविदांवरः॥ ६६.५೦ ॥
कृतस्तस्य सुधर्माभूत्पृषितो नाम विश्रुतः॥
करूषस्य तु कारूषाः सर्वे प्रख्यातकीर्तयः॥ ६६.५१ ॥
पृषितो हिंसयित्वा गां गुरोः प्राप सुकल्मषम्॥
शापाच्छूद्रत्वमापन्नश्चयवनस्योति विश्रुतः॥ ६६.५२ ॥
दिष्टपुत्रास्तु नाभागस्तस्मादपि भलन्दनः॥
भलन्दनस्य विक्रान्तो राजासीदजवाहनः॥ ६६.५३ ॥
एते समासतः प्रोक्ता मनुपुत्रा महाभुजाः॥
इक्ष्वाकोः पुत्रपौत्राद्य एलस्याथ वदामि वः॥ ६६.५४ ॥
सूत उवाच॥
ऐलः पुरूरवा नाम रुद्रभक्तः प्रतापवान्॥
चक्रे त्वकण्टकं राज्यं देशे पुण्यतमे द्विजाः॥ ६६.५५ ॥
उत्तरे यमुनातीरे प्रयागे मुनिसेविते॥
प्रतिष्ठानाधिपः श्रीमान्प्रतिष्ठाने प्रतिष्ठितः॥ ६६.५६ ॥
तस्य पुत्राः सप्त भवन्सर्वे वितततेजसः॥
गन्धर्वलोकविदिता भवभक्ता महाबलाः॥ ६६.५७ ॥
आयुर्मायुरमायुश्च विश्वायुश्चैव वीर्यवान्॥
श्रुतायुश्च शतायुश्च दिव्याश्चैवोर्वशीसुताः॥ ६६.५८ ॥
आयुषस्तनया वीराः पञ्चैवासन्महौजसः॥
स्वर्भानुतनयायां ते प्रभायां जज्ञिरे नृपाः॥ ६६.५९ ॥
नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः॥
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः॥ ६६.६೦ ॥
उत्पन्नाः पितृकन्यायं विरजायां महौजसः॥
यतिर्ययातिः संयातिरायातिः पञ्चमोऽन्धकः॥ ६६.६१ ॥
विजातिश्चेति षडिमे सर्वे प्रख्यातकीर्तयः॥
यतिर्ज्येष्ठश्च तेषां वै ययातिस्तु ततोऽवरः॥ ६६.६२ ॥
ज्येष्ठस्तु यतिर्मोक्षार्थो ब्रह्मभूतोऽभवत्प्रभुः॥
तेषां ययातिः पञ्चानां महाबलपराक्रमः॥ ६६.६३ ॥
देवयानीमुशनसः सुतां भार्यामवाप सः॥
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः॥ ६६.६४ ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत॥
तावुभौ शुभकर्माणौ स्तुतौ विद्याविशारदौ॥ ६६.६५ ॥
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥
ययातये रथं तस्मै ददौ शुक्रः प्रतापवान्॥ ६६.६६ ॥
तोषितस्तेन विप्रेन्द्रः प्रीतः परमभास्वरम्॥
सुसङ्गं काञ्चनं दिव्यमक्षये च महेषुधी॥ ६६.६७ ॥
युक्तं मनोजवैरश्वैयेन्न कन्यां समुद्वहन्॥
स तेन रथमुख्येन षण्मासेनाजयन्महीम्॥ ६६.६८ ॥
ययातिर्युधि दुर्धर्षो देवदानवमानुषैः॥
भवभक्तस्तु पुण्यात्मा धर्म निष्ठः समञ्जसः॥ ६६.६९ ॥
यज्ञयाजी जितक्रोधः सर्वभूतानुकम्पनः॥
कौरवाणां च सर्वेषां स भवद्रथ उत्तमः॥ ६६.७೦ ॥
यावन्नरेन्द्रप्रवरः कौरवो जनमेजयः॥
पूरोर्वंशस्य राज्ञस्तु राज्ञः पारिक्षितस्य तु॥ ६६.७१ ॥
जगाम स रथो नाशं शापाद्गर्गस्य धीमतः॥
गर्गस्य हि सुतं बालं स राजा जनमेजयः॥ ६६.७२ ॥
अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः॥
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः॥ ६६.७३ ॥
पौरजानपदौस्त्यक्तो न लेभे शर्म कर्हिचित्॥
ततः स दुःखसन्तप्तो न लेभे संविदं क्वचित्॥ ६६.७४ ॥
जगाम शौनकमृषिं शरण्यं व्यथितस्तदा॥
इन्द्रेतिर्नाम विख्यातो योऽसौ मुनिरुदारधीः॥ ६६.७५ ॥
याजयामास चेन्द्रेतिस्तं नृपं जनमेजयम्॥
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः॥ ६६.७६ ॥
स लोहगन्धान्निर्मुक्त एनसा च महायशाः॥
यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः॥ ६६.७७ ॥
तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः॥
दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः॥ ६६.७८ ॥
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्॥
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः॥ ६६.७९ ॥
सूत उवाच॥
अभ्यषिञ्चत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः॥
कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः॥ ६६.८೦ ॥
अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम्॥
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्॥ ६६.८१ ॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो॥
ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति॥ ६६.८२ ॥
एते सम्बोधयामस्त्वां धर्मं च अनुपालय॥ ६६.८३ ॥
इति श्रीलिङ्गमहापुराणे पूर्व भागे षट्षष्टितमोऽध्यायः॥ ६६ ॥