०६४

ऋषय ऊचुः॥
कथं हि रक्षसा सक्तिर्भक्षितः सोनुजैः सह॥
वासिष्ठो वदतां श्रेष्ठ सूत वक्तुमिहार्हसि॥ ६४.१ ॥

सूत उवाच॥
राक्षसो रुधिरो नाम वसिष्ठस्य सुतं पुरा॥
शक्तिं स भक्षयामास शक्तेः शापात्सहानुजैः॥ ६४.२ ॥

वसिष्ठयाज्यं विप्रेन्द्रास्तदा दिश्यैव भूपतिम्॥
कल्माषपादं रुधिरो विश्वामित्रेण चोदितः॥ ६४.३ ॥

भक्षितः स इति श्रुत्वा वसिष्ठस्तेन रक्षसा॥
शक्तिः शक्तिमतां श्रेष्ठो भ्रातृभिः सह धर्मवित्॥ ६४.४ ॥

हा पुत्र पुत्र पुत्रेति क्रन्दमानो मुहुर्मुहुः॥
अरुन्धत्या सह मुनिः पपात भुवि दुःखितः॥ ६४.५ ॥

नष्टं कुलमिति श्रुत्वा मर्तुं चक्रे मतिं तदा॥
स्मरन्पुत्रशतं चैव शक्तिज्येष्ठं च शक्तिमान्॥ ६४.६ ॥

न तं विनाहं जीविष्ये इति निश्चित्य दुःखितः॥ ६४.७ ॥

आरुह्य मूर्धानमजात्मजोसौ तयात्मवान् सर्वविदात्मविच्च॥
धराधरस्यैव तदा धरायां पपात पत्न्या सहसाश्रृदृष्टिः॥ ६४.८ ॥

धराधरात्तं पतितं धरा तदा दधार तत्रापि विचित्रकण्ठी॥
कराम्बुजाभ्यां करिखेलगामिनी रुदन्तमादाय रुरोद सा च॥ ६४.९ ॥

तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम्॥
वसिष्ठं वदतां श्रेष्ठं रुदन्ती भयविह्वला॥ ६४.१೦ ॥

भगवन्ब्राह्मणश्रेष्ठ तव देवमिदं शुभम्॥
पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम्॥ ६४.११ ॥

न त्याज्यं तव विप्रेन्द्र देहमेतत्सुशोभनम्॥
गर्भस्थो मम सर्वार्थसाधकः शक्तिजो यतः॥ ६४.१२ ॥

एवमुक्त्वाथ धर्मज्ञा कराभ्यां कमलेक्षणा॥
उत्थाप्य श्वशुरं नत्वा नेत्रे सम्मृज्य वारिणा॥ ६४.१३ ॥

दुःखितापि परित्रातुं श्वशुरं दुःखितं तदा॥
अरुन्धतीं च कल्याणीं प्रार्थयामास दुःखिताम्॥ ६४.१४ ॥

स्नुषावाक्यं ततः श्रुत्वा वसिष्ठोत्थाय भूतलात्॥
सञ्ज्ञामवाप्य चालिङ्ग्य सा पपात सुदुःखिता॥ ६४.१५ ॥

अंरुधती कराब्यां तां संस्पृश्यास्राकुलेक्षणाम्॥
रुरोद मुनिशार्दूलो भार्यया सुतवत्सलः॥ ६४.१६ ॥

अथ नाब्यम्बुजे विष्णोर्यथा तस्याश्चतुर्मुखः॥
आसीनो गर्भशय्यायां कुमार ऋचमाह सः॥ ६४.१७ ॥

ततो निशम्य भगवान्वसिष्ठ ऋचमादरात्॥
केनोक्तमिति सञ्चिन्त्य तदातिष्ठत्समाहितः॥ ६४.१८ ॥

व्योमाङ्गणस्थोथ हरिः पुण्डरीकनिभेक्षणः॥
वसिष्ठमाह विश्वात्मा घृणया स घृणानिधिः॥ ६४.१९ ॥

भो वत्सवत्स विप्रेन्द्र वसिष्ठ सुतवत्सल॥
तव पौत्रमुखाम्भोजादृगेषाद्य विनिःसृता॥ ६४.२೦ ॥

मत्समस्तव पौत्रोसौ शक्तिजः शक्तिमान्मुने॥
तस्मादुत्तिष्ठ सन्त्यस्य शोकं ब्रह्मसुतोत्तम॥ ६४.२१ ॥

रुद्रभक्तश्च गर्भस्थो रुद्रपूजापरायणः॥
रुद्रदेवप्रभावेण कुलं ते सन्तरिष्यति॥ ६४.२२ ॥

एवमुक्त्वा घृणी विप्रं भगवान् पुरुषोत्तमः॥
वसिष्ठं मुनिशार्दूलं तत्रैवान्तरधीयत॥ ६४.२३ ॥

ततः प्रणम्य शिरसा वसिष्ठो वारिजेक्षणम्॥
अदृश्यन्त्या महातेजाः पस्पर्शोदरमादरात्॥ ६४.२४ ॥

हा पुत्र पुत्र पुत्रेति पपात च सुदुःखितः॥
ललापारुन्धती प्रेक्ष्य तदासौ रुदतीं द्विजाः॥ ६४.२५ ॥

स्वपुत्रं च स्मरन् दुःखात्पुनरेह्येहि पुत्रक॥
तव पुत्रमिमं दृष्ट्वा भो शक्ते कुलधारणम्॥ ६४.२६ ॥

तवान्तिकं गमिष्यामि तव मात्रा न संशयः॥
सूत उवाच॥
एवमुक्त्वा रुदन्विप्र आलिङ्ग्यारुन्धतीं तदा॥ ६४.२७ ॥

पपात ताडयन्तीव स्वस्य कुक्षी करेण वै॥
अदृसश्यन्ती जघानाथ शक्तिजस्यालयं शुभा॥ ६४.२८ ॥

स्वोदरं दुःखिता भूमौ ललाप च पपात च॥
अरुन्धति तदा भीता वसिष्ठश्च महामतिः॥ ६४.२९ ॥

समुत्थाप्य स्नुषां बालामूचतुर्भयविह्वलौ॥ ६४.३೦ ॥

विचारमुग्धे तव गर्भमण्डलं कराम्बुजाभ्यां विनिहत्य दुर्लभम्॥
कुलं वसिष्ठस्य समस्तमप्यहो निहन्तुमार्ये कथमुद्यता वद॥ ६४.३१ ॥

तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतमार्यसूनोः॥
त्रातुं यतो देहमिमं मुनीन्द्रः सुनिश्चितः पाहि ततः शरीरम्॥ ६४.३२ ॥

सूत उवाच॥
एवं स्नुषामुपालभ्य मुनिं चारुन्धती स्थिता॥
अरन्धती वसिष्ठस्य प्राह चार्तेतिविह्वला॥ ६४.३३ ॥

त्वय्येव जीवितं चास्य मुनेर्यत्सुव्रते मम॥
जीवितं रक्ष देहस्य धात्री च कुरु याद्धितम्॥ ६४.३४ ॥

अदृश्यन्ति उवाच॥
मया यदि मुनिश्रेष्ठो त्रातुं वै निश्चितं स्वकम्॥
ममाशुभं शुभं देहं कथञ्चित्पालयाम्यहम्॥ ६४.३५ ॥

प्रियदुःखमहं प्राप्त ह्यसती नात्र संशयः॥
मुने दुःखादहं दग्धा यतः पुत्री मुने तव॥ ६४.३६ ॥

अहोद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो।
दुःखत्राता भव ब्रह्मन्ब्रह्मसूनो जगद्गुरो॥ ६४.३७ ॥

तथापि भर्तृरहिता दीना नारि भवेदिह॥
पाहि मां तत आर्येन्द्र परिभूता भविष्यति॥ ६४.३८ ॥

पिता माता च पुत्रास्च पौत्राः श्वशुर एव च॥
एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः॥ ६४.३९ ॥

आत्मनो यद्धि कथितमप्यर्धमिति पण्डितैः॥
तदप्यत्र मृषा ह्याससीद्गतः शक्तिरहं स्थिता॥ ६४.४೦ ॥

अहो ममात्र काठिन्यं मनसो मुनिपुङ्गव॥
पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः॥ ६४.४१ ॥

वसिष्ठाश्वत्थमाश्रित्य ह्यमृता तु यथा लता॥
निर्मूलाप्यमृता भर्त्रात्यक्ता दीना स्थिताप्यहम्॥ ६४.४२ ॥

स्नुषा वाक्यं निशम्यैव वसिष्ठो भार्यया सह॥
तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी॥ ६४.४३ ॥

कृच्छ्रात्सभार्यो भगवान्वासिष्ठः स्वाश्रमं क्षणात्॥
अदृश्यन्त्या च पुण्यात्मा संविवेश स चिन्तयन्॥ ६४.४४ ॥

सा गर्भं पालयामास कथञ्चिन्मुनिपुङ्गवाः॥
कुलसन्धारणार्थाय शक्ति पत्नी पतिव्रता॥ ६४.४५ ॥

ततः सासूत तनयं दशमे मासि सुप्रभम्॥
शक्तिपत्नी यथा शक्तिं शक्तिमन्तमरुन्धती॥ ६४.४६ ॥

असूत सा दितिर्विष्णुं यता स्वाहा गुहं सुतम्॥
अग्निं यथारणिः पत्नी शक्तेः साक्षात्पराशरम्॥ ६४.४७ ॥

यदा तदा शक्तिसूजुरवतीर्णो महीतले॥
शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ॥ ६४.४८ ॥

भ्रातृभिः सह पुण्यात्मा आदित्यैरिव भास्करः॥
रराज पितृलोकस्थो वासिष्ठो मुनिपुङ्गवाः॥ ६४.४९ ॥

जगुस्तदा च पितरो ननृतुश्च पितामहाः॥
प्रपितामहाश्च विप्रेन्द्रा ह्यवतीर्णे पराशरे॥ ६४.५೦ ॥

ये ब्रह्मवादिनो भूमौननृतुर्दिवि देवताः॥
पुष्कराद्याश्च ससृजुः पुष्पवर्षं च खेचराः॥ ६४.५१ ॥

पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः॥
आश्रमस्थाश्च मुनयः समूहुर्हर्षसन्ततिम्॥ ६४.५२ ॥

अवतीर्णो यथा ह्यण्डाद्भानुः सोपि पराशरः॥
अदृश्यन्त्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः॥ ६४.५३ ॥

सुखं च दुःखमभवददृश्यन्त्यास्तथा द्विजाः॥
दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुन्धत्या मुनेस्तथा॥ ६४.५४ ॥

दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम्॥
ललाप विह्वला बाला सन्नकण्ठी पपात च॥ ६४.५५ ॥

सा पराशरमहो महामतिं देवदानवगणैश्च पूजितम्॥
जातमात्रमनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च॥ ६४.५६ ॥

हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम्॥
त्यज्य दीनवदनां वनान्तरे पुत्र दर्शनपरामिमां प्रभो॥ ६४.५७ ॥

शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम्॥
यथा महेश्वरोपश्यत्सगणो हृषिताननः॥ ६४.५८ ॥

अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः॥
श्रुत्वा स्नुषामुवाचेदं मारोदीरिति दुःखितः॥ ६४.५९ ॥

आज्ञया तस्य सा शोकं वसिष्ठस्य कुलाङ्गना॥
त्यक्त्वा ह्यपालयद्बालं बाला बालमृगेक्षणा॥ ६४.६೦ ॥

दृष्ट्वा तामबलां प्राह मङ्गलाभरणैर्विना॥
आसीनामाकुलां साध्वीं बाष्पपर्याकुले क्षणाम्॥ ६४.६१ ॥

शाक्तेय उवाच॥
अम्ब मङ्गलविभूषणैर्विना देहयष्टिरनघे न शोभते॥
वक्तुमर्हसि तवाद्य कारणं चन्द्रबिम्बरहितेव शर्वरी॥ ६४.६२ ॥

मातर्मातः कथं त्यक्त्वा मङ्गलाभरणानि वै॥
आसीना भर्तृहीनेव वक्तुमर्हसि शोभने॥ ६४.६३ ॥

अदृश्यन्ती तदा वाक्यं श्रुत्वा तस्य सुतस्य सा॥
न किञ्चिदब्रवीत्पुत्रं शुभं वा यदि वेतरत्॥ ६४.६४ ॥

अदृश्यन्तीं पुनः प्राह शाक्तेयो भगवान्मम॥
मातः कुत्र महातेजाः पिता वद वदेति ताम्॥ ६४.६५ ॥

श्रुत्वा रुरोद सा वाक्यं पुत्रस्यातीव विह्वला॥
भक्षितो रक्षसा तातस्तवेति निपपात च॥ ६४.६६ ॥

श्रुत्वा वसिष्ठोपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः॥
अरुन्धती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश्च॥ ६४.६६ ॥

श्रुत्वा वसिष्ठोपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः॥
अरुन्धती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश्च॥ ६४.६७ ॥

भक्षितो रक्षसा मातुः पिता तव मुकादिति॥
श्रुत्वा पराशरो धीमान्प्राह चास्राविलेक्षणः॥ ६४.६८ ॥

पराशर उवाच॥
अभ्यर्च्य देवदेवेशं त्रैलोक्यं सचराचरम्॥
क्षणेन मातः पितरं दर्शयामीति मे मतिः॥ ६४.६९ ॥

सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता॥
तथ्यमे तदिति तं निरीक्ष्य सा पुत्रपुत्र भवमर्चयेति च॥ ६४.७೦ ॥

ज्ञात्वा शक्तिसुतस्यास्य सङ्कल्पं मुनिपुङ्गवः॥
वसिष्ठो भगवान्प्राह पौत्रं धीमान् घृणानिधिः॥ ६४.७१ ॥

स्थाने पौत्रं मुनिश्रेष्ठ सङ्कल्पस्तव सुव्रत॥
तथापि श्रृणु लोकस्य क्षयं कर्तुं न चार्हसि॥ ६४.७२ ॥

राक्षसानामभावाय कुरु सर्वेश्वरार्चनम्॥
त्रैलोक्यं श्रृणु शाक्तेय अपराध्यति किं तव॥ ६४.७३ ॥

ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनन्दनः॥
राक्षसानामभावाय मतिं चक्रे महामतिः॥ ६४.७४ ॥

अदृश्यन्तीं वसिष्ठं च प्रणम्यारुन्धतीं ततः॥
कृत्वैकलिङ्गं क्षणिकं पांसुना मुनिसन्निधौ॥ ६४.७५ ॥

सम्पूज्य शिवसूक्तेन त्र्यम्बकेन शुभेन च॥
जप्त्वा त्वरितरुद्रं च शिवसङ्कल्पमेव च॥ ६४.७६ ॥

नीलरुद्रं च शाक्तेयस्तथा रुद्रं च शोभनम्॥
वामीयं पवमानं च पञ्चब्रह्म तथैव च॥ ६४.७७ ॥

होतारं लिङ्गसूक्तं च अथर्वशिर एव च॥
अष्टाङ्गमर्घ्यं रुद्राय दत्वाभ्यर्च्य यथाविधि॥ ६४.७८ ॥

पराशर उवाच॥
भगवन्रक्षसा रुद्र भक्षितो रुधिरेण वै॥
पिता मम महातेजा भ्रातृभिः सह शङ्कर॥ ६४.७९ ॥

द्रष्टुमिच्छामि भगवन् पितरं भ्रातृभिः सह॥
एवं विज्ञापयाल्ँलिङ्गं प्रणिपत्य मुहुर्मुहुः॥ ६४.८೦ ॥

हा रुद्र रुद्ररुद्रेति रुरोद निपपात च॥
तं दृष्ट्वा भगवान्नुद्रो देवीमाह च शङ्करः॥ ६४.८१ ॥

पश्य बालं महाभागे बाष्पपर्याकुलेक्षणम्॥
ममानुस्मरणे युक्तं मदाराधनतत्परम्॥ ६४.८२ ॥

सा च दृष्ट्वा महादेवी पराशरमनिन्दिता॥
दुःखात्सङ्क्लिन्नसर्वाङ्गमस्राकुलविलोचनम्॥ ६४.८३ ॥

लिङ्गार्चनविधौ सक्तं हर रुद्रेति वादिनम्॥
प्राह भर्तारमीशानं शङ्करं जगतामुमा॥ ६४.८४ ॥

ईप्सितं यच्छ सकलं प्रसीद परमेश्वर॥
निशम्य वचनं तस्याः शङ्करः परमेश्वरः॥ ६४.८५ ॥

भार्यामार्यामुमां प्राह ततो हालाहलाशनः॥
रक्षाम्येनं द्विजं बालं फुल्लेन्दीवरलोचनम्॥ ६४.८६ ॥

ददामि दृष्टिं मद्रूपदर्शनक्षम एष वै॥
एवमुक्त्वा गणैर्दिव्यैर्भगवान्नीललोहितः॥ ६४.८७ ॥

ब्रह्मेन्द्रविष्णुरुद्राद्यैः संवृतः परमेश्वरः॥
ददौ च दर्शनं तस्मै मुनिपुत्राय धीमते॥ ६४.८८ ॥

सोपि दृष्ट्वा महादेवमानन्दास्राविलेक्षणः॥
निपपात च हृष्टात्मा पादयोस्तस्य सादरम्॥ ६४.८९ ॥

पुनर्भवान्याः पादौ च नन्दिनश्च महात्मनः॥
सफलं जीवितं मेद्य ब्रह्माद्यांस्तांस्तदाह सः॥ ६४.९೦ ॥

रक्षार्थमागतस्त्वद्य मम वालेन्दुभूषणः॥
कोन्यः समो मया लोके देवो वा दानवोपि वा॥ ६४.९१ ॥

अथ तस्मिन्क्षणादेव ददर्श दिवि संस्थितम्॥
पितरं भ्रातृभिः सार्ध शाक्तेयस्तु पराशरः॥ ६४.९२ ॥

सूर्यमण्डलसङ्काशे विमाने विश्वतो मुखे॥
भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च॥ ६४.९३ ॥

तदा वृषध्वजो देवः सभार्यः सगणेश्वरः॥
वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम्॥ ६४.९४ ॥

श्रीदेव उवाच॥
शक्ते पश्य सुतं बालमानन्दास्राविलेक्षणम्॥
अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव॥ ६४.९५ ॥

अरुन्धतीं महाभागां कल्याणीं देवतोपमाम्॥
मातरं पितरं चोभौ नमस्कुरु महामते॥ ६४.९६ ॥

तदा हरं प्रणम्याशु देवदेवमुमां तथा॥
वसिष्ठं च तदा श्रेष्ठंशक्तिर्वै शङ्कराज्ञया॥ ६४.९७ ॥

मातरं च महाभागां कल्याणीं पतिदेवताम्॥
अरुन्धतीं जगन्नाथनियोगात्प्राह शक्तिमान्॥ ६४.९८ ॥

वासिष्ठ उवाच॥
भो वत्सवत्स विप्रेन्द्र पराशर महाद्युते॥
रक्षितोहं त्वया तात गर्भस्थेन महात्मना॥ ६४.९९ ॥

अणिमादिगुणैश्वर्यं मया वत्स पराशर॥
लब्धमद्याननं दृष्टं तव बाल ममाज्ञया॥ ६४.१೦೦ ॥

अदृश्यन्तीं महाभागां रक्ष वत्स महामते॥
अरुन्धतीं च पितरं वसिष्ठं मम सर्वदा॥ ६४.१೦१ ॥

अन्वयः सकलो वत्स मम सन्तारितस्त्वया॥
पुत्रेण लोकाञ्जयतीत्युक्तं सद्भिः सदैव हि॥ ६४.१೦२ ॥

ईप्सितं वरयेशानं जगतां प्रभवं प्रभुम्॥
गमिष्याम्यभिवन्द्येशं भ्रातृभिः सह शङ्करम्॥ ६४.१೦३ ॥

एवं पुत्रमुपामन्त्र्य प्रणम्य च महेश्वरम्॥
निरीक्ष्य भार्यां सदसि जगाम पितरं वशी॥ ६४.१೦४ ॥

गतं दृष्ट्वाथ पितरं तदाभ्यर्च्यैव शङ्करम्॥
तुष्टाव वाग्भिरिष्टाभिः शाक्तेयः शशिभूषणम्॥ ६४.१೦५ ॥

ततस्तुष्टो महादेवो मन्मथान्धकमर्दनः॥
अनुगृह्याथ शाक्तेयं तत्रैवान्तरधीयत॥ ६४.१೦६ ॥

गते महेश्वरे साम्बे प्रणम्य च महेश्वरम्॥
ददाह राक्षसानां तु कुलं मन्त्रेण मन्त्रवित्॥ ६४.१೦७ ॥

तदाह पौत्रं धर्मज्ञो वसिष्ठो मुनिभिर्वृतः॥
अलमत्यन्तकोपेन तात मन्युमिमं जहि॥ ६४.१೦८ ॥

राक्षसा नापराध्यन्ति पितुस्ते विहितं तथा॥
मूढानामेव भवति क्रोधो बुद्धिमतां न हि॥ ६४.१೦९ ॥

हन्यते तात कः केन यतः स्वकृतभुक्पुमान्॥
सञ्चितस्यातिमहता वत्स क्लेशेन मानवैः॥ ६४.११೦ ॥

यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः॥
अलं हि राक्षसैर्दग्धैर्दीनैरनपराधिभिः॥ ६४.१११ ॥

सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः॥
एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुङ्गवः॥ ६४.११२ ॥

उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात्॥
ततः प्रीतश्च भगवान्वसिष्ठो मुनिसत्तमः॥ ६४.११३ ॥

सम्प्राप्तश्च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः॥
वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः॥ ६४.११४ ॥

पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः॥
वैरे महति यद्वाक्याद्गुरोरद्याश्रिताक्षमा॥ ६४.११५ ॥

त्वया तस्मात्समस्तानि भवाञ्छास्त्राणि वेत्स्यति॥
सन्ततेर्मम न च्छेदः क्रुद्धेनापि यतः कृतः॥ ६४.११६ ॥

त्वया तस्मान्महाभाग ददम्यन्यं महावरम्॥
पुराणसंहिताकर्ता भवान्वत्स भविष्यति॥ ६४.११७ ॥

देवतापरमार्थं च यथावद्वेत्स्यते भवान्॥
प्रवृत्तौ वा निवृत्तौ वा कर्मणस्तेऽमला मतिः॥ ६४.११८ ॥

मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति॥
ततश्च प्राह भगवान्वसिष्ठो वदतां वरः॥ ६४.११९ ॥

पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति॥
अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः॥ ६४.१२೦ ॥

प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः॥
षट्प्रकारं समस्तार्थसाधकं ज्ञानसञ्चयम्॥ ६४.१२१ ॥

षट्साहस्रमितं सर्वं वेदार्थेन च संयुतम्॥
चतुर्थं हि पुराणानां संहितासु सुशोभनम्॥ ६४.१२२ ॥

एष वः कथितः सर्वे वासिष्ठानां समासतः॥
प्रभवः शक्तिसूनोश्च प्रभावो मुनिपुङ्गवाः॥ ६४.१२३ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे वासिष्ठकथनं नाम चतुःषष्टिमोऽध्यायः॥ ६४ ॥