ऋषय ऊचुः॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम्॥
उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम्॥ ६३.१ ॥
सूत उवाच॥
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते॥
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ ६३.२ ॥
यदा तु सृजतस्तस्य देवर्षिगण पन्नगान्॥
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः॥ ६३.३ ॥
दक्षः पुत्रसहस्राणि पञ्च सूत्यामजीजनत्॥
तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः॥ ६३.४ ॥
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्॥
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च॥ ६३.५ ॥
ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्॥ ६३.६ ॥
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः॥
हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः॥ ६३.७ ॥
सूत्यामेव च पुत्राणां सहस्रमसृजत्प्रभुः॥
शबला नाम ते विप्राः समेताः सृष्टिहेतवः॥ ६३.८ ॥
नारदोनुगतान्प्राह पुनस्तान्सूर्यवर्चसः॥
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः॥ ६३.९ ॥
आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः॥
तेपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा॥ ६३.१೦ ॥
ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः॥
वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा॥ ६३.११ ॥
प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश॥
विंशत्सप्त च सोमाय चतस्रोऽरिष्टनेमये ॥ ६३.१२ ॥
द्वे चैव भृगुपुत्त्राय द्वे कृशाश्वाय धीमते॥
द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरात्॥ ६३.१३ ॥
श्रृणुध्वं देवमातॄणां प्रजाविस्तारमादितः॥
मरुत्वती वसूर्यामिर्लबा भानुररुन्धती॥ ६३.१४ ॥
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनि॥
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्वदामि वः॥ ६३.१५ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा॥ ६३.१६ ॥
भानोस्तु भानवः प्रोक्ता मुहूर्ताया मुहूर्तकाः॥
लम्बाया घोषनामानो नागवीथिस्तु यामिजः॥ ६३.१७ ॥
सङ्कल्पायास्तु सङ्कल्पो वसुसर्गं वदामि वः॥
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्॥ ६३.१८ ॥
वसवस्ते समाख्याताः सर्वभूतहितैषिणः॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः॥ ६३.१९ ॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः॥
अजैकपादहिर्बुध्यो विरुपाक्षः सभैरवः॥ ६३.२೦ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः॥ ६३.२१ ॥
एते रुद्राः समाख्याता एकादश गणेश्वराः॥
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकम्॥ ६३.२२ ॥
अदितिश्च दितिश्चैव अरिष्टा सुरसा मुनिः॥
सुरभिर्विनता ताम्रा तद्वत् क्रोधवशा इला॥ ६३.२३ ॥
कद्रूस्त्विषा दनुस्तद्वत्तासां पुत्रान्वदामि वः॥
तुषिता नाम ये देवाश्चाक्षुषास्यान्तरे मनोः॥ ६३.२४ ॥
वैवस्वतान्तरे ते वै आदित्या द्वादश स्मृताः॥
इन्द्रो धाता भगस्त्वष्ट मित्रोथ वरुणोर्यमा॥ ६३.२५ ॥
विवस्वान्सविता पूषा अंशुमान् विष्णुरेव च॥
एते सहस्रकिरणा आदीत्या द्वादश स्मृताः॥ ६३.२६ ॥
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्॥
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च॥ ६३.२७ ॥
दनुः पुत्रशतं लेभे कश्यपाद्बलदर्पितम्॥
विप्रचित्तिः प्रधानोभूत्तेषां मध्ये द्विजोत्तमाः॥ ६३.२८ ॥
ताम्रा च जनयामास षट् कन्या द्विजपुङ्गवाः॥
शुकीं श्येनीं च भासीं च सुग्रीवीं गृध्रिकां शुचिम्॥ ६३.२९ ॥
शुकी शुकानुलूकांश्च जनयामास धर्मतः॥
श्येनी श्येनांस्तथा भासी कुरङ्गांश्च व्यजीजनत्॥ ६३.३೦ ॥
गृध्री गृध्रान् कपोतांश्च पारावतीविहङ्गमान्॥
हंससारसकारण्डप्लवाञ्छुचिरजीजनत्॥ ६३.३१ ॥
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्॥
विनता जनया मास गरुडं चारुणं शुभा॥ ६३.३२ ॥
सौदामिनीं तथा कन्यां सर्वलोकभयङ्करीम्॥
सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा॥ ६३.३३ ॥
कद्रूः सहस्रशिरसां सहस्रं प्राप सुव्रता॥
प्रधानास्तेषु विख्याताः षड्विंशतिरनुत्तमाः॥ ६३.३४ ॥
शेषवासुकिकर्कोचशङ्खैरावतकम्बलाः॥
धनञ्जयमहानीलपद्माश्वतरतक्षकाः॥ ६३.३५ ॥
एलापत्रमहापद्मधृतराष्ट्रबलाहकाः॥
शङ्खपालमहाशङ्खपुष्पदंष्ट्रशुभाननाः॥ ६३.३६ ॥
शङ्ख लोमा च नहुषो वामनः फणितस्तथा॥
कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृतः॥ ६३.३७ ॥
रक्षोगणं क्रोधवशा महामायं व्यजीजनत्॥
रुद्राणां च गणं तद्वद्गोमहिष्यौ वराङ्गना॥ ६३.३८ ॥
सुरभिर्जनयामास कश्यपादिति नः श्रुतम्॥
मुनिर्मुनीनां च गणं गणमप्सरसां तथा॥ ६३.३९ ॥
तता किन्नरगन्धर्वानरिष्टाजनयद्बहून्॥
तृणवृक्षलतागुल्ममिला सर्वमजीजनत्॥ ६३.४೦ ॥
त्विषा तु यक्षरक्षांसि जनयामास कोटिशः॥
एते तु काश्यपेयाश्च सङ्क्षेपात्परिकीर्तिताः॥ ६३.४१ ॥
एतेषां पुत्रपौत्रादिवंशाश्च बहवः स्मृताः॥
एवं प्रजासु सृष्टासु कश्य पेन महात्मना॥ ६३.४२ ॥
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च॥
अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः॥ ६३.४३ ॥
ततो मनुष्याधिपतिं चक्रे वैवस्वतं मनुम्॥
स्वायम्भुवेन्तरे पूर्वं ब्रह्मणा येऽभिषेचिताः॥ ६३.४४ ॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता॥
यथोपदेशमद्यापि धर्मेण प्रतिपाल्यते॥ ६३.४५ ॥
स्वायम्भुवेन्तरे पूर्वे ब्रह्मणा येऽभिषेचिताः॥
ते ह्येते चाभिषिच्यन्ते मनवश्च भवन्ति ते॥ ६३.४६ ॥
मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः॥
एवमन्येभिषिच्यन्ते प्राप्ते मन्वन्तरे ततः॥ ६३.४७ ॥
अतीतानागताः सर्वे नृपा मन्वन्तरे स्मृताः॥
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात्॥ ६३.४८ ॥
कश्यपो गोत्रकामस्तु चचार स पुनस्तपः॥
पुत्रो गोत्रकरो मह्यं भवतादिति चिन्तयन्॥ ६३.४९ ॥
तस्यैवं ध्यायमानस्य कश्यपस्य महात्मनः॥
ब्रह्मयोगात्सुतौ पश्चात्प्रादुर्भूतौ महौजसौ॥ ६३.५೦ ॥
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ॥
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः॥ ६३.५१ ॥
रैभ्यस्य रैभ्या विज्ञेया नैध्रुवस्य वदामि वः॥
च्यवनस्य तु कन्यायां सुमेधाः समपद्यत॥ ६३.५२ ॥
नैध्रुवस्य तु सा पत्नी माता वै कुण्डपायिनाम्॥
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत॥ ६३.५३ ॥
शाण्डिल्यानां वरः श्रीमान्देवलः सुमहातपाः॥
शाण्डिल्या नैध्रुवा रैभ्यास्त्रयः पक्षास्तु काश्यपाः॥ ६३.५४ ॥
नव प्रकृतयो देवाः पुलस्त्यस्य वदामि वः॥
चतुर्युगे ह्यतिक्रान्ते मनोरेकादशे प्रभोः॥ ६३.५५ ॥
अर्धावशिष्टे तस्मिंस्तु द्वापरे सम्प्रवर्तिते॥
मानवस्य नरिष्यन्तः पुत्र सीद्दमः किल॥ ६३.५६ ॥
दमस्य तस्य दायादस्तृणबिन्दुरिति स्मृतः॥
त्रेतायुगमुखे राजा तृतीये सम्बभूव ह॥ ६३.५७ ॥
तस्य कन्या त्विलविला रूपेणाप्रतिमाभवत्॥
पुरस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत्॥ ६३.५८ ॥
ऋषिरैरविलो यस्यां विश्रवाः समपद्यत॥
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः॥ ६३.५९ ॥
बृहस्पतेः शुभा कन्या नाम्ना वै देववर्णिनी॥
पुष्पोत्कटा बलाका च सुते माल्यवतः स्मृतेः॥ ६३.६೦ ॥
कैकसी मालिनः कन्या तासां वै श्रृणुत प्रजाः॥
ज्येष्ठं वैश्रवणं तस्मात्सुषुवे देव वर्णिनी॥ ६३.६१ ॥
कैकसी चाप्यजनयद्रावणं राक्षसाधिपम्॥
कुम्भकर्णं शूर्पनखां धीमन्तं च विभीषणम्॥ ६३.६२ ॥
पुष्पोत्कटा ह्यजनयत्पुत्रांस्तस्माद्द्विजोत्तमाः॥
महोदरं प्रहस्तं च महापार्श्वं खरं तथा॥ ६३.६३ ॥
कुम्भीनसीं तथा कन्यां बलायाः श्रृणुत प्रजाः॥
त्रिशिरा दूषमश्चैव विद्युज्जिह्वश्च राक्षसः॥ ६३.६४ ॥
कन्या वै मालिका चापि बलायाः प्रसवः स्मृतः॥
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव॥ ६३.६५ ॥
विभीषणोतिशुद्धात्मा धर्मज्ञः परिकीर्तितः॥
पुलस्त्यस्य मृगाः पुत्राः सर्वे व्याघ्रश्च दंष्ट्रिणः॥ ६३.६६ ॥
भूताः पिशाचाः सर्पाश्च सूकरा हस्तिनस्तथा॥
वानराः किन्नराश्चैव ये च किम्पुरुषास्तथा॥ ६३.६७ ॥
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेन्तरे॥
अत्रेः पत्न्यो दशैवासन् सुन्दर्यश्च पतिव्रताः॥ ६३.६८ ॥
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः॥
भद्राभद्रा च जलदा मन्दा नन्दा तथैव च॥ ६३.६९ ॥
बलाबला च विप्रेन्द्रा या च गोपाबला स्मृता॥
तथा तामरसा चैव वरक्रीडा च वै दश॥ ६३.७೦ ॥
आत्रेयवंशप्रभवा स्तासां भर्ता प्रभाकरः॥
स्वर्भानुपिहिते सूर्ये पतितेस्मिन्दिवो महीम्॥ ६३.७१ ॥
तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्तिता॥
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः॥ ६३.७२ ॥
ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः॥
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः॥ ६३.७३ ॥
भद्रायां जनयामास सोमं पुत्रं यशस्विनम्॥
स तासु जनयामास पुनः पुत्रांस्तपोधनः॥ ६३.७४ ॥
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः॥
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ॥ ६३.७५ ॥
दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः॥
यवीयसी स्वसा तेषाममला ब्रह्मवादिनी॥ ६३.७६ ॥
तस्य गोत्रद्वये जाताश्चत्वारः प्रथिता भुवि॥
श्यावश्च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः॥ ६३.७७ ॥
आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम्॥
काश्यपो नारदश्चैव पर्वतानुद्धतस्तथा॥ ६३.७८ ॥
जज्ञिरे मानसा ह्येते अरुन्धत्या निबोधत॥
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत्॥ ६३.७९ ॥
ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः॥
पुरा देवासुरे युद्धे घोरे वै तारकामये॥ ६३.८೦ ॥
अनावृष्ट्या हते लोके ह्युग्रे लोकेश्वरैः सह॥
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः॥ ६३.८१ ॥
अन्नोदकं मूलफलमोषधीश्च प्रवर्तयन्॥
तानेताञ्जीवयामास कारुण्यादौषधेन च॥ ६३.८२ ॥
अरुन्धत्यां वसिष्ठस्तु सुतानुत्पादयच्छतम्॥
ज्यायसोजनयच्छक्तेरदृश्यन्ती पराशरम्॥ ६३.८३ ॥
रक्षसा भक्षिते शक्तौ रुधिरेण तु वै तदा॥
काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम्॥ ६३.८४ ॥
द्वैपायनो ह्यरण्यां वै शुकमुत्पादयत्सुतम्॥
उपमन्युं च पीवर्यां विद्धीमे शुकसूनवः॥ ६३.८५ ॥
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरस्तु पञ्चमः॥
कन्या कीर्ति मती चैव योगमाता धृतव्रता॥ ६३.८६ ॥
जननी ब्रह्मदत्तस्य पत्नी सा त्वनुहस्य च॥
श्वेतः कृष्णश्च गौरश्च श्यामो धूम्रस्तथारुणः॥ ६३.८७ ॥
नीलो बादरिकश्चैव सर्वे चैते पराशराः॥
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम्॥ ६३.८८ ॥
अत ऊर्ध्वं निबोधध्वमिन्द्रप्रमितिसम्भवम्॥
वसिष्ठस्य कपिञ्जल्यो घृताच्यामुदपद्यत॥ ६३.८९ ॥
त्रिमूर्तिर्यः समाख्यात इन्द्रप्रमितिरुच्यते॥
पृथोः सुतायां सम्भूतो भद्रस्तस्या भवद्वसुः॥ ६३.९೦ ॥
उपमन्युः सुतस्तस्य बहवो ह्यौपमन्यवः॥
मित्रावरुणयोश्चैव कौण्डिन्या ये परिश्रुताः॥ ६३.९१ ॥
एकार्षेयास्तथा चान्ये वासिष्ठा नाम विश्रुताः॥
एते पक्षा वसिष्ठानां स्मृता दश महात्मनाम्॥ ६३.९२ ॥
इत्येते ब्रह्मणः पुत्रा मानसा विश्रुता भुवि॥
भर्तारश्च महाभागा एषां वंशाः प्रकीर्तिताः॥ ६३.९३ ॥
त्रिलोकधारणे शक्ता देवर्षिकुलसम्भवाः॥
तेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः॥ ६३.९४ ॥
यैस्तु व्याप्तास्त्रयो लोकाः सूर्यस्येव गभस्तिभिः॥ ६३.९५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमोऽध्यायः॥ ६३॥