ऋषय ऊचुः॥
कथं विष्णोः प्रसादाद्वै ध्रुवो बुद्धिमतां वरः॥
मेढीभूतो ग्राहाणां वै वक्तुमर्हसि साम्प्रतम्॥ ६२.१ ॥
सूत उवाच॥
एतमर्थं मया पृष्टो नानाशास्त्रविशारदः॥
मार्कण्डेयः पुरा प्राह मह्यं शुश्रूषवे द्विजाः॥ ६२.२ ॥
मार्कण्डेय उवाच॥
सार्वभौमो महातेजाः सर्वशस्त्रभृतां वरः॥
उत्तानपादो राजा वै पालयामास मेदिनीम्॥ ६२.३ ॥
तस्य भार्याद्वयमभूत्सुनीतिः सुरुचिस्तथा॥
अग्रजायामभूत्पुत्रः सुनीत्यां तु महा यशाः॥ ६२.४ ॥
ध्रुवो नाम महाप्राज्ञः कुलदीपो महामतिः॥
कदाचित्सप्तवर्षोपि पितुरङ्कमुपाविशत्॥ ६२.५ ॥
सुरुचिस्तं विनिर्धूय स्वपुत्रं प्रीतिमानसा॥
न्यवेशयत्तं विप्रेन्द्रा ह्यङ्कं रूपेण मानिता॥ ६२.६ ॥
अलब्ध्वा स पितुर्धीमानङ्कं दुःखितमानसः॥
मातुः समीपमागम्य रुरोद स पुनः पुनः॥ ६२.७ ॥
रुदन्तं पुत्रमाहेदं माता शोकपरिप्लुता॥
सुरुचिर्दयिता भर्तुस्तस्याः पुत्रोपि तादृशः॥ ६२.८ ॥
मम त्वं मन्दभाग्याया जातः पुत्रोप्यभाग्यवान्॥
किं शोचसि किमर्थं त्वं रोदमानः पुनः पुनः॥ ६२.९ ॥
सन्तप्तहृदयो भूत्वा मम शोकं करिष्यसि॥
स्वस्थस्थानं ध्रुवं पुत्र स्वशक्त्या त्वं समाप्नुयाः॥ ६२.१೦ ॥
इत्युक्तः स तु मात्रा वै निर्जगाम तदा वनम्॥
विश्वामित्रं ततो दृष्ट्वा प्रणिपत्य यथाविधि॥ ६२.११ ॥
उवाच प्राञ्जलिर्भूत्वा भगवन् वक्तुमर्हसि॥
सर्वेषामुपरिस्थानं केन प्राप्स्यामि सत्तम॥ ६२.१२ ॥
पितुरङ्के समासीनं माता मां सुरुचिर्मुने॥
व्यधूनयत्स तं राजा पिता नोवाच किञ्चन॥ ६२.१३ ॥
एतस्मात्कारणाद्ब्रह्मंस्त्रस्तोहं मातरं गतः॥
सुनीतिराह मे माता माकृथाः शोकमुत्तमम्॥ ६२.१४ ॥
स्वकर्मणा परं स्थानं प्राप्तुमर्हसि पुत्रक॥
तस्या हि वचनं श्रुत्वा स्थानं तव महामुने॥ ६२.१५ ॥
प्राप्तो वनमिदं ब्रह्मन्नद्य त्वां दृष्टवान्प्रभो॥
तव प्रसादात्प्राप्स्येहं स्थानमद्भुतमुत्तमम्॥ ६२.१६ ॥
इत्युक्तः स मुनिः श्रीमान्प्रहसन्निदमब्रवीत्॥
राजपुत्र श्रृणुष्वेदं स्थानमुत्तममाप्स्यसि॥ ६२.१७ ॥
आराध्य जगतामीशं केशवं क्लेशनाशनम्॥
दक्षिणाङ्गभवं शम्भोर्महादेवस्य धीमतः॥ ६२.१८ ॥
जप नित्यं महाप्राज्ञ सर्वपाप विनाशनम्॥
इष्टदं परमं शुद्धं पवित्रममलं परम्॥ ६२.१९ ॥
ब्रूहि मन्त्रमिमं दिव्यं प्रणवेन समन्वितम्॥
नमोस्तु वासुदेवाय इत्येवं नियतेन्द्रियः॥ ६२.२೦ ॥
ध्यायन्सनातनं विष्णुं जपहोमपरायणः॥
इत्युक्तः प्रणिपत्यैनं विश्वामित्रं महायशाः॥ ६२.२१ ॥
प्राङ्मुखो नियतो भूत्वा जजाप प्रीतमानसः॥
शाकमूलफलाहारः संवत्सरमतन्द्रितः॥ ६२.२२ ॥
जजाप मन्त्रमनिशमजस्रं स पुनः पुनः॥
वेताला राक्षसा घोराः सिंहाद्याश्च महामृगाः॥ ६२.२३ ॥
तमभ्ययुर्महात्मानं बुद्धिमोहाय भीषणाः॥
जपन् स वासुदेवेति न किञ्चित्प्रत्यपद्यत॥ ६२.२४ ॥
सुनीति रस्य या माता तस्या रूपेण संवृता॥
पिशाचि समनुप्राप्ता रुरोद भृशदुःखता॥ ६२.२५ ॥
मम त्वमेकः पुत्रोसि किमर्थं क्लिश्यते भवान्॥
मामनाथामपहाय तप आस्थितवानसि॥ ६२.२६ ॥
एवमादीनि वाक्यानि भाषमाणां महातपाः॥
अनिरीक्ष्यैव हृष्टात्मा हरेर्नाम जजाप सः॥ ६२.२७ ॥
ततः प्रशेमुः सर्वत्र विघ्नरूपाणि तत्र वै॥
तता गरुडमारुह्य कालमघसमद्युतिः॥ ६२.२८ ॥
सर्वदेवैः परिवृतः स्तूयमानो महर्षिभिः॥
आययौ भगवान्विष्णुः ध्रुवान्तिकमरातिहा॥ ६२.२९ ॥
समागतं विलोक्याथ कोसावित्येव चिन्तयन्॥
पिबन्निव हृषीकेशं नय नाभ्यां जगत्पतिम्॥ ६२.३೦ ॥
जपन् स वासुदेवेति ध्रुवस्तस्थौ महाद्युतिः॥
शङ्खप्रान्तेन गोविन्दः पस्पर्शास्यं हि तस्य वै॥ ६२.३१ ॥
ततः स परमं ज्ञानमवाप्य पुरुषोत्तमम्॥
तुष्टाव प्राञ्जलिर्भूत्वा सर्वलोकेश्वरं हरिम्॥ ६२.३२ ॥
प्रसीद देवदेवेश शङ्खचक्रगदाधर॥
लोकात्मन् वेदगुह्यात्मन् त्वां प्रपन्नोस्मि केशव॥ ६२.३३ ॥
न विदुस्त्वां महात्मानं सनकाद्या महर्षयः॥
तत्कथं त्वामहं विद्यां नमस्ते भुवनेश्वर॥ ६२.३४ ॥
तमहा प्रहसन्विष्णुरेहि वत्स ध्रुवो भवान्॥
स्थानं ध्रुवं समासाद्य ज्योतिषामग्रभुग्भव॥ ६२.३५ ॥
मात्रा त्वं सहितस्तत्र ज्योतिषां स्थानमाप्नुहि॥
मत्स्थानमेतत्परमं ध्रुवं नित्यं सुशोभनम्॥ ६२.३६ ॥
तपसाराध्य देवेशं पुरा लब्धं हि शङ्करात्॥
वासुदेवेति यो नित्यं प्रणवेन समन्वितम्॥ ६२.३७ ॥
नमस्कारसमायुक्तं भगवच्छब्दसुंयुतम्॥
जपेदेवं हि यो विद्वान्ध्रुवं स्थानं प्रपद्यते॥ ६२.३८ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥
मात्रा सह ध्रुवं सर्वे तस्मिन् स्थाने न्यवेशयन्॥ ६२.३९ ॥
विष्णोराज्ञां पुरस्कृत्य ज्योतिषां स्थानमाप्तवान्॥
एवं ध्रुवो महातेजा द्वादशाक्षरविद्यया॥ ६२.४೦ ॥
अवाप महतीं सिद्धिमेतत्ते कथितं मया॥ ६२.४१ ॥
सूत उवाच॥
तस्माद्यो वासुदेवाय प्रणामं कुरुते नरः॥
स याति ध्रुवसालोक्यं ध्रुवत्वं तस्य तत्तथा॥ ६२.४२ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे ध्रुवसंस्थानवर्णनं नाम द्विषष्टितमोऽध्यायः॥ ६२ ॥