सूत उवाच॥
क्षेत्राण्येतानि सर्वाणि आतपन्ति गभस्तिभिः॥
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्र तारकाः॥ ६१.१ ॥
चीर्णेन सुकृतेनेह सुकृतान्ते ग्रहाश्रयाः॥
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः॥ ६१.२ ॥
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः॥
आदानान्नित्यमादित्यस्तेजसां तमसामपि॥ ६१.३ ॥
सवने स्यन्दनेऽर्थे च धातुरेष विभाष्यते॥
सवनात्तेजसोऽपां च तेनासौ सविता मतः॥ ६१.४ ॥
बहुलश्चन्द्र हित्येष ह्लादने धातुरुच्यते॥
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते॥ ६१.५ ॥
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे॥
जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे॥ ६१.६ ॥
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम्॥
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु॥ ६१.७ ॥
वसन्ति सर्वदेवाश्च स्थानान्येतानि सर्वशः॥
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः॥ ६१.८ ॥
तेन ग्रहागृहाण्येव तदाख्यास्ते भवन्ति च॥
सौरं सूर्योऽविशत्स्थानं सौम्यं सोमस्तथैव च॥ ६१.९ ॥
शौक्रं शुक्रोऽविशत्स्थानं षोडशार्चिः प्रतापवान्॥
बृहद्ब्रृहस्पतिश्चैव लोहितश्चैव लोहितम्॥ ६१.१೦ ॥
शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः॥
बौधं बुधस्तु स्वर्भानुः स्वर्भानुस्थानमाश्रितः॥ ६१.११ ॥
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्ति च॥
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम्॥ ६१.१२ ॥
कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयम्भुवा॥
स्थानान्येतानि तिष्ठन्ति यावदाभूतसम्प्लवम्॥ ६१.१३ ॥
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै॥
अभिमानिनोऽवतिष्ठन्ते देवाः स्थानं पुनः पुनः॥ ६१.१४ ॥
अतितैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह॥
वर्तन्ते वर्तमानैश्च स्थानिभिस्तैः सुरैः सह॥ ६१.१५ ॥
अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः॥
विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेन्तरे॥ ६१.१६ ॥
द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः॥
शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः॥ ६१.१७ ॥
बृहत्तेजाः स्मृतो देवो देवाचार्योङ्गिरासुतः॥
बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः॥ ६१.१८ ॥
शनैश्चरो विरूपस्तु सञ्ज्ञापुत्रो विवस्वतः॥
अग्निर्विकेश्यां जज्ञे तु युवाऽसौ लोहितार्चिषः॥ ६१.१९ ॥
नक्षत्रऋक्षनामिन्यो दाक्षायण्यस्तु ताः स्मृताः॥
स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः॥ ६१.२೦ ॥
सोमर्क्षग्रहसूर्येषु कीर्तितास्त्वभिमानिनः॥
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः॥ ६१.२१ ॥
सौरमग्नि मयं स्थानं सहस्रांशोर्विवस्वतः॥
हिमांशोस्तु स्मृतं स्थानमम्मयं शुक्लमेव च॥ ६१.२२ ॥
आप्यं श्यामं मनोज्ञं च बुधरश्मिगृहं स्मृतम्॥
शुक्लस्याप्यम्मयं शुक्लं पदं षोडशरश्मिवत्॥ ६१.२३ ॥
नवरश्मि तु भौमस्य लोहितं स्तानमुत्तमम्॥
हरिद्रभं बृहच्चापि षोडशार्चिर्बृहस्पतेः॥ ६१.२४ ॥
अष्टरश्मिगृहं चापि प्रोक्तं कृष्णं शनैश्चरे॥
स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम्॥ ६१.२५ ॥
विज्ञेयस्तारकाः सर्वास्त्वृषयस्त्वेकरश्मयः॥
आश्रयाः पुण्यकीर्तिनां शुक्लाश्चापि स्ववर्णतः॥ ६१.२६ ॥
घनतोयात्मिका ज्ञेयाः क्लपादावेव निर्मिताः॥
आदित्यरश्मिसंयोगात्सम्प्रकाशात्मिकाः स्मृताः॥ ६१.२७ ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः॥
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः॥ ६१.२८ ॥
द्विगुणः सूर्यविस्ताराद्विस्तारः शाशिनः स्मृतः॥
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति॥ ६१.२९ ॥
उद्धृत्य पृथिवीछायां निर्मितं मण्डलाकृतिम्॥
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्॥ ६१.३೦ ॥
आदित्यात्तच्च निष्क्रम्य समं गच्छति पर्वसु॥
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु॥ ६१.३१ ॥
स्वर्भानुं नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते॥
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते॥ ६१.३२ ॥
विष्कम्भान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः॥
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः॥ ६१.३३ ॥
बृहस्पतेः पादहीनौ वक्रसौरी उभौ स्मृतौ॥
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः॥ ६१.३४ ॥
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै॥
बुधेन तानि तुल्यानि विस्तारान्मण्डलाच्च वै॥ ६१.३५ ॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्॥
तारानक्षत्ररूपाणि हीनानि तु परस्परम्॥ ६१.३६ ॥
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने॥
सर्वोपरि निकृष्टानि तारका मण्डलानि तु॥ ६१.३७ ॥
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते॥
उपरिष्टात्त्रयस्तेषां ग्रहास्ते दूरसर्पिणः॥ ६१.३८ ॥
सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः॥
पूर्वमेव समाख्याता गतिस्तेषां यथाक्रमम्॥ ६१.३९ ॥
एतेष्वेव ग्रहः सर्वे नक्षत्रेषु समुत्थिताः॥
विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः॥ ६१.४೦ ॥
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः॥
त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः॥ ६१.४१ ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः॥
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्॥ ६१.४२ ॥
ताराग्रहाणां प्रवरस्तिष्ये क्षेत्रे समुत्थितः॥
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः॥ ६१.४३ ॥
फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः॥
नवर्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः॥ ६१.४४ ॥
आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः॥
रेवतीष्वेव सप्तार्चिःस्थाने सौरिः शनैश्चरः॥ ६१.४५ ॥
सौम्यो बुधो धनिष्ठासु पञ्चर्चिरुदितो ग्रहः॥
तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी॥ ६१.४६ ॥
आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः॥
तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः॥ ६१.४७ ॥
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः॥
भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः॥ ६१.४८ ॥
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः॥
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः॥ ६१.४९ ॥
मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः॥
सर्वग्रहाणामेतेषामादिरादित्य उच्यते॥ ६१.५೦ ॥
ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान्॥
ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम्॥ ६१.५१ ॥
नक्षत्राणां श्रपिष्ठा स्यादयनानां तथोत्तरम्॥
वर्षाणां चैव पञ्चानामाद्यः संवत्सरः स्मृतः॥ ६१.५२ ॥
ऋतूनां शिशिरश्चापि मासानां माघ उच्यते॥
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा॥ ६१.५३ ॥
अहोरात्रविभागानामहश्चादिः प्रकीर्तितः॥
मुहूर्तानां तथैवादिर्मुहूर्तो रुद्रदैवतः॥ ६१.५४ ॥
क्षणश्चापि निमेषादिः कालः कालविदां वराः॥
श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम्॥ ६१.५५ ॥
भानोर्गतिविशेषेण चक्रवत्परिवर्तते॥
दिवाकरः स्मृतस्तस्मात्कालकृद्विभुरीश्वरः॥ ६१.५६ ॥
चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः॥
तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः॥ ६१.५७ ॥
इत्येष ज्योतिषामेवं सन्निवेशोर्थनिश्चयः॥
लोकसंव्यवहारार्थं महादेवेन निर्मितः॥ ६१.५८ ॥
बुद्धिपूर्वं भगवता कल्पादौ सम्प्रवर्तितः॥
स आश्रयोभिमानी च सर्वस्य ज्योतिरात्मकः॥ ६१.५९ ॥
एकरूपप्रधानस्य परिणामोयमद्भुतः॥
नैष शक्यः प्रसङ्ख्यातुं याथातथ्येन केनचित्॥ ६१.६೦ ॥
गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा॥
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः॥ ६१.६१ ॥
परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता॥
चक्षुः शास्त्रं जलं लेख्यं गणितं मुनिसत्तमाः॥ ६१.६२ ॥
पञ्चैते हेतवो ज्ञेया ज्योतिर्मानविनिर्णये॥ ६१.६३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे ग्रहसङ्ख्यावर्णनं नामैकषष्टितमोध्यायः॥ ६१ ॥