०६०

सूत उवाच॥
शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः॥
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः॥ ६೦.१ ॥

शेषाणां प्रकृतिं सम्यग्वक्ष्यमाणां निबोधत॥
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः॥ ६೦.२ ॥

नारायणं बुधं प्राहुर्देवं ज्ञानविदो जनाः॥
सर्वलोकप्रभुः साक्षाद्यमो लोकप्रभुः स्वयम्॥ ६೦.३ ॥

महाग्रहो द्विजश्रेष्ठा मन्दगामी शनैश्चरः॥
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ॥ ६೦.४ ॥

प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती॥
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः॥ ६೦.५ ॥

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम्॥
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राग्निदिवौकसाम्॥ ६೦.६ ॥

द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम्॥
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः॥ ६೦.७ ॥

सूर्य एव त्रिलोकेशो मूलं परमदैवतम्॥
ततः सञ्जायते सर्वं तत्रैव प्रविलीयते॥ ६೦.८ ॥

भावाभावौ हि लोकानामादित्यान्निस्सृतौ पुरा॥
अविज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः॥ ६೦.९ ॥

अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः॥
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः॥ ६೦.१೦ ॥

मासाः संवत्सरश्चैव ऋतवोऽथ युगानि च॥
तदादित्या दृते ह्येषा कालसङ्ख्या न विद्यते॥ ६೦.११ ॥

कालादृते न नियमो न दीक्षा नाह्निकक्रमः॥
ऋतूनां च विभागश्च पुष्पं मूलं फलं कुतः॥ ६೦.१२ ॥

कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोपि च॥
अभावो व्यवहाराणां जन्तूनां दिवि चेह च॥ ६೦.१३ ॥

जगत्प्रतापनमृते भास्करं रुद्ररूपिणम्॥
स एष कालश्चाग्निस्च द्वादशात्मा प्रजापतिः॥ ६೦.१४ ॥

तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम्॥
स एष तेजसां राशिः समस्तः सार्वलौकिकः॥ ६೦.१५ ॥

उत्तमं मार्गमास्थाय रात्र्यहोभिरिदं जगत्॥
पार्श्वतोर्ध्वमधश्चैव तापयत्येष सर्वशः॥ ६೦.१६ ॥

यथा प्रभाकरो दीपो गृहमध्येऽवलम्बितः॥
पार्श्वतोर्ध्वामधश्चैव तमो नाशयते समम्॥ ६೦.१७ ॥

तद्वत्सहस्रकिरणो ग्रहराजो जगत्प्रभुः॥
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः॥ ६೦.१८ ॥

रवे रश्मिसहस्रं यत्प्राङ्मया समुदाहृतम्॥
तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः॥ ६೦.१९ ॥

सुषुम्नो हरि केशश्च विश्वकर्मा तथैव च॥
विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः॥ ६೦.२೦ ॥

सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः॥
सुषुम्नः सूर्य रश्मिस्तु दक्षिणां राशिमैधयत्॥ ६೦.२१ ॥

न्यगूर्ध्वाधः प्रचारोऽस्य सुषुम्नः परिकीर्तितः॥
हरिकेशः पुरस्ताद्यो ऋक्षयोनिः प्रकीर्त्यते॥ ६೦.२२ ॥

दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम्॥
विश्वव्यचास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः॥ ६೦.२३ ॥

सन्नद्धश्च तु यो रश्मिः स योनि र्लोहितस्य तु॥
षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः॥ ६೦.२४ ॥

शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट्र॥
एवं सूर्यप्रभावेन नक्षत्रग्रह तारकाः॥ ६೦.२५ ॥

दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत्॥
न क्षीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता॥ ६೦.२६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे षष्टितमोऽध्यायः॥ ६೦ ॥