सूत उवाच॥
एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयन्विताः॥
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम्॥ ५९.१ ॥
ऋषय ऊचुः॥
यदेतदुक्तं भवता सूतेह वदतां वर॥
एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम्॥ ५९.२ ॥
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः॥
उवाच परमं वाक्यं तेषां संशयनिर्णये॥ ५९.३ ॥
अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं शान्तबुद्धिभिः॥
एतद्वोहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम्॥ ५९.४ ॥
यथा देवगृहाणीह सूर्यचन्द्रादयो ग्रहाः॥
अतः परं तु त्रिविधमग्नेर्वक्ष्ये समुद्भवम्॥ ५९.५ ॥
दिव्यस्य भौतिक स्याग्नेरथोग्नेः पार्थिवस्य च॥
व्युष्टायां तु रजन्यां च ब्रह्मणोऽव्यक्तजन्मनः॥ ५९.६ ॥
अव्याकृतमिदं त्वासीन्नैशेन तमसा वृतम्॥
चतुर्भागावशिष्टेऽस्मिन् लोके नष्टे विशेषतः॥ ५९.७ ॥
स्वयम्भूर्भगवांस्तत्र लोकसर्वार्थसाधकः॥
खद्योतवत्स व्यचरदाविर्भावचिकीर्षया॥ ५९.८ ॥
सोग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः॥
संहृत्य तत्प्रकाशार्थं त्रिधा व्यभजदीश्वरः॥ ५९.९ ॥
पवनो यस्तु लोकेस्मिन्पार्थिवो वह्निरुच्यते॥
यश्चासौ लोकादौ सूर्ये शुचिरग्निस्तु स स्मृतः॥ ५९.१೦ ॥
वैद्युतोब्जस्तु विज्ञेयस्तेषां वक्ष्ये तु लक्षणम्॥
वैद्युतो जाठरः सौरो वारिगर्भास्त्रयोऽग्नयः॥ ५९.११ ॥
तस्मादपः पिबन्सूर्यो गोभिर्दोप्यत्यसौ विभुः॥
जले चाब्जः समाविष्टो नाद्भिराग्निः प्रशाम्यति॥ ५९.१२ ॥
मानवानां च कुक्षिस्थो नाग्निः शाम्यति पावकः॥
अर्चिष्मान्पवनः सोग्निर्निष्प्रभो जाठरः स्मृतः॥ ५९.१३ ॥
यश्चायं मण्डली सुक्ली निरूष्मा सम्प्रजायते॥
प्रभा सौरी तु पादेन ह्यस्तं याते दिवाकरे॥ ५९.१४ ॥
अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते॥
उद्यन्तं च पुनः सूर्यमौष्यमग्नेः समाविशेत्॥ ५९.१५ ॥
पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ॥
प्रकाशोष्णस्वरूपे च सौराग्नेये तु तेजसी॥ ५९.१६ ॥
परस्परानुप्रवेशादाप्यायेते परस्परम्॥
उत्तरे चैव भूम्यर्धे तथा ह्यग्निश्च दक्षिणे॥ ५९.१७ ॥
उत्तिष्ठति पुनः सूर्यः पुनर्वै प्रविशत्यपः॥
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात्॥ ५९.१८ ॥
अस्तं याति पुनः सूर्यो अहर्वै प्रविशत्यपः॥
तस्मान्नक्तं पुनः शुक्ला आपो दृश्यन्ति भास्वराः॥ ५९.१९ ॥
एतेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे॥
उदयास्तमने नित्यमहोरात्रं विशत्यपः॥ ५९.२೦ ॥
यश्चासौ तपते सूर्यः पिबन्नम्भो गभस्तिभिः॥
पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः॥ ५९.२१ ॥
सहस्रपादसौ वह्निर्वृत्तकुम्भनिभः स्मृतः॥
आदत्ते स तु नाडीनां सहस्रेण समन्ततः॥ ५९.२२ ॥
नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः॥
स्थावरा जङ्गमाश्चैव वापीकुल्यादिका अपः॥ ५९.२३ ॥
तस्य रश्मिसहस्रं तच्छीतवर्षोष्ण निस्स्रवम्॥
तासां चतुःशता नाड्यो वर्षन्ते चित्रमूर्तयः॥ ५९.२४ ॥
भजनाश्चैव माल्याश्च केचनाः पतनास्तथा॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः॥ ५९.२५ ॥
हिमोद्वहाश्च ता नाड्यो रश्मयस्त्रिशताः पुनः॥
रेशा मेघाश्च वात्स्याश्च ह्लादिन्यो हिमसर्जनाः॥ ५९.२६ ॥
चन्द्रभा नामतः सर्वा पीताभाश्च गभस्तयः॥
शुक्लाश्च ककुभाश्चैव गावो विश्वभृतस्तथा॥ ५९.२७ ॥
शुक्लास्ता नामतः सर्वास्त्रिशतीर्घर्मसर्जनाः॥
सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः॥ ५९.२८ ॥
मनुष्यानौषधेनेह स्वधया च पितॄनपि॥
अमृतेन सुरान्सर्वांस्तिसृभिस्तर्पयत्यसौ॥ ५९.२९ ॥
वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः॥
वर्षास्वथो शरदि च चतुर्भिः सम्प्रवर्षति॥ ५९.३೦ ॥
हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः॥
इन्द्रो धाता भगः पूषा मित्रोथ वरुणोर्यमा॥ ५९.३१ ॥
अंशुर्विवस्वांस्त्वष्टा च पर्जन्यो विष्णुरेव च॥
वरुणो माघमासे तु सूर्य एव तु फाल्गुने॥ ५९.३२ ॥
चैत्रे मासी भवेदंशुर्धाता वैशाखतापनः॥
ज्येष्ठे मासि भवेदिन्द्र आषाढे चार्यमा रविः॥ ५९.३३ ॥
विवस्वान् श्रवणे मासि प्रोष्ठपादे भगः स्मृतः॥
पर्जन्याश्वयुजे मासि त्वष्टा वै कार्तिके रविः॥ ५९.३४ ॥
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः॥
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि॥ ५९.३५ ॥
षड्भिः सहस्रैः पूषा तु देवोंशुः सप्तभिस्तथा॥
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः॥ ५९.३६ ॥
विवस्वान् दशभिर्याति यात्येकादशभिर्भगः॥
सप्तभिस्तपते मित्रस्त्वष्टा चौवाष्टभिः स्मृतः॥ ५९.३७ ॥
अर्यमा दशभिर्याति पर्जन्यो नवभिस्तथा॥
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति मेदिनीम्॥ ५९.३८ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः॥
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः॥ ५९.३९ ॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः॥
इति वर्णाः समाख्याता मया सूर्यसमुद्भवाः॥ ५९.४೦ ॥
ओषधीषु बलं धत्ते स्वधया च पितृष्वपि॥
सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु नियच्छति॥ ५९.४१ ॥
एवं रश्मिसहस्रं तत्सौरं लोकार्थसाधकम्॥
भिद्यते लोकमासाद्य जलशीतोष्णनिस्स्रवम्॥ ५९.४२ ॥
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसञ्ज्ञितम्॥
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च॥ ५९.४३ ॥
चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः॥
नक्षत्राधिपतिः सोमो नयनं वाममीशितुः॥ ५९.४४ ॥
नयनं चैव मीशस्य दक्षिणं भास्करः स्वयम्॥
तेषां जनानां लोकेस्मिन्नयनं नयते यतः॥ ५९.४५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरश्मिस्वरूप कथनं नामेकोनषष्टितमोध्यायः॥ ५९ ॥