०५७

सूत उवाच॥
अष्टभिश्च हयैर्युक्तः सोमपुत्रस्य वै रथः॥
वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः॥ ५७.१ ॥

दशभिश्चाकृशैरश्वैर्नानावर्णै रथः स्मृतः॥
शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः॥ ५७.२ ॥

अष्टाश्वश्चाथ भौमस्य रथो हैमः सुशोभनः॥
जीवस्य हैमश्चाष्टाश्वोमन्दस्यायसनिर्मितः॥ ५७.३ ॥

रथ आपोमयैरश्वैर्दशभिस्तु सितेतरैः॥
स्वर्भानोर्भास्करारेश्च तथा चाष्टहयः स्मृतः॥ ५७.४ ॥

सर्वे ध्रुवनिबद्धावै ग्रहास्ते वातरश्मिभिः॥
एतेन भ्राम्यमाणाश्च यथायोगं व्रजन्ति वै॥ ५७.५ ॥

यावन्त्यश्चैव ताराश्च तावन्तश्चैव रश्मयः॥
सर्वे ध्रुवनिबद्धाश्च भ्रमन्तो भ्रामयन्ति तम्॥ ५७.६ ॥

अलातचक्रवद्यान्ति वातचक्रेरितानि तु॥
यस्माद्वहति ज्योतींषि प्रवहस्तेन स स्मृतः॥ ५७.७ ॥

नक्षत्रसूर्याश्च तथा ग्रहतारागणैः सह॥
उन्मुकाभिमुखाः सर्वे चक्रभूताः श्रिता दिवि॥ ५७.८ ॥

ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्॥
प्रयान्ति चेश्वरं द्रष्टुं मेढीभूतं ध्रुवं दिवि॥ ५७.९ ॥

नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः॥
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः॥ ५७.१೦ ॥

द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः॥
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति॥ ५७.११ ॥

उद्धृत्य पृथिविछायां निर्मितां मण्डलाकृतिम्॥
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्॥ ५७.१२ ॥

चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते॥
विष्कम्भान्मण्डलाच्चैव योजनाच्च प्रमाणतः॥ ५७.१३ ॥

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः॥
पादहीनौ वक्रसौरी तथाऽऽयामप्रमाणतः॥ ५७.१४ ॥

विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः॥
तारा नक्षत्ररूपाणि वपुष्मन्तीह यानि वै॥ ५७.१५ ॥

बुधेन तानि तुल्यानि विस्तारान्मण्डलादपि॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्॥ ५७.१६ ॥

तारानक्षत्ररूपाणि हीनानि तु परस्परम्॥
शतानि पञ्च चत्वारी त्रीणि द्वे चैव योजने॥ ५७.१७ ॥

सर्वोपरि निकृष्टानि तारकामण्डलानि तु॥
योजनद्वयमात्राणि तेभ्यो ह्रस्वं न विद्यते॥ ५७.१८ ॥

उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः॥
सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः॥ ५७.१९ ॥

तेभ्योधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः॥
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः॥ ५७.२೦ ॥

तावन्त्यस्तारकाः कोट्यो यावन्त्युक्षाणि सर्वशः॥
ध्रुवात्त नियमाच्चैषामृक्षमार्गे व्यवस्तितिः॥ ५७.२१ ॥

सप्ताश्वस्यैव सूर्यस्य नीचोच्चत्वमनुक्रमात्॥
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः॥ ५७.२२ ॥

उच्चत्वाद्दृश्यते शीघ्रं नातिव्यक्तैर्गभस्तिभिः॥
तदा दक्षिणमार्गस्थो नीचां वीथिमुपाश्रितः॥ ५७.२३ ॥

भूमीरेखावृतः सूर्यः पौर्णिमावास्ययोस्तदा॥
ददृशे च यथाकालं शीघ्रमस्तमुपैति च॥ ५७.२४ ॥

तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः॥
ददृशे दक्षिणे मार्गे नियमाद्दृश्यते न च॥ ५७.२५ ॥

ज्योतिषां गतियोगेन सूर्यस्य तमसा वृतः॥
समानकालास्तमयौ विषुवत्सु समोदयौ॥ ५७.२६ ॥

उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ॥
पौर्णिमावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ॥ ५७.२७ ॥

दक्षिणायनमार्गस्थौ यदा चरति रश्मिवान्॥
ग्रहणां चैव सर्वेषां सूर्योधस्तात्प्रसर्पति॥ ५७.२८ ॥

विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी॥
नक्षत्रमण्डलं कृत्स्रं सोमादूर्ध्वं प्रसर्पति॥ ५७.२९ ॥

नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः॥
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः॥ ५७.३೦ ॥

तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम्॥
ऋषीणां चैव सप्तानां ध्रुवस्योर्ध्वं व्यवस्थितिः॥ ५७.३१ ॥

तं विष्णुलोकं परमं ज्ञात्वा मुच्येत किल्बिषात्॥
द्विगुणेषु सहस्रेषु योजनानां शतेषु च॥ ५७.३२ ॥

ग्रहनक्षत्रतारासु उपरिष्टाद्यथाक्रमम्॥
ग्रहाश्च चन्द्रसूर्यै च युतौ दिव्येन तेजसा॥ ५७.३३ ॥

नित्यमृक्षेषु युज्यन्ते गच्छन्तोहर्निशं क्रमात्॥
ग्रहनक्षत्रसूर्यास्ते नीचोच्चऋजुसंस्थिताः॥ ५७.३४ ॥

समागमे च भेदे च पश्यन्ति युगपत्प्रजाः॥
ऋतवः षट् स्मृताः सर्वे समागच्छन्ति पञ्चधा॥ ५७.३५ ॥

परस्परास्थिता ह्येते युज्यन्ते च परस्परम्॥
असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः॥ ५७.३६ ॥

एवं सङ्क्षिप्य कथितं ग्रहाणां गमनं द्विजाः॥
भास्करप्रमुखानां च यतादृष्टं यथाश्रुतम्॥ ५७.३७ ॥

ग्रहाधिपत्ये भगवान् ब्रह्मणा पद्मयोनिना॥
अभिषिक्तः सहस्रांशू रुद्रेण तु यथा गुहः॥ ५७.३८ ॥

तस्माद्ग्रहार्चना कार्या अग्नौ चोद्यं यताविधि॥
आदित्यग्रह पीडायां सद्भिः कार्या।र्थसिद्धये॥ ५७.३९ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे ज्योतिश्चक्रे ग्रहचारकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः॥ ५७ ॥