सूत उवाच॥
सौरं सङ्क्षेपतो वक्ष्ये रथं शशिन एव च॥
ग्रहणामितरेषां च यथा गच्छति चाम्बुपः॥ ५५.१ ॥
सौरस्तु ब्रह्मणा सृष्टो रथस्त्वर्थवशेन सः॥
संवत्सरस्यावयवैः कल्पितश्च द्विजर्षभाः॥ ५५.२ ॥
त्रिणा भिना तु चक्रेण पञ्चारेण समन्वितः॥
सौवर्णः सर्वदेवानामावासो भास्करस्य तु॥ ५५.३ ॥
नवयोजनसाहस्रो विस्तारायामतः स्मृतः॥
द्विगुणोपि रथोपस्थादीषादण्डः प्रमाणतः॥ ५५.४ ॥
असङ्गौस्तु हयैर्युक्तो यतश्चक्रं ततः स्थितैः॥
वाजिनस्तस्य वै सप्त छन्दोभिर्निर्मितास्तु ते॥ ५५.५ ॥
चक्रपक्षे निबद्धास्तु ध्रुवे चाक्षः समर्पितः॥
सहाश्वचक्रो भ्रमते सहाक्षो भ्रमते ध्रुवः॥ ५५.६ ॥
अक्षः सहैकचक्रेण भ्रमतेऽसौ ध्रुवेरितः॥
प्रेरको ज्योतिषां धीमान् ध्रुवो वै वातरशिमभिः॥ ५५.७ ॥
युगाक्षकोटिसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु॥
ध्रुवेण भ्रमते रश्मिनिबद्धः स युगाक्षयोः॥ ५५.८ ॥
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु॥
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि॥ ५५.९ ॥
ध्रुवेण प्रगृहीते वै विचक्राश्वे च रज्जुभिः॥
भ्रमन्तमनुगच्छन्ति ध्रुवं रश्मी च तावुभौ॥ ५५.१೦ ॥
युगाक्षकोटिस्त्वेतस्य वातोर्मिस्यन्दनस्य तु॥
कीले सक्ता यथा रज्जुर्भ्रमते सर्वतोदिशम्॥ ५५.११ ॥
भ्राम्यतस्तस्य रश्मी तु मण्डलेषूत्तरायणे॥
वर्धेते दक्षिणे चैव भ्रमता मण्डलानि तु॥ ५५.१२ ॥
आकृष्येते यदा ते वै ध्रुवेणाधिष्ठिते तदा॥
आभ्यन्तरस्थः सूर्योथ भ्रमते मण्डलानि तु॥ ५५.१३ ॥
अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः॥
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु॥ ५५.१४ ॥
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु॥
उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति॥ ५५.१५ ॥
देवाश्चैव तथा नित्यं मुनयश्च दिवानिशम्॥
यजन्ति सततं देवं भास्करं भवमीश्वरम्॥ ५५.१६ ॥
स रथोधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा॥
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः॥ ५५.१७ ॥
एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु॥
आप्याययन्ति चादित्यं तेजोभिर्भास्करं शिवम्॥ ५५.१८ ॥
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्॥
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते॥ ५५.१९ ॥
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम्॥
सर्पा वहन्ति वै सूर्यं यातुधानानुयान्ति च॥ ५५.२೦ ॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्॥
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे॥ ५५.२१ ॥
मधुश्च माधवश्चैव शुक्रश्च शुचिरेव च॥
नभोनभस्यौ विप्रेन्द्रा इषश्चोर्जस्तथैव च॥ ५५.२२ ॥
सहः सहस्यौ च तथा तपस्यश्च तपः पुनः॥
एते द्वादश मासास्तु वर्षं वै मानुषं द्विजाः॥ ५५.२३ ॥
वासन्तिकस्तथा ग्रैष्मः शुभो वै वार्षिकस्तथा॥
शारदश्च हिमश्चैव शैशिरो ऋतवः स्मृताः॥ ५५.२४ ॥
धाताऽर्यमाऽथ मित्रश्च वरुणश्चेन्द्र एव च॥
विवस्वांश्चैव पूषा च पर्जन्योंशुर्भगस्तथा॥ ५५.२५ ॥
त्वष्टा विष्णुः पुलस्त्यश्च पुलहश्चत्रिरेव च॥
वसिष्ठश्चाङ्गिगश्चैव भृगुर्बुद्धिमतां वरः॥ ५५.२६ ॥
भारद्वाजो गौतमश्च कश्यपश्च क्रतुस्तथा॥
जमदग्निः कौशिकश्च वासुकिः कङ्कणी करः॥ ५५.२७ ॥
तक्षकश्च तथा नाग एलापत्रस्तथा द्विजाः॥
शङ्खपालस्तथा चान्यस्त्वैरावत इति स्मृतः॥ ५५.२८ ॥
धनञ्जयो महापद्मस्तथा कर्कोटकः स्मृतः॥
कम्बलोऽश्वतरश्चैव तुम्बुरुर्नारदस्तथा॥ ५५.२९ ॥
हाहा हूहूर्मुनिश्रेष्ठा विश्वावसुरनुत्तमः॥
उग्रसेनोऽथ सुरुचिरन्यश्चैव परावसुः॥ ५५.३೦ ॥
चित्रसेनो महातेजाश्चोर्णायुश्चैव सुव्रताः॥
धृतराष्ट्रः सूर्यवर्चा देवी साक्षात्कृतस्थला॥ ५५.३१ ॥
शुभानना शुबश्रोणिर्दिव्या वै पुञ्जिकस्थला॥
मेनका सहजन्या च प्रम्लोचाऽथ शुचिस्मिता॥ ५५.३२ ॥
अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा॥
पूर्वचित्तिरिति ख्याता देवी साक्षात्तिलोत्तमा॥ ५५.३३ ॥
रम्भा चाम्भोजवदना रथकृद्ग्रामणीः शुभः॥
रथौजा रथचित्रश्च सुबाहुर्वै रथस्वनः॥ ५५.३४ ॥
वरुणश्च तथैवान्यः सुषेणः सेनजिच्छुभः॥
तार्क्ष्यश्चारिष्टनेमिश्च क्षतजित्सत्यजित्तथा॥ ५५.३५ ॥
रक्षो हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा॥
सर्पो व्याघ्रः पुनश्चापो वातो विद्युद्दिवाकरः॥ ५५.३६ ॥
ब्रह्मोपेतश्च रक्षेन्द्रो यज्ञोपेतस्तथैव च॥
एते देवादयः सर्वे वसन्त्यर्के क्रमेण तु॥ ५५.३७ ॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः॥
धात्रादिविष्णुपर्यन्ता देवा द्वादश कीर्तिताः॥ ५५.३८ ॥
आदित्यं परमं भानुं भाभिराप्याययन्ति ते॥
पुलस्त्याद्याः कौशिकान्ता मुनयो मुनिसत्तमाः॥ ५५.३९ ॥
द्वादशैव स्तवैर्भानुं स्तुवन्ति च यथाक्रमम्॥
नागाश्चाश्वतरान्तास्तु वासुकिप्रमुखाः शुभाः॥ ५५.४೦ ॥
द्वादशैव महादेवं वहन्त्येवं यताक्रमम्॥
क्रमेण सूर्यवर्चान्तास्तुम्बुरु प्रमुखाम्बुपम्॥ ५५.४१ ॥
गीतैरेनमुपासन्ते गन्धर्वा द्वादशोत्तमाः॥
कृतस्थलाद्या रम्भान्ता दिव्याश्चाप्सरसो रविम्॥ ५५.४२ ॥
ताण्डवैः सरसैः सर्वाश्चोपासन्ते यथाक्रमम्॥
दिव्याः सत्यजिदन्ताश्च ग्रामण्यो रथकृन्मुखाः॥ ५५.४३ ॥
द्वादशास्य क्रमेणैव कुर्वतेभीषुसङ्ग्रहम्॥
प्रयान्ति यज्ञोपेतान्ता रक्षोहेतिमुखाः सह॥ ५५.४४ ॥
सायुधा द्वादशैवैते राक्षसाश्चा यथाक्रमम्॥
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः॥ ५५.४५ ॥
उरगो वासुकिश्चैव कङ्कणीकश्च तावुभौ॥
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ॥ ५५.४६ ॥
कृतस्थलाऽप्सराश्चैव तथा वै पुञ्जिकस्थला॥
ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ॥ ५५.४७ ॥
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ॥
मधुमाधवयोरेष गणो वसति भास्करे॥ ५५.४८ ॥
वसन्ति ग्राष्मिकौ मासौ मित्रश्च वरुणश्च ह॥
ऋषिरत्रिर्वसिष्ठश्च तक्षको नाग एव च॥ ५५.४९ ॥
मेनका सहजन्या च गन्धर्वै च हहाहुहूः॥
सुबाहुनामा ग्रामण्यौ रथचित्रश्च तावुभौ॥ ५५.५೦ ॥
पौरुषेयो वधश्चैव यातुधानावुदाहृतौ॥
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः॥ ५५.५१ ॥
ततः सूर्ये पुनश्चान्या निवसन्तीह देवताः॥
इन्द्रश्चैव विवस्वांश्च आङ्गिरा भृगुरेव च॥ ५५.५२ ॥
एलापत्रस्तथा सर्पः शङ्खपालश्च तावुभौ॥
विश्वावसूग्रसेनौ च वरुणश्च रथस्वनः॥ ५५.५३ ॥
प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे॥
यातुधानास्तथा सर्पो व्याघ्रश्चैव तु तावुभौ॥ ५५.५४ ॥
नभोनभस्ययोरेष गणो वसति भास्करे॥
पर्जन्यश्चैव पूषा च भरद्वाजोऽथ गौतमः॥ ५५.५५ ॥
धनञ्जय इरावांश्च सुरुचिः सपरावसुः॥
घृताची चाप्सरः श्रेष्ठा विश्वाची चातिशोभना॥ ५५.५६ ॥
सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीश्च तौ॥
आपो वातश्च तावेचौ यातुधानावुभौ स्मृतौ॥ ५५.५७ ॥
वसन्त्येते तु वै सूर्ये मास ऊर्ज इषे च ह॥
हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे॥ ५५.५८ ॥
अंशुर्भगश्च द्वावेतौ कश्यपश्च क्रतुः सह॥
भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा॥ ५५.५९ ॥
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ॥
उर्वशी पूर्वचित्तिश्च तथैवाप्सरसावुभे॥ ५५.६೦ ॥
तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ॥
विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ॥ ५५.६१ ॥
सहे चैव सहस्ये च वसन्त्येते दिवाकरे॥
ततः शौशीरयोश्चापि मासयोर्निवसन्ति वै॥ ५५.६२ ॥
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च॥
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ॥ ५५.६३ ॥
धृतराष्ट्रः सगन्धर्वः सूर्यवर्चास्तथैव च॥
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोहरा॥ ५५.६४ ॥
रथजित्सत्यजिच्चैव ग्रामम्यौ लोकविश्रुतौ॥
ब्रह्मोपेतस्तथा रक्षो यज्ञोपेतश्च यः स्मृतः॥ ५५.६५ ॥
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः॥ ५५.६६ ॥
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम्॥
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्॥ ५५.६७ ॥
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते॥
ग्रामणीयक्षभूतानि कुर्वतेभीषुसङ्ग्रहम्॥ ५५.६८ ॥
सर्पा वहन्ति वै सूर्यं यातु धानानुयान्ति वै॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्॥ ५५.६९ ॥
एतेषामेव देवानां यथा तेजो यथा तपः॥
यता योगं यथा मन्त्रं यथा धर्मं यथा बलम्॥ ५५.७೦ ॥
तथा तपत्यसौ सूर्यस्तेषामिद्धस्तु तेजसा॥
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे॥ ५५.७१ ॥
ऋषयो देवगन्धर्वपन्नगाप्सरसां गणाः॥
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यतः॥ ५५.७२ ॥
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च॥
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः॥ ५५.७३ ॥
मानवानां शुभं ह्येते हरन्ति च दुरात्मनाम्॥
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचित् क्वचित्॥ ५५.७४ ॥
विमाने च स्थिता दिव्ये कामगे वातरंहसि॥
एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः॥ ५५.७५ ॥
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै द्विजाः॥
गोपायन्तीह भूतानि सर्वाणि ह्यामनुक्षयात्॥ ५५.७६ ॥
स्थानाबिमानिनामेतत्स्थानं मन्वन्तरेषु वै॥
अतीतानागतानां वै वर्तन्ते साम्प्रतं च ये॥ ५५.७७ ॥
एते वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश॥
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह॥ ५५.७८ ॥
सङ्क्षेपाद्विस्तराच्चैव यतावृत्तं यथाश्रुतम्॥
कथितं मुनिशार्दूला देवदेवस्य धीमतः॥ ५५.७९ ॥
एते देवा वसन्त्यर्के द्वौद्वौ मासौ क्रमेण तु॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः॥ ५५.८೦ ॥
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु॥
हरितैरक्षरैरश्वैः सर्पतेऽसौ दिवाकरः॥ ५५.८१ ॥
अहोरात्रं रथेनासावेक चक्रणे तु भ्रमन्॥
सप्तद्वीपसमुद्रा गां सप्तभिः सर्पते दिवि॥ ५५.८२ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरथनिर्णयो नाम पञ्चपञ्चाशत्तमो ध्यायः॥ ५५ ॥