सूत उवाच॥
प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः॥
ऋज्वायताः प्रतिदिशं निवृष्टा वर्षपर्वताः॥ ५३.१ ॥
प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान्॥
गोमेदकोत्र प्रथमो द्वितीयश्चान्द्र उच्यते॥ ५३.२ ॥
तृतीयो नारदो नाम चतुर्थो दुन्दुभिः स्मृतः॥
पञ्चमः सोमको नाम सुमनाः षष्ठ उच्यते॥ ५३.३ ॥
स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः॥
सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः॥ ५३.४ ॥
सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात्॥
कुमुदश्चोत्तमश्चैव पर्वतश्च बलाहकः॥ ५३.५ ॥
द्रोणः कङ्कश्च महिषः ककुद्मान् सप्तमः स्मृतः॥
कुशद्वीपे तु सप्तैव द्वीपाश्च कुलपर्वताः॥ ५३.६ ॥
तांस्तु सङ्क्षेपतो वक्ष्ये नाममात्रेण वै क्रमात्॥
विद्रुमः प्रथमः प्रोक्तो द्वितीयो हेमपर्वतः॥ ५३.७ ॥
तृतीयो द्युतिमान्नाम चतुर्थः पुष्पितः स्मृतः॥
कुशेशयः पञ्चमस्तु षष्ठो हरिगिरिः स्मृतः॥ ५३.८ ॥
सप्तमो मन्दरः श्रीमान्महादेवनिकेतनम्॥
मन्दा इति ह्यपां नाम मन्दरो धारणादपाम्॥ ५३.९ ॥
तत्र साक्षाद्वृषाङ्कस्तु विश्वेशो विमलः शिवः॥
सोमः सनन्दी भगवानास्ते हेमगृहोत्तमे॥ ५३.१೦ ॥
तपसा तोषितः पूर्वं मन्दरेण महेश्वरः॥
अविमुक्ते महाक्षेत्रे लेभे स परमं वरम्॥ ५३.११ ॥
प्रार्थितश्च महादेवो निवासार्थं सहाम्बया॥
अविमुक्तादुपागम्य चक्रे वासं स मन्दरे॥ ५३.१२ ॥
सनन्दी सगणः सोमस्तेनासौ तन्न मुञ्चति॥
क्रौञ्चद्वीपे तु सप्तेह क्रौञ्चाद्याः कुलपर्वताः॥ ५३.१३ ॥
क्रौञ्चो वामनकः पश्चात्तृतीयश्चान्धकारकः॥
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः॥ ५३.१४ ॥
दिवावृतः परश्चापि विविन्दो गिरिरुच्यते॥
विविन्दात्परतश्चापि पुण्डरीको महागिरिः॥ ५३.१५ ॥
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः॥
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः॥ ५३.१६ ॥
शाकद्वीपे च गिरयः सप्त तांस्तु निबोधत॥
उदयो रैवतश्चापि श्तामको मुनिसत्तमाः॥ ५३.१७ ॥
राजतश्चगिरिः श्रीमानाम्बिकेयः शुशोभनः॥
आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः॥ ५३.१८ ॥
तथैव केसरीत्युक्तो यतो वायुः प्रजायते॥
पुष्करे पर्वतः श्रीमानेक एव महाशिलः॥ ५३.१९ ॥
चित्रैर्मणिमयैः कूटैः शिलाजालैः समुच्छ्रितैः॥
द्वीपस्य तस्य पूर्वर्धे चित्रसानुस्थितो महान्॥ ५३.२೦ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः॥
अधश्चैव चुतस्त्रिंशत्सहस्राणि महाचलः॥ ५३.२१ ॥
द्वीपस्यार्धे परिक्षिप्तः पर्वतो मानसोत्तरः॥
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः॥ ५३.२२ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः॥
तावदेव तु विस्तीर्णः पार्श्वतः परिमण्डलः॥ ५३.२३ ॥
स एव द्वीपपश्चार्धे मानसः पृथिवीधरः॥
एक एव महासानुः सन्निवेशाद्द्विधा कृतः॥ ५३.२४ ॥
तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ॥
राजतौ मानसस्ताथ पर्वतस्यानुमण्डलौ॥ ५३.२५ ॥
महावीतं तु यद्वर्षं बाह्यतो मानसस्य तु॥
तस्यैवाभ्यन्तरो यस्तु धातकीखण्ड उच्यते॥ ५३.२६ ॥
स्वादूदकेनोदधिना पुष्करः परिवारितः॥
पुष्करद्वीपविस्तारविस्तीर्णौसौ समन्ततः॥ ५३.२७ ॥
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु॥
एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः॥ ५३.२८ ॥
द्वीपस्यानन्तरो यस्तु समुद्रः सप्तमस्तु वै॥
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम्॥ ५३.२९ ॥
परेण पुष्करस्याथ अनुवृत्य स्थितो महान्॥
स्वादूदकसमुद्रस्तु समन्तात्परिवेष्ट्य च॥ ५३.३೦ ॥
परेण तस्य महती दृश्यते लोकसंस्थितिः॥
काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा॥ ५३.३१ ॥
तस्याः परेण शैलस्तु मर्यादापारमण्डलः॥
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते॥ ५३.३२ ॥
दृश्यादृश्यगिरिर्यावत्तावदेषा धरा द्विजाः॥
योजनानां सरस्राणि दश तस्योच्छ्रयः स्मृतः॥ ५३.३३ ॥
तावांश्च विस्तरस्तस्य लोकालोकमहागिरेः॥
अर्वाचीने तु तस्यार्धे चरन्ति रविरश्मयः॥ ५३.३४ ॥
परार्धे तु तमो नित्यं लोकालोकस्ततः स्मृतः॥
एवं सङ्क्षेपतः प्रोक्तो भूर्लोकस्य च विस्तरः॥ ५३.३५ ॥
आभानोर्वै भुवः स्वस्तु आध्रुवान्मुनिसत्तमाः॥
आवहाद्य निविष्टास्तु वायोर्वै सप्त नेमयः॥ ५३.३६ ॥
आवहः प्रवहश्चैव ततश्चानुवहस्तथा॥
संवहो विवहश्चाथ ततश्चोर्ध्वं परावहः॥ ५३.३७ ॥
द्विजाः परिवहश्चेति वायोर्वै सप्त नेमयः॥
बलाहकास्तथा भानुश्चन्द्रो नक्षत्र राशयः॥ ५३.३८ ॥
ग्रहाणि ऋषयः सप्त ध्रुवो विप्राः क्रमादिह॥
योजनानां महीपृष्ठादूर्ध्वं पञ्चदशाध्रुवात्॥ ५३.३९ ॥
नियुतान्येकनियुतं भूपृष्ठाद्भानुमण्डलम्॥
रथः षोडशसाहस्रो भास्करस्य तथोपरिः॥ ५३.४೦ ॥
चतुराशीतिसाहस्रो मेरुश्चोपरि भूतलात्॥
कोटियोजनमाक्रम्य महर्लोको ध्रुवाद्ध्रुवः॥ ५३.४१ ॥
जनलोको महर्लोकात्तथा कोटिद्वयं द्विजाः॥
जनलोकात्तपोलोकश्चतस्रः कोटयो मतः॥ ५३.४२ ॥
प्राजापत्याद्ब्रह्मलोकः कोटिषट्कं विसृज्य तु॥
पुण्यलोकास्तु सप्तैते ह्यण्डोस्मिन्कथिता द्विजाः॥ ५३.४३ ॥
अधः सप्ततलानां तु नरकाणां हि कोटयः॥
मायान्ताश्चैव घोराद्या अष्टाविंशतिरेव तु॥ ५३.४४ ॥
पापिनस्तेषु पच्यन्ते स्वस्वकर्मानुरूपतः॥
अवीच्यन्तानि सर्वाणि रौरवाद्यानि तेषु च॥ ५३.४५ ॥
प्रत्येकं पञ्चकान्याहुर्नरकाणि विशेषतः॥
अण्डमादौ मया प्रोक्तमण्डस्यावरणानि च॥ ५३.४६ ॥
हिरण्यगर्भसर्गश्च प्रसङ्गाद्बहुविस्तरात्॥
अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः॥ ५३.४७ ॥
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधस्तथा॥
अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश॥ ५३.४८ ॥
प्रत्यण्डं द्विजशार्दूलास्तेषां हेतुर्महेश्चरः॥
अण्डेषु चाण्डबाह्येषु तथाण्डावरणेषु च॥ ५३.४९ ॥
तमोऽन्ते च तमःपारे चाष्टमूर्तिर्व्यवस्थितः॥
अस्यात्मनो महेशस्य महादेवस्य धीमतः॥ ५३.५೦ ॥
अदेहिनस्त्वहो देहमखिलं परमात्मनः॥
अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः॥ ५३.५१ ॥
गृहिणी प्रकृतिर्दिव्या प्रजाश्च महदादयः॥
पशवः किङ्करस्तस्य सर्वे देहाभिमानिनः॥ ५३.५२ ॥
आद्यन्तहीनो भगवाननन्तः पुमान्प्रधानप्रमुखाश्च सप्त॥
प्रधानमूर्तिस्त्वथ षोडशाङ्गो महेश्वरश्चाष्टतनुः स एव॥ ५३.५३ ॥
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः॥
ज्योतिर्गणः शक्रमुखाः सुराश्च वैमानिकाः स्थावरजङ्गमाश्च॥ ५३.५४ ॥
दृष्ट्वा यक्षं लक्षणैर्हीनमीशं दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति॥
यक्षं गत्वा निश्चयात्पावकाद्याः शक्तिक्षीणाश्चाभवन्यत्ततोपि॥ ५३.५५ ॥
दग्धुं तृणं वापि समक्षमस्य यक्षस्य वह्निर्न शशाक विप्राः॥
वायुस्तृणं चालयितुं तथान्ये स्वान्स्वान्प्रभावान् सकलामरेन्द्राः॥ ५३.५६ ॥
तदा स्वयं वृत्ररिपुः सुरेन्द्रैः सुरेश्वरः सर्वसमृद्धिहेतुः॥
सुरेश्वरं यक्षमुवाच को वा भवानितीत्थं स कुतूहलात्मा॥ ५३.५७ ॥
तदा ह्यदृश्यं गत एव यक्षस्तदाम्बिका हैमवती शुभास्या॥
उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत्॥ ५३.५८ ॥
तां शक्र मुख्या बहुशोभमानामुमामजां हैमवतीमपृच्छन्॥
किमेतदीशे बहुशोभमाने वाम्बिके यक्षवपुश्चकास्ति॥ ५३.५९ ॥
निशम्य तद्यक्षमुमाम्बिकाह त्वगोचरश्चेति सुराः सशक्राः॥
प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम्॥ ५३.६೦ ॥
सम्भाविता सा सकलामरेन्द्रैः सर्वप्रवृत्तिस्तु सुरासुराणाम्॥
अहं पुरासं प्रकृतिश्च पुंसो यक्षस्य चाज्ञावशगेत्यथाह॥ ५३.६१ ॥
तस्माद्द्विजाः सर्वमजस्य तस्य नियोगतश्चाण्डमभूदजाद्वै॥
अजश्च अण्डादखिलं च तस्माज्ज्योतिर्गणैर्लोकमजात्मकं तत्॥ ५३.६२ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशविन्यासनिर्णयो नाम त्रिपञ्चाशत्तमोऽध्यायः ५३ ॥