सूत उवाच॥
नद्यश्च बहवः प्रोक्ता सदा बहुजलाः शुभाः॥
सरोवरेभ्यः सम्भूतास्त्वसङ्ख्याता द्विजोत्तमाः॥ ५२.१ ॥
प्राङ्मुखा दक्षिणास्यास्तु चोत्तरप्रभवाः शुभाः॥
पश्चिमाग्राः पवित्राश्च प्रतिवर्षं प्रकीर्तिताः॥ ५२.२ ॥
आकाशाम्भोनिधिर्योसौ सोम इत्यभिधीयते॥
आधारः सर्वभूतानां देवानाममृताकरः॥ ५२.३ ॥
अस्मात्प्रवृत्ता पुण्योदा नदी त्वाकाश गामिनी॥
सप्तमेनानिलपथा प्रवृत्ता चामृतोदका॥ ५२.४ ॥
सा ज्योतिंष्यनुवर्तन्ती ज्योतिर्गणनिषोविता॥
ताराकोटिसहस्राणां नभसश्च समायुता॥ ५२.५ ॥
परिवर्तत्यहरहो यथा सोमस्तथैव सा॥
चत्वार्यशीतिश्च तथा सहस्राणां समुच्छ्रितः॥ ५२.६ ॥
योजनानां महामेरुः श्रीकण्ठाक्रीडकोमलः॥
तत्रासीनो यतः शर्वः साम्बः सह गणेश्वरैः॥ ५२.७ ॥
क्रीडते सुचिरं कालं तस्मात्पुण्यजला शिवा॥
गिरिं मेरुं नदी पुण्या सा प्रयाति प्रदक्षिणम्॥ ५२.८ ॥
विभज्यमानसलिला सा जवेनानिलेन च॥
मेरोरन्तरकूटेषु निपपात चतुर्ष्वपि॥ ५२.९ ॥
समन्तात्समतिक्रम्य सर्वाद्रीन्प्रविभागशः॥
नियोगाद्देवदेवस्य प्रविष्टा सा महार्णवम्॥ ५२.१೦ ॥
अस्या विनिर्गता नद्यः शतशोथ सहस्रशः॥
सर्वद्वीपाद्रिवर्षेषु बहवः परिकीर्तिताः॥ ५२.११ ॥
क्षुद्रनद्यस्त्वसङ्ख्याता गङ्गा यद्गां गताम्बरात्॥
केतुमाले नराः कालाः सर्वे पनसभोजनाः॥ ५२.१२ ॥
स्त्रियश्चोत्पलवर्णाभा जीवितं चायुतं स्मृतम्॥
भद्राश्वे शुक्लवर्णाश्च स्त्रियश्चन्द्रांशु सन्निभाः॥ ५२.१३ ॥
कालाम्रभोजनाः सर्वे निरातङ्का रतिप्रियाः॥
दशवर्षसहस्राणि जीवन्ति शिवभाविताः॥ ५२.१४ ॥
हिरण्मया इवात्यर्थमीश्वरार्पितचेतसः॥
तथा रमणके जीवा न्यग्रोधफलभोजनाः॥ ५२.१५ ॥
दशवर्षसहस्राणि शतानि दशपञ्च च॥
जीवन्ति शुक्लास्ते सर्वे शिवध्यानपरायणाः॥ ५२.१६ ॥
हैरण्मया महाभागा हिरण्मयवनाश्रयाः॥
एकादश सहस्राणि शतानि दशपञ्च च॥ ५२.१७ ॥
वर्षाणां तत्र जीवन्ति अश्वत्थाशनजीवनाः॥
हैरण्मया इवात्यर्थमीश्वरार्पितमानसाः॥ ५२.१८ ॥
कुरुवर्षे तु कुरवः स्वर्गलोकात्परीच्युताः॥
सर्वे मैथुन जाताश्च क्षीरिणः क्षीरभोजनाः॥ ५२.१९ ॥
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः॥
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः॥ ५२.२೦ ॥
त्रयोदश सहस्राणि शतानि दशपञ्च च॥
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः॥ ५२.२१ ॥
सहैव मरणं तेषां कुरूणां स्वर्गवासिनाम्॥
हृष्टानां सुप्रवृद्धानां सर्वान्नामृतभोजिनाम्॥ ५२.२२ ॥
सदा तु चन्द्रकान्तानां सदा योवनशालिनाम्॥
श्यामाङ्गानां सदा सर्वभूषणास्पददेहिनाम्॥ ५२.२३ ॥
जम्बूद्वीपे तु तत्रापि कुरुवर्षं सुशोभनम्॥
तत्र चन्द्रप्रभं शम्भोर्विमानं चन्द्रमौलिनः॥ ५२.२४ ॥
वर्षे तु भारते मर्त्याः पुण्याः कर्मवशायुषः॥
शतायुषः समाख्याता नानावर्णाल्पदेहिनः॥ ५२.२५ ॥
नानादेवर्चने युक्ता नानाकर्मफलाशिनः॥
नानाज्ञानार्थसम्पन्ना दुर्बलाश्चाल्पभोगिनः॥ ५२.२६ ॥
इन्द्रद्वीपे तथा केचित्तथैव च कसेरुके॥
ताम्रद्वीपं गताः केचित्कोचिद्देशं गभस्तिमत्॥ ५२.२७ ॥
नागद्वीपं तता सौम्यं गान्धर्वं वारुणं गताः॥
केचिन्म्लेच्छाः पुलिन्दाश्च नानाजातिसमुद्भवाः॥ ५२.२८ ॥
पूर्वे किरातास्तस्यान्ते पश्चिमे यवनाः स्मृताः॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च सर्वशः॥ ५२.२९ ॥
इज्यायुद्धवणिज्याभिर्वर्तयन्तो व्यवस्थिताः॥
तेषां संव्यवहारोयं वर्ततेऽत्र परस्परम्॥ ५२.३೦ ॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु॥
सङ्कल्पश्चाभिमानश्च आश्रमाणां यथाविधि॥ ५२.३१ ॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्यत्र मानुषी॥
तेषां च युगकर्माणि नान्यत्र मुनिपुङ्गवाः॥ ५२.३२ ॥
दशवर्षसहस्राणि स्थितिः किम्पुरुषे नृणाम्॥
सुवर्णवर्णाश्च नरास्त्रियश्चाप्सरसोपमाः॥ ५२.३३ ॥
अनामया ह्यशोकाश्च सर्वे ते शिवभाविताः॥
शुद्धसत्त्वाश्च हेमाभाः सदाराः प्लक्षभोजनाः॥ ५२.३४ ॥
महारजतसङ्काशा हरिवर्षेपि मानवाः॥
देवलोकाच्च्युताः सर्वे देवाकाराश्च सर्वशः॥ ५२.३५ ॥
हरं यजन्ति सर्वेशं पिबन्तीक्षुरसं शुभम्॥
न जरा बाधते तेन न च जीर्यान्ति ते नराः॥ ५२.३६ ॥
दशवर्षसहस्राणि तत्र जीवान्ति मानवाः॥
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्॥ ५२.३७ ॥
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः॥
चन्द्रसूर्यौ न नक्षत्रं जीवन्ति मानवाः॥ ५२.३८ ॥
पद्मप्रभाः पद्म मुखाः पद्मपत्रनिभेक्षणाः॥
पद्मपत्रसुगन्धाश्च जायन्ते भवभाविताः॥ ५२.३९ ॥
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः॥
देवलोकागतास्तत्र जायन्ते ह्यजरामराः॥ ५२.४೦ ॥
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः॥
आयुःप्रमाणं जीवन्ति वर्षे दिव्ये त्विलावृते॥ ५२.४१ ॥
जम्बूफलरसं पीत्वा न जरा बाधते त्विमान्॥
न क्षुधा न क्लमश्चापि न जनो मृत्यु मांस्तथा॥ ५२.४२ ॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम्॥
इन्द्रगोपप्रतीकाशं जायते भास्वरं तु तत्॥ ५२.४३ ॥
एवं मया समाख्याता नववर्षानुवर्तिनः॥
वर्णायुर्भोजनाद्यानि सङ्क्षिप्य न तु विस्तरात्॥ ५२.४४ ॥
हेमकूटे तु गन्धर्वा विज्ञेयाश्चाप्सरोगणाः॥
सर्वे नागाश्च निषघे शेषवासुकितक्षकाः॥ ५२.४५ ॥
महाबलास्त्रयस्त्रिंशद्रमन्ते याज्ञिकाः सुराः॥
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः॥ ५२.४६ ॥
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते॥
श्रृङ्गवान् पर्वतश्चैव पितॄणां निलयः सदा॥ ५२.४७ ॥
हिमवान् यक्षमुख्यानां भूतानामिश्वरस्य च॥
सर्वाद्रिषु महादेवो हरिणा ब्रह्मणाम्बया॥ ५२.४८ ॥
नन्दिना च गणैश्चैव वर्षेषु च वनेषु च॥
नीलश्वेतत्रिश्रृङ्गे च भगवान्नीललोहितः॥ ५२.४९ ॥
सिद्धैर्देवैश्च पितृभिर्दृष्टो नित्यं विशेषतः॥
नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः॥ ५२.५೦ ॥
मयूरबर्हवर्णस्तु शातकुम्भस्त्रिश्रृङ्गवान्॥
एते पर्वतराजानो जम्बूद्वीपे व्यवस्थिताः॥ ५२.५१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशस्वभाववर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः॥ ५२ ॥