सूत उवाच॥
देवकूटे गिरौ मध्ये महाकूटे सुशोभने॥
हेमवैडूर्यमाणिक्यनीलगोमेदकान्तिभिः॥ ५१.१ ॥
तथान्यैर्मणिमुख्यैश्च निर्मिते निर्मले शुभे॥
शाखाशत सहस्राढ्ये सर्वद्रुमविभूषिते॥ ५१.१ ॥(५१.२)
चम्पकाशोकपुन्नागवकुलासनमण्डिते॥
पारिजातकसम्पूर्णे नानापक्षिगणान्विते॥ ५१.३ ॥
नैकधातुशतैश्चित्रे विचित्रकुसुमाकुले॥
नितम्बपुष्पसालम्बे नैकसत्त्वगणान्विते॥ ५१.४ ॥
विमलस्वादुपनीये नैकप्रस्रवणैर्युते॥
निर्झरैः कुसुमाकीर्णैरनेकैश्च विभूषिते॥ ५१.५ ॥
पुष्पोडुपवहाभिश्च स्रवन्तीभिरलङ्कृते॥
स्निग्धवर्णं महामूलमनेकस्कन्धपादपम्॥ ५१.६ ॥
रम्यं ह्यविरलच्छायं दशयोजन मण्डलम्॥
तत्र भूतवनं नाम नानाभूतगणालयम्॥ ५१.७ ॥
महादेवस्य देवस्य शङ्करस्य महात्मनः॥
दीप्तमायतनं तत्र महामणिविभूषितम्॥ ५१.८ ॥
हेमप्राकारसंयुक्तं मणितोरणमण्डितम्॥
स्फाटिकैश्च विचित्रैस्च गोपुरैश्च समन्वितम्॥ ५१.९ ॥
सिंहासनैर्मणिमयैः शुभास्तरणसंयुतैः॥
क्षितावितस्ततः सम्यक् शर्वेणाधिष्ठितैः शुभैः॥ ५१.१೦ ॥
अम्लानमालानिचितैर्नानावर्णैर्गृहोत्तमैः॥
मण्डपैः सुविचित्रैस्तु स्फाटिकस्तम्भसंयुतैः॥ ५१.११ ॥
संयुतं सर्वभूतेन्द्रैर्ब्रह्मेन्द्रोपेन्द्रपूजितैः॥
वराहगज सिंहर्क्षशार्दूलकरभाननैः॥ ५१.१२ ॥
गृध्रोलूकमुखैश्चान्यैर्मृगोष्ट्राजमुखैरपि॥
प्रमथैर्विविधैः स्थूलैर्गिरिकूटोपमैः शुभैः॥ ५१.१३ ॥
करालैर्हरिकेशैश्च रोमशैश्च महाभुजैः॥
नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः॥ ५१.१४ ॥
दीप्तास्यैर्दीप्तचरितैर्नन्दीश्वरमुखैः शुभैः॥
ब्रह्मेन्द्रविष्णुसङ्काशैरणिमादि गुणान्वितैः॥ ५१.१५ ॥
अशून्यममरैर्नित्यं महापरिषदैस्तथा॥
तत्र भूतपतेर्देवाः पूजां नित्यं प्रयुञ्जते॥ ५१.१६ ॥
झर्झरैः शङ्खपटहैर्भेरीडिण्डिम गौमुखैः॥
ललितावसितोद्गीतैर्वृत्तवल्गितगर्जितैः॥ ५१.१७ ॥
पूजितो वै महादेवः प्रमथैः प्रमथेश्वरः॥
सिद्धर्षिदेवगन्धर्वैर्ब्रह्मणा च महात्मना॥ ५१.१८ ॥
उपेन्द्रप्रमुखैश्चान्यैः पूजितस्तत्र शकरः॥
विभक्तचारुशिखरं यत्र तच्छङ्खवर्चसम्॥ ५१.१९ ॥
कैलासो यक्षराजस्य कुबेरस्य महात्मनः॥
निवालः कोटियक्षाणां तथान्येषां महात्मनाम्॥ ५१.२೦ ॥
तत्रापि देवदेवस्य भवस्यायतनं महत्॥
तस्मिन्नायतने सोमः सदास्ते सगणो हरः॥ ५१.२१ ॥
यत्र मन्दाकिनी नाम नलिनी विपुलोदका॥
सवर्णमणिसोपाना कुबेरशिखरे शुभे॥ ५१.२२ ॥
जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः॥
नीलवैडूर्यपत्रैश्च गन्धोपेतैर्महोत्पलैः॥ ५१.२३ ॥
तथा कुमुदषण्डैश्च महापद्मैरलङ्कृता॥
यक्षगन्धर्वनारीभिरप्सरोभिश्च सेविता॥ ५१.२४ ॥
देवदानवगन्धर्वैर्यक्षराक्षसकिन्नरैः॥
उपस्पृष्टजला पुण्या नदी मन्दाकिनी शुभा॥ ५१.२५ ॥
तस्याश्चोत्तरपार्श्वे तु भवस्यायतनं शुभम्॥
वैडूर्यमणिसम्पन्नं तत्रास्ते शङ्करोऽव्ययः॥ ५१.२६ ॥
द्विजाः कनकनन्दायास्तीरे वै प्राचिदक्षिणे॥
वनं द्विजसहस्राढ्यं मृगपक्षिसमाकुलम्॥ ५१.२७ ॥
तत्रापि सगणः साम्बः क्रीडतोद्रिसमे गृहे॥
नन्दायाः पश्चिमे तीरे किञ्चिद्वै दक्षिणाश्रिते॥ ५१.२८ ॥
पुरं रुद्रपुरी नाम नानाप्रासादसङ्कुलम्॥
तत्रापि शतधा कृत्वा ह्यात्मानं चाम्बया सह॥ ५१.२९ ॥
क्रीडते सगणः साम्बस्तच्छिवालयमुच्यते॥
एवं शतसहस्राणि शर्वस्यायतनानि तु॥ ५१.३೦ ॥
प्रतिद्वीपे मुनिश्रेष्ठः पर्वतेषु वनेषु च॥
नदीनदतटाकानां तीरेष्वर्णवसान्धिषु॥ ५१.३१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकपञ्चशत्तमोध्यायः॥ ५१ ॥