सूत उवाच॥
शितान्तशिखरे शक्रः पारिजातवने शुभे॥
तस्य प्राच्यां कुमुदाद्रिकूटोसौ बहुविस्तरः॥ ५०.१ ॥
अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः॥
सुवर्णकोटरे पुण्ये राक्षसानां महात्मनाम्॥ ५०.२ ॥
नीलकानां पुराण्याहुरष्टषष्टिर्द्विजोत्तमाः॥
महानीलेपि शैलेन्द्रे पुराणि दश पञ्च च॥ ५०.३ ॥
हयाननानां मुख्यानां किन्नराणां च सुव्रताः॥
वेणुसौधे महाशैले विद्याधरपुरत्रयम्॥ ५०.४ ॥
वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः॥
वसुधारे वसूनां तु निवासः परिकीर्तितः॥ ५०.५ ॥
रत्नधारे गिरिवरे सप्तर्षीणां महात्मनाम्॥
सप्तस्थानानि पुण्यानि सिद्धावासुयुतानि च॥ ५०.६ ॥
महत्प्रजापतेः स्थानमेकशृङ्गे नगोत्तमे॥
गजशैले तु दुर्गाद्याः सुमेधे वसवस्तथा॥ ५०.७ ॥
आदित्याश्च तथा रुद्राः कृतावासास्तथाश्विनौ॥
अशीतिर्देवपुर्यस्तु हेमकक्षे नगोत्तमे॥ ५०.८ ॥
सुनीले रक्षसां वासाः पञ्चकोटिशतानि च॥
पञ्चकूटे पुराण्या सन्पञ्चकोटिप्रमाणतः॥ ५०.९ ॥
शतशृङ्गे पुरशतं यक्षाणाममितौजसाम्॥
ताम्राभे काद्रवायाणां विशाखे तु गुहस्य वै॥ ५०.१० ॥
श्वेतोदरे मुनिश्रेष्ठाः सुपर्णस्य महात्मनः॥
पिशाचके कुबेरस्य हरिकूटे हरेर्गृहम्॥ ५०.११ ॥
कुमुदे किन्नरावासस्त्वञ्जने चारणालयः॥
कृष्णे गन्धर्व निलयः पाण्डुरे पुरसप्तकम्॥ ५०.१२ ॥
विद्याधराणां विप्रेन्द्रा विश्वबोगसमन्वितम्॥
सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम्॥ ५०.१३ ॥
पुराणां तु सहस्राणि सप्त शक्रारिणां द्विजाः॥
मुकुटे पन्नगावासः पुष्पकेतौ मुनीश्वराः॥ ५०.१४ ॥
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च॥
तक्षके चैव शैलेन्द्रे चत्वार्यायतनानि च॥ ५०.१५ ॥
ब्रह्मेन्द्रविष्णुरुद्राणां गुहस्य च महात्मनः॥
कुबेरस्य च सोमस्य तथान्येषां महात्मनाम्॥ ५०.१६ ॥
सन्त्यायतनमुख्यानि मर्यादापर्वतेष्वपि॥
श्रीकण्ठाद्रिगुहावासी सर्वावासः सहोमया॥ ५०.१७ ॥
श्रीकण्ठस्याधिपत्यं वै सर्वदेवेश्वरस्य च॥
अण्डस्यास्य प्रवृत्तिस्तु श्रीकण्ठेन न संशयः॥ ५०.१८ ॥
अनन्तेशादयस्त्वेवं प्रत्येकं चाण्डपालकाः॥
चक्रवर्तिन इत्युक्तास्ततो विद्येश्वरास्त्विह॥ ५०.१९ ॥
श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः॥
मर्यादापर्वतेष्वद्य श्रृण्वन्तु प्रवदाम्यहम्॥ ५०.२० ॥
श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत्॥
कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम्॥ ५०.२१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनविन्यासोद्देशस्थानवर्णनं नाम पञ्चाशत्तमोध्यायः॥ ५० ॥