सूत उवाच॥
शतमेकं सहस्राणां योजनानां स तु स्मृतः॥
अनुद्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम्॥ १ ॥
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता॥
द्वीपैश्च सप्तभिर्युक्ता लोकालोकावृता शुभा॥ २ ॥
नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः॥
श्रृङ्गी तस्योत्तरे विप्रास्त्रयस्ते वर्षपर्वताः॥ ३ ॥
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ॥
निषधो दक्षिणे मेरोस्तस्य दक्षिणतो गिरिः॥
हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे॥ ४ ॥
मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ॥
माल्यवान्गन्धमादश्च द्वावेतावुद गायतौ॥ ५ ॥
एते पर्वतराजानः सिद्धचारणसेविताः॥
तेषामन्तरविष्कम्भो नवसाहस्रमेकशः॥ ६ ॥
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्॥
हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम्॥ ७ ॥
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते॥
हरिवर्षात्परं चैव मेरोः शुभमिलावृतम्॥ ८ ॥
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्॥
रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम्॥ ९ ॥
हिरण्मयात्परं चापि श्रृङ्गी चैव कुरुः स्मृतः॥
धनुः संस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे॥ १೦ ॥
दीर्घाणि तत्र चत्वारी मध्यतस्तदिलावृतम्॥
मेरोः पश्चिमपूर्वेण द्वे तु दीर्घे तरे स्मृते॥ ११ ॥
अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम्॥
वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे॥ १२ ॥
तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम्॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु॥ १३ ॥
उदगायतो महाशैलो माल्यवान्नाम पर्वतः॥
योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः॥ १४ ॥
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः॥
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः॥ १५ ॥
आयामतः स विज्ञेयो माल्यवानिव विस्तृतः॥
जबून्द्वीपस्य विस्तारात्समेन तु समन्ततः॥ १६ ॥
प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः॥
अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ॥ १७ ॥
हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान्॥
तरुणादित्यसङ्काशो हौरण्यो निषधः स्मृतः॥ १८ ॥
चतुर्वर्णः ससौवर्णो मेरुश्चोर्ध्वायतः स्मृतः॥
वृत्ताकृतिपरीणाहश्चातुरस्रः समुत्थितः॥ १९ ॥
नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः॥
मयूरबर्हवर्णस्तु शातकुम्भस्त्रिश्रृङ्गवान्॥ २೦ ॥
एवं सङ्क्षेपतः प्रोक्ताः पुनः श्रृणु गिरीश्वरान्॥
मन्दरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ॥ २१ ॥
कैलासो गन्धमादश्च हेमवांश्चैव पर्वतौ॥
पूर्वतश्चायतावेतावर्णवान्तर्व्यवस्थितौ॥ २२ ॥
निषधः पारियात्रश्च द्वावेतौ वरपर्वतौ॥
यथा पूर्वौ तथा याम्यावेतौ पश्चिमतः श्रितौ॥ २३ ॥
त्रिश्रृङ्गो जारुचिश्चैव उत्तरौ वरपर्वतौ॥
पूर्वतश्चायतावेतावर्णवान्तर्व्यवस्थितौ॥ २४ ॥
मर्यादापर्वतानेतानष्टावाहुर्मनीषिणः॥
योसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः॥ २५ ॥
तस्य पादास्तु चत्वारश्चतुर्दिक्षु नगोत्तमाः॥
यैर्विष्टब्धा न चलति सप्तद्वीपवती मही॥ २६ ॥
दशयोजनसाहस्रमायामस्तेषु पठ्यते॥
पूर्वे तु मन्दरो नाम दक्षिणे गन्धमादनः॥ २७ ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः॥
महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः॥ २८ ॥
मन्दरस्य गिरेः श्रृङ्गे महावृक्षः सकेतुराट्॥
प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः॥ २९ ॥
दक्षिणस्यापि शैलस्य शिखरे देवसेविता॥
जम्बूः सदा पुण्यफला सदा माल्योप शोभिता॥ ३೦ ॥
सकेतुर्दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता॥
विपुलस्यापि शैलस्य पश्चिमे च महात्मनः॥ ३१ ॥
सञ्जातः शिखरेऽश्वत्थः स महान् चैत्यपादपः॥
सुपार्श्वस्योत्तरस्यापि श्रृङ्गे जातो महाद्रुमः॥ ३२ ॥
न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः॥
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यताक्रमम्॥ ३३ ॥
अमानुष्याणि रम्याणि सर्वकालर्तुकानि च॥
मनोहराणि चत्वारि देवक्रीडनकानि च॥ ३४ ॥
वनानि वै चतुर्दिक्षु नामतस्तु निबोधत॥
पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम्॥ ३५ ॥
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम्॥
मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरमतः परम्॥ ३६ ॥
वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम्॥
महा सरांसि च तथा चत्वारी मुनिपुङ्गवाः॥ ३७ ॥
यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च॥
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम्॥ ३८ ॥
सितोदं पश्चिमसरो महाभद्रं तथोत्तरम्॥
शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे॥ ३९ ॥
उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः॥
अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः॥ ४೦ ॥
तांस्तु सङ्क्षेपतो वक्ष्ये न शक्यं विस्तरेण तु॥
सितान्तश्च कुरण्डश्च कुररश्चाचलोत्तमः॥ ४१ ॥
विकरो मणिशैलश्च वृक्षवांश्चाचलोत्तमः॥
महानीलोथ रुचकः सबिन्दुर्दर्दुरस्तथा॥ ४२ ॥
वेणुमांश्च समेघश्च निषधो देवपर्वतः॥
इत्येते पर्वतवरा ह्यन्ये च गिरयस्तथा॥ ४३ ॥
पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः॥
तेषुतेषु गिरीन्द्रेषु गुहासु च वनेषु च॥ ४४ ॥
रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च॥
सरसो मानसस्येह दक्षिणेन महाचलाः॥ ४५ ॥
ये कीर्त्यमानास्तान्सर्वान् सङ्क्षिप्य प्रवदाम्यहम्॥
शैलश्च विशिराश्चैव शिखरश्चाचलोत्तमः॥ ४६ ॥
एकश्रृङ्गो महाशूलो गजशैलः पिशाचकः॥
पञ्चशैलोथ कैलासो हिमवांश्चाचलोत्तमः॥ ४७ ॥
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः॥
तेषुतेषु च सर्वेषु पर्वतेषु वनेषु च॥ ४८ ॥
रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः॥
दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः॥ ४९ ॥
अपरेण सितोदश्च सुरपश्च महाबलः॥
कुमुदो मधुमांश्चैव ह्यञ्जनो मुकुटस्तथा॥ ५೦ ॥
कृष्णश्च पाण्डुरश्चैव सहस्रशिखरश्च यः॥
पारिजातश्च शैलेन्द्रः श्रीश्रृङ्गश्चाचलोत्तमः॥ ५१ ॥
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः॥
सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः॥ ५२ ॥
महाभद्रस्य सरसश्चोत्तरे च महाबलाः॥
ये स्थिताः कीर्त्यमानांस्तान्सङ्क्षिप्येह निबोधत॥ ५३ ॥
शङ्खकूटो महाशैलो वृषभो हंसपर्वतः॥
नागश्च कपिलश्चैव इन्द्र शैलश्च सानुमान्॥ ५४ ॥
नीलः कण्टकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः॥
पुष्पकोशः प्रशैलश्च विरजश्चाचलोत्तमः॥ ५५ ॥
वराहपर्वतश्चैव मयूरश्चाचलोत्तमः॥
जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः॥ ५६ ॥
तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः॥
असङ्ख्यातानि दिव्यानि विमानानि सहस्रशः॥ ५७ ॥
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम्॥
सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च॥ ५८ ॥
वसन्ति देवा मुनयः सिद्धाश्च शिवभाविताः॥
कृतवासाः सपत्नीकाः प्रसादात्परमेष्ठिनः॥ ५९ ॥
लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः॥
तथा तालवने प्रोक्तमिन्द्रोपेन्द्रोरगात्मनाम्॥ ६೦ ॥
उदुम्बरे कर्दमस्य तथान्येषां महात्मनाम्॥
विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे॥ ६१ ॥
नागानां सिद्धसङ्घानां तथा निम्बवने स्थितिः॥
सूर्यस्य किंशुकवने तथा रुद्रगणस्य च॥ ६२ ॥
बीजपूरवने पुण्ये देवाचर्यो व्यवस्थितः॥
कौमुदे तु वने विष्णुप्रमुखानां महात्मनाम्॥ ६३ ॥
स्थलपद्मवनान्तस्थन्यग्रोधेऽशेषभोगिनः॥
शेषस्त्वशेषजगतां पतिरास्तेऽतिगर्वितः॥ ६४ ॥
स एव जगतां कालः पाताले च व्यवस्थितः॥
विष्णोर्विश्वगुरोर्मूर्तिर्दिव्यः साक्षाद्धलायुधः॥ ६५ ॥
शयनं देवदेवस्य स हरेः कङ्कणं विभोः॥
वने पनसवृक्षाणां सशुक्रा दानवादयः॥ ६६ ॥
किन्नरैरुरगाश्चैव विशाखकवने स्थिताः॥
मनोहरवने वृक्षाः सर्व कोटिसमन्विताः॥ ६७ ॥
नन्दीश्वरो गणवरैः स्तूयमानो व्यवस्थितः॥
सन्तानकस्थलीमध्ये साक्षाद्देवी सरस्वती॥ ६८ ॥
एवं सङ्क्षेपतः प्रोक्ता वनेषु वनवासिनः॥
असङ्ख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु॥ ६९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनपञ्चाशत्तमोऽध्यायः॥ ४९ ॥