०४७

सुत उवाच॥
आग्नीध्रं ज्येष्ठदायाहं काम्यपुत्रं महाबलम्॥
प्रियव्रतोऽभ्यषिञ्चद्वै जम्बूद्वीपेश्वरं नृपः॥ ४७.१ ॥

सोतीव भवभक्तश्च तपस्वी तरुणः सदा॥
भवार्चनरतः श्रीमान्गोमान्धीमान्द्विजर्षभाः॥ ४७.२ ॥

तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव॥
सर्वे माहेश्वराश्चैव महादेवपरायणाः॥ ४७.३ ॥

ज्येष्ठो नाभिरिति ख्यातस्तस्य किम्पुरुषोऽनुजः॥
हरिवर्षस्तृतीयस्तु चतुर्थो वै त्विलावृतः॥ ४७.४ ॥

रम्यस्तु पञ्चमस्तत्र हिरण्मान् षष्ठ उच्यते॥
कुरुस्तु सप्तमस्तेषां भद्राश्वस्त्वष्टमः स्मृतः॥ ४७.५ ॥

नवमः केतुमालस्तु तेषां देशान्निबोधत॥
नाभेस्तु दक्षिणं वर्षं हेमाख्यं तु पिता ददौ॥ ४७.६ ॥

हेमकूटं तु यद्वर्षं ददौ किम्पुरुषाय सः॥
नैषयं यत्स्मृतं वर्षं हरये तत्पिता ददौ॥ ४७.७ ॥

इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः॥
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता॥ ४७.८ ॥

श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्मते॥
यदुत्तरं श्रृङ्गवर्षं पिता तत्कुरवे ददौ॥ ४७.९ ॥

वर्षं माल्यवतं चापि भद्राश्वस्य न्यवेदयत्॥
गन्धमादनवर्षं तु केतुमालाय दत्तवान्॥ ४७.१೦ ॥

इत्येतानि महान्तीह नव वर्षाणि भागशः॥
आग्नीध्रस्तेषु वर्षेषु पुत्रांस्तानभिषिच्य वै॥ ४७.११ ॥

यथाक्रमं स धर्मात्मा ततस्तु तपसिस्तितः॥
तपसा भावितश्चैव स्वाध्याय निरतस्त्वभूत्॥ ४७.१२ ॥

स्वाध्यायनिरतः पश्चाच्छिवध्यानरतस्त्वभूत्॥
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि च॥ ४७.१३ ॥

तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च॥ ४७.१४ ॥

धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वतः॥ ४७.१५ ॥

रुद्रक्षेत्रे मृताश्चैव जङ्गमाः स्थावरास्तथा॥
भक्ताः प्रासङ्गिकाश्चापि तेषु क्षेत्रेषु यान्ति ते॥ ४७.१६ ॥

तेषां हिताय रुद्रेण चाष्टक्षेत्रं विनिर्मितम्॥
तत्र तेषां महादेवः सान्निध्यं कुरुते सदा॥ ४७.१७ ॥

दृष्ट्वा हृदि महादेवमष्टक्षेत्र निवासिनः॥
सुखिनः सर्वदा तेषां स एवेह परा गतिः॥ ४७.१८ ॥

नाभेर्निसर्गं वक्ष्यामि हिमाङ्केऽस्मिन्निबोधत॥
नाभिस्त्वजनयत्पुत्रं मेरुदेव्यां महामतिः॥ ४७.१९ ॥

ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम्॥
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः॥ ४७.२೦ ॥

सोभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः॥
ज्ञानवैराग्यमाश्रित्य जित्वेन्द्रियमहोरगान्॥ ४७.२१ ॥

सर्वात्मनात्मनि स्थाप्य परमात्मानमीश्वरम्॥
नग्नो जटी निराहारो चीरी ध्वान्तगतो हि सः॥ ४७.२२ ॥

निराशस्त्यक्तसन्देहः शैवमाप परं पदम्॥
हिमाद्रेर्दक्षिणं वर्षं भरताय न्यवेदयत्॥ ४७.२३ ॥

तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः॥
भरतस्यात्मजो विद्वान्सुमतिर्नामधार्मिकः॥ ४७.२४ ॥

बभूव तस्मिंस्तद्राज्यं भरतः सन्न्यवेशयत्॥
पुत्रसङ्क्रामितश्रीको वनं राजा विवेश सः॥ ४७.२५ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे भरतवर्षकथनं नाम सप्तचत्वारिंशोऽध्यायः॥ ४७ ॥