सूत उवाच॥
सप्तद्वीपा तथा पृथ्वी नदीपर्वतसङ्कुला॥
समुद्रैः सप्तभिश्चैव सर्वतः समलङ्कृता॥ ४६.१ ॥
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चस्तथैव च॥
शाकः पुष्करनामा च द्वीपास्त्वभ्यन्तरे क्रमात्॥ ४६.२ ॥
सप्तद्वीपेषु सर्वेषु साम्बः सर्वगणैर्वृतः॥
नानावेषधरो भूत्वा सान्निध्यं कुरुते हरः॥ ४६.३ ॥
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदधिः॥
दध्यर्णवश्च क्षीरोदः स्वादूदश्चाप्यनुक्रमात्॥ ४६.४ ॥
समुद्रेष्विह सर्वेषु सर्वदा सगणः शिवः॥
जलरूपी भवः श्रीमान् क्रीडते चोर्मिबाहुभिः॥ ४६.५ ॥
क्षीरार्णवामृतमिव सदा क्षीरार्णवे हरिः॥
शेते शिवज्ञानाधिया साक्षाद्वै योगनिद्रया॥ ४६.६ ॥
यदा प्रबुद्धो भगवान्प्रबुद्धमखिलं जगत्॥
यदा सुप्तस्तदा सुप्तं तन्मयं च चराचरम्॥ ४६.७ ॥
तेनैव सृष्टमखिलं धृतं रक्षितमेव च॥
संहृतं देवदेवस्य प्रसादात्परमेष्ठिनः॥ ४६.८ ॥
सुषेणा इति विख्याता यजन्ते पुरुषर्षभम्॥
अनिरुद्धं मुनिश्रेष्ठाः शङ्खचक्रगदाधरम्॥ ४६.९ ॥
ये चानिरुद्धं पुरुषं ध्यायन्त्यात्मविदां वराः॥
नारायणसमाः सर्वे सर्वसम्पत्समन्विताः॥ ४६.१೦ ॥
सनन्दनश्च भगवान् सनकश्च सनातनः॥
वालखिल्याश्च सिद्धाश्च मित्रावरुणकौ तथा॥ ४६.११ ॥
यजन्ति सततं तत्र विश्वस्य प्रभवं हरिम्॥
सप्तद्वीपेषु तिष्ठन्ति नानाश्रृङ्गा महोदयाः॥ ४६.१२ ॥
आसमुद्रायताः केचिद्गिरयो गह्वरैस्तथा॥
धरायाः पतयश्चासन् बहवः कालगौरवात्॥ ४६.१३ ॥
सामर्थ्यात्परमेशानाः क्रौञ्चारेर्जनकात्प्रभोः॥
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह॥ ४६.१४ ॥
प्रवक्ष्यामि धरेशान् वो वक्ष्ये स्वायम्भुवेन्तरे॥
मन्वन्तरेषु सर्वेषु अतीतानागतेषु च॥ ४६.१५ ॥
तुल्याभिमानिनश्चैव सर्वे तुल्यप्रयोजनाः॥
स्वायम्भुवस्य च मनोः पौत्रास्त्वासन्महा बलाः॥ ४६.१६ ॥
प्रियव्रतात्मजा वीरास्ते दशेह प्रकीर्तिताः॥
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः॥ ४६.१७ ॥
ज्योतिष्मान्द्युतिमान् हव्यः सवनः पुत्र एव च॥
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान्॥ ४६.१८ ॥
जम्बूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम्॥
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः॥ ४६.१९ ॥
शाल्मलेश्च वपुष्मन्तं राजानमभिषिक्तवान्॥
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्नृपः॥ ४६.२೦ ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्॥
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः॥ ४६.२१ ॥
पुष्कराधिपतिं चक्रे सवनं चापि सुव्रताः॥
पुष्करे सवनस्यापि महावीतः सुतोऽभवत्॥ ४६.२२ ॥
धातकी चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ॥
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः॥ ४६.२३ ॥
नाम्ना तु धातकेश्चैव धातकीखण्डमुच्यते॥
हव्योप्यजनयत्पुत्राञ्छाकद्वीपेश्वरः प्रभुः॥ ४६.२४ ॥
जलदं च कुमारं च सुकुमारं मणीचकम्॥
कुसुमोत्तरमोदाकी सप्तमस्तु महाद्रुमः॥ ४६.२५ ॥
अलदं जलदस्याथ वर्षं प्रथममुच्यते॥
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम्॥ ४६.२६ ॥
सुकुमारं तृतीयं तु सुकुमारस्य कीर्त्यते॥
मणीचकं चतुर्थं तु माणचिकमिहोच्यते॥ ४६.२७ ॥
कुसुमोत्तरस्य वै वर्षं पञ्चमं कुसुमोत्तरम्॥
मोदकं चापि मोदाकेर्वर्षं षष्ठं प्रकीर्तितम्॥ ४६.२८ ॥
महाद्रुमस्य नाम्ना तु सप्तमं तन्महाद्रुमम्॥
तेषां तु नामभि स्तानि सप्त वर्षाणि तत्र वै॥ ४६.२९ ॥
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै॥
कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः॥ ४६.३೦ ॥
मुनिश्चदुन्दुभिश्चैव सुता द्युतिमतस्तु वै॥
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः॥ ४६.३१ ॥
कुशलदेशः कुशले मनुगस्य मनोनुगः॥
उष्णस्योष्णः स्मृतो देशः पीवरः पीवरस्य च॥ ४६.३२ ॥
अन्धकारस्य कथितो देशो नाम्नान्ध कारकः॥
मुनेर्देशो मुनिः प्रोक्तो दुन्दुभेर्दुन्दुभिः स्मृतः॥ ४६.३३ ॥
एते जनपदाः सप्त क्रौञ्चद्वीपेषु भास्वराः॥
ज्योतिष्मन्तः कुशद्वीपे सप्त चासन्महौजसः॥ ४६.३४ ॥
उद्भिदो वेणुमांश्चैव द्वैरथो लवणो धृतिः॥
षष्ठः प्रभाकरश्चापि सप्तमः कपिलः स्मृतः॥ ४६.३५ ॥
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्॥
तृतीयं द्वैरथं चैव चतुर्थं लवणं स्मृतम्॥ ४६.३६ ॥
पञ्चमं धृतिमत्षष्ठं प्रभाकरमनुत्तमम्॥
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम्॥ ४६.३७ ॥
शाल्मलस्येश्वराः सप्त सुतास्ते वै वपुष्मतः॥
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा॥ ४६.३८ ॥
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा॥
श्वेतस्य देशः श्वेतस्तु हरितस्य च हारितः॥ ४६.३९ ॥
जीमूतस्य च जीमूतो रोहितस्य च रोहितः॥
वैद्युतो वैद्युतस्यापि मानसस्य च मानसः॥ ४६.४೦ ॥
सुप्रभः सुप्रभस्यापि सप्त वै देशलाञ्छकाः॥
प्लक्षद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम्॥ ४६.४१ ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः॥
ज्येष्ठ शान्तभयस्तेषां सप्तवर्षाणि तानि वै॥ ४६.४२ ॥
तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः॥
आनन्दश्च शिवश्चैव क्षेमकस्च ध्रुवस्तथा॥ ४६.४३ ॥
तानि तेषां तु नामानि सप्तवर्षाणि भागशः॥
निवेशितानि तैस्तानि पूर्वं स्वायम्भुवेन्तरे॥ ४६.४४ ॥
मेधातिथेस्तु पुत्रैस्तैः प्लक्षद्वीपनिवासिभिः॥
वर्णाश्रमाचारयुताः प्रजास्तत्रच निवेशिताः॥ ४६.४५ ॥
प्लक्षद्वीपादिवर्षेषु शाकद्वीपान्तिकेषु वै॥
ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः॥ ४६.४६ ॥
सुखमायुः स्वरूपं च बलं धर्मो द्विजोत्तमाः॥
पञ्चस्वेतेषु द्वीपेषु सर्वसाधारणं स्मृतम्॥ ४६.४७ ॥
रुद्रार्चनरता नित्यं महेश्वरपरायणाः॥
अन्ये च पुष्करद्वीपे प्रजाताश्च प्रजेश्वराः॥ ४६.४८ ॥
प्रजापतेश्च रुद्रस्य भावामृतसुखोत्कटाः॥ ४६.४९ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे द्वीपद्वीपेश्वरकथनं नाम षट्चत्वारिंशोध्यायः॥ ४६ ॥