०४४

शैलादिरुवाच॥
स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः॥
सर्वे सहस्रहस्ताश्च सहस्रायुधपाणयः॥ ४४.१ ॥

त्रिनेत्राश्च महात्मानस्त्रिदशैरपि वन्दिताः॥
कोटिकालाग्निसङ्काशा जटामुकुटधारिणः॥ ४४.२ ॥

दंष्ट्राकरालवदना नित्या बुद्धाश्च निर्मलाः॥
कोटिकोटि गणैस्तुल्यैरात्मना च गणेश्वराः॥
असङ्ख्याता महात्मानस्तत्राजग्मुर्मुदायुताः॥ ४४.३ ॥

गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः॥
मुखाडम्बरवाद्यानि वादयन्तस्तथैव च॥ ४४.४ ॥

रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः॥
विमानेषु तथारूढा हेमचित्रेषु वै गणाः॥ ४४.५ ॥

भेरीमृदङ्गकाद्यैश्च पणवानकगोमुखैः॥
वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः॥ ४४.६ ॥

भेरीमुरजसन्नादैराडम्बरकडिण्डिमैः॥
मर्दलैर्वेणुवीणाभिर्विविधैस्तालनिःस्वनैः॥ ४४.७ ॥

दर्दुरैस्तलघातैश्च कच्छपैः पणवैरपि॥
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्॥ ४४.८ ॥

ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः॥
प्रणम्य देवं देवीं च इदं वचनमबुवन्॥ ४४.९ ॥

भगवन्देवदेवेश त्रियम्बक वृषध्वज॥
किमर्थं च स्मृता देव आज्ञापय महाद्युते॥ ४४.१೦ ॥

किं सागराञ्शोषयामो यमं वा सह किङ्करैः॥
हन्मो मृत्युसुतां मृत्युं पशुवद्धन्म पद्मजम्॥ ४४.११ ॥

बद्ध्वेन्द्रं सह देवैश्च सह विष्णुं च वायुना॥
आनयामः सुसङ्क्रुद्धा दैत्यान्वा सह दानवैः॥ ४४.१२ ॥

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया॥
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये॥ ४४.१३ ॥

तांस्तथावादिनः सर्वान् गणेशान् सर्वसम्मतान्॥
उवाच देवः सम्पूज्य कोटिकोटिशतान्प्रभुः॥ ४४.१४ ॥

श्रृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः॥
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः॥ ४४.१५ ॥

नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः॥
विप्रोयं नायकश्चैव सेनानीर्वः समृद्धिमान्॥ ४४.१६ ॥

तमिमं मम सन्देशाद्यूयं सर्वेपि सम्मताः॥
सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम्॥ ४४.१७ ॥

एवमुक्ता भगवता गणपाः सर्व एव ते॥
एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः॥ ४४.१८ ॥

तस्य सर्वाश्रयं दिव्यं जाम्बूनदमयं शुभम्॥
आसनं मेरुसङ्काशं मनोहरमुपाहरन्॥ ४४.१९ ॥

नैकस्तम्भमयं चापि चामीकरवरप्रभम्॥
मुक्तादामावलम्बं च मणिरत्नावभासितम्॥ ४४.२೦ ॥

स्तम्भैश्च वैडुर्यमयैः किङ्किणी जालसंवृतम्॥
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम्॥ ४४.२१ ॥

कृत्वा विन्यस्य तन्मध्ये तदासनवरं शुभम्॥
तस्याग्रतः पादपीठं नीलवज्रावभासितम्॥ ४४.२२ ॥

चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ॥
सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ॥ ४४.२३ ॥

कलशानां सहस्रं तु सौवर्णं राजतं तथा॥
ताम्रजं मृन्मयं चैव सर्वतीर्थाबुपूरितम्॥ ४४.२४ ॥

वासोयुगं तथा दिव्यं गन्धं दिव्यं तथैव च॥
केयूरे कुण्डले चैव मुकुटं हारमेव च॥ ४४.२५ ॥

छत्रं शतशलाकं च वालव्यजनमेव च॥
दत्तं महात्मना तेन ब्रह्मणा परमेष्ठिना॥ ४४.२६ ॥

शङ्खहाराङ्गगौरेण पृष्ठेनापि विराजितम्॥
व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचामरम्॥ ४४.२७ ॥

ऐरावतः सुप्रतीको गजावेतौ सुपूजितौ॥
मुकुटं काञ्चनं चैव निर्मितं विश्वकर्मणा॥ ४४.२८ ॥

कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्॥
जाम्बूनदमयं सूत्रं केयूरद्वयमेव च॥ ४४.२९ ॥

सम्भाराणि तथान्यानि विविधानि बहून्यपि॥
समन्तान्निन्युव्यग्रा गणपा देवसम्मताः॥ ४४.३೦ ॥

ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा॥
मुनयो भगवान्ब्रह्मा नवब्रह्माण एव च॥ ४४.३१ ॥

देवैश्च लोकाः सर्वे ते ततो जग्मुर्मुदा युताः॥
तेष्वागतेषु सर्वेषु भगवान्परमेश्वरः॥ ४४.३२ ॥

सर्वकार्यविधिं कर्तुमादिदेश पितामहम्॥
पितामहोपि भगवान् नियोगादेव तस्य तु॥ ४४.३३ ॥

चकार सर्वं भगवानभिषेकं समाहितः॥
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषेचयत्॥ ४४.३४ ॥

ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च॥
अभ्यषिञ्चन्त विधिवद्गणेन्द्रं शिवशासनात्॥ ४४.३५ ॥

ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः॥
स्तुतवत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः॥ ४४.३६ ॥

शिरस्यञ्जलिमादाय तुष्टाव च समाहितः॥
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च॥ ४४.३७ ॥

ततो गणाधिपाः सर्वे ततो देवास्ततोऽसुराः॥
एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा॥ ४४.३८ ॥

उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः॥
मरुतां च सुता देवी सुयशाख्या बभूव या॥ ४४.३९ ॥

लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम्॥
चामरे चामरासक्तहस्ताग्रैः स्त्रीगणैर्युता॥ ४४.४೦ ॥

सिंहासनं च परमं तया चाधिष्ठितं मया॥
अलङ्कृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः॥ ४४.४१ ॥

लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा॥
वृषेन्द्रश्च सितो नागः सिंहः सिंहध्वजस्तथा॥ ४४.४२ ॥

रथश्च हेमच्छत्रं च चन्द्रबिम्बसमप्रभम्॥
अद्यापि सदृशः कश्चिन्मया नास्ति विभुः क्वचित्॥ ४४.४३ ॥

सान्वयं च गृहीत्वेशस्तथा सम्बन्धिबान्धवैः॥
आरुह्य वृषमीशानो मया देव्या गतः शिवः॥ ४४.४४ ॥

तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः॥
मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः॥ ४४.४५ ॥

अथाज्ञां प्रददौ तेषामर्हाणामज्ञया विभोः॥
नन्दिको नगजाभर्तुस्तेषां पाशुपतीं शुभाम्॥ ४४.४६ ॥

तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुङ्गवात्॥
भवभक्तास्तदा चासंस्तस्मादेवं समर्चयेत्॥ ४४.४७ ॥

नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे॥
ब्रह्मघ्नदशसन्तुल्यं तस्य पापं गरीयसम्॥ ४४.४८ ॥

तस्मात्सर्वप्रकारेण नमस्कारादिमुच्चरेत्॥
आदौ कुर्यान्नमस्कारं तदन्ते शिवतां व्रजेत्॥ ४४.४९ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वराभिषेको नाम चतुश्चत्वारिंशोध्यायः॥ ४४ ॥