०४३

नन्दीकेश्वर उवाच॥
मया सह पिता हृष्टः प्रणम्य च महेश्वरम्॥
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः॥ ४३.१ ॥

यदागतोहमुटजं शिलादस्य महामुने॥
तदा वै दैविकं रूपं त्यक्त्वा मानुष्य मास्थितः॥ ४३.२ ॥

नष्टा चैव स्मृतिर्दिव्या येन केनापि कारणात्॥
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः॥ ४३.३ ॥

विललापाति दुःखार्तः स्वजनैश्च समावृतः॥
जातकर्मादिकाश्चैव चकार मम सर्ववित्॥ ४३.४ ॥

शालङ्कायनपुत्रो वै शिलादः पुत्रवत्सलः॥
उपदिष्टा हि तेनैव ऋक्शाखा यजुषस्तथा॥ ४३.५ ॥

समाशाखासहस्रं च साङ्गोपाङ्गं महामुने॥
आयुर्वेदं धनुर्वेदं गान्धर्वं चाश्वलक्षणम्॥ ४३.६ ॥

हरितनां चरितं चैव नराणां चैव लक्षणम्॥
सम्पूर्णे सप्तमे वर्षे ततोथ मुनिसत्तमौ॥ ४३.७ ॥

मित्रावरुणनामानौ तपोयोगबलान्वितौ॥
तस्याश्रमं गतौ दिव्यौ द्रष्टु मां चाज्ञया विभोः॥ ४३.८ ॥

ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः॥
तात नन्द्ययमल्पायुः सर्वशास्त्रार्थपारगः॥ ४३.९ ॥

न दृष्टमेवमाश्चर्यमायुर्वर्षादतः परम्॥
इत्युक्तवति विप्रेन्द्रः शिलादः पुत्रवत्सलः॥ ४३.१೦ ॥

समालिङ्ग्य च दुःखार्तो रुरोदातीव विस्वरम्॥
हा पुत्र पुत्र पुत्रेति पपात च समन्ततः॥ ४३.११ ॥

अहो बलं दैवविधोर्विधातुश्चोति दुःखितः॥
तस्य चार्तस्वरं श्रुत्वा तदाश्रमनिवासिनः॥ ४३.१२ ॥

निपेतुर्विह्वलात्यर्थं रक्षाश्चक्रुश्च मङ्गलम्॥
तुष्टुवुश्च महादेव त्रियम्बकमुमापतिम्॥ ४३.१३ ॥

हुत्वा त्रियम्बकेनैव मधुनैव च सम्प्लुताम्॥
दूर्वामयुतसङ्ख्यातां सर्व द्रव्यसमन्विताम्॥ ४३.१४ ॥

पिता विगतसञ्ज्ञश्च तथा चैव पितामहः॥
विचेष्टश्च ललापासौ मृतवन्निपपात च॥ ४३.१५ ॥

मृत्योर्भीतोहमचिराच्छिरसा चाभिवन्द्य तम्॥
मृतवत्पतितं साक्षात्पितरं च पितामहम्॥ ४३.१६ ॥

प्रदक्षिणीकृत्य च तं रुद्रजाप्यरतोऽभवम्॥
हृत्पुण्डरीके सुषिरे ध्यात्वा देवं त्रियम्बकम्॥ ४३.१७ ॥

त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदाशिवम्॥
सरितश्चान्तरे पुण्ये स्थितं मां परमेश्वरः॥ ४३.१८ ॥

तुष्टोब्रवीन्महादेवः सोमः सोमार्धभूषणः॥
वत्स नन्दीन्महाबाहो मृत्योर्भीतिः कुतस्तव॥ ४३.१९ ॥

मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः॥
वत्सैनत्तव देहं च लौकिकं परमार्थतः॥ ४३.२೦ ॥

नास्त्येव दैविकं दृष्टं शिलादेन पुरा तव॥
देवैश्च मुनिभिः सिद्धैर्गन्धर्वैर्दानवोत्तमैः॥ ४३.२१ ॥

पूजितं यत्पुरा वत्स दैविकं नन्दिकेश्वर॥
संसारस्य श्वभावोयं सुखं दुःखं पुनः पुनः॥ ४३.२२ ॥

नृणां योनिपरित्यागः सर्वथैव विवेकिनः॥
एवमुक्त्वा तु मां साक्षात्सर्वदेवमहेश्वरः॥ ४३.२३ ॥

कराभ्यां सुशुभाभ्यां च उभाभ्यां परमेश्वरः॥
पस्पर्श भगवान् रुद्रः परमार्तिहरो हरः॥ ४३.२४ ॥

उवाच च महादेवस्तुष्टात्मा वृषभध्वजः॥
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम्॥ ४३.२५ ॥

समालोक्य च तुष्टात्मा महादेवः सुरेश्वरः॥
अजरो जरया त्यक्तो नित्यं दुःखविवर्जितः॥ ४३.२६ ॥

अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः॥
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः॥ ४३.२७ ॥

इष्टो मम सदा चैव मम पार्श्वगतः सदा॥
मद्ब्रलश्चैव भविता महायोगबलान्वितः ४३.२८ ॥

एवमुक्त्वा च मां देवो भगवान् सगणस्तदा॥
कुशेशयमयीं मालां समुन्मुच्यात्मनस्तदा॥ ४३.२९ ॥

आबबन्ध महातेजा मम देवो वृषध्वजः॥
तयाहं मालया जातः शुभया कण्ठसक्तया॥ ४३.३೦ ॥

त्र्यक्षो दशभुजश्चैव द्वितीयं इव शङ्करः॥
तत एव समादाय हस्तेन परमेश्वरः॥ ४३.३१ ॥

उवाच ब्रूहि किं तेद्य ददामि वरमुत्तमम्॥
ततो जटाश्रितं वारि गृहीत्वा चातिनिर्मलम्॥ ४३.३२ ॥

उक्ता नदी भवस्वेति उत्ससर्ज वृषध्वजः॥
ततः सा दिव्यतोया च पूर्णासितजला शुभा॥ ४३.३३ ॥

पद्मोत्पलवनोपेता प्रावर्तत महानदी॥
तामाह च महादेवो नदीं परम शोभनाम्॥ ४३.३४ ॥

यस्माज्जटोदकादेव प्रवृत्ता त्वं महानदी॥
तस्माज्जटोदका पुण्या भविष्यसि सरिद्वरा॥ ४३.३५ ॥

त्वयि स्नात्वा नरः कश्चित्सर्वपापैः प्रमुच्यते॥
ततो देव्या महादेवः शिलादतनयं प्रभुः॥ ४३.३६ ॥

पुत्रस्तेऽयमिति प्रोच्य पादयोः सन्न्यपातयत्॥
सा मामाघ्राय शिरसिपाणिभ्यां परिमार्जती॥ ४३.३७ ॥

पुत्रप्रेम्णाभ्यषिञ्चच्च स्रोतोभिस्तनयैस्त्रिभिः॥
पयसा शङ्खगौरेण देवदेवं निरीक्ष्य सा॥ ४३.३८ ॥

तानि स्रोतांसि त्रीण्यस्याः स्रोतस्विन्योभवंस्तदा॥
नदीं त्रिस्रोतसं देवो भगवानवदद्भवः॥ ४३.३९ ॥

त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः॥
ननाद नादात्तस्माच्च सरिदन्या ततोऽभवत्॥ ४३.४೦ ॥

वृषध्वनिरिति ख्याता देवदेवेन सा नदी॥
जाम्बूनदमयं चित्रं सर्वरत्नमयं शुभम्॥ ४३.४१ ॥

स्वं देवश्चाद्भुतं दिव्यं निर्मितं विश्वकर्मणा॥
मुकुटं चाबबन्धेशो मम मूर्ध्नि वृषध्वजः॥ ४३.४२ ॥

कुण्डले च शुभे दिव्ये वज्रवैडूर्यभूषिते॥
आबबन्ध महादेवः स्वयमेव महेश्वरः॥ ४३.४३ ॥

मां तथाभ्यर्चितं व्योम्नो दृष्ट्वा मेघैः प्रभाकरः॥
मेघाम्भसा चाभ्यषिञ्चच्छिलादनमयो मुने॥ ४३.४४ ॥

तस्याभिषिक्तस्य तदा प्रवृत्त स्रोतसा भृशम्॥
यस्मात्सुवर्णान्निःसृत्य नद्येषा सम्प्रवर्तते॥ ४३.४५ ॥

स्वर्णोदकेति तामाह देवदेवस्त्रियम्बकः॥
जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभा॥ ४३.४६ ॥

प्रावर्तत नदी पुण्या ऊवुर्जम्बूनदीति ताम्॥
एतत्पञ्चनदं नाम जप्येश्वरसमीपगम्॥ ४३.४७ ॥

यः पञ्चनदमासाद्य स्नात्वा जप्येश्वरेश्वरम्॥
पूजयेच्छिवसायुज्यं नयात्येव न संशयः॥ ४३.४८ ॥

अथ देवो महादेवः सर्वभूतपतिर्भवः॥
देवीमुवाच शर्वाणीमुमां गिरिसुतामजाम्॥ ४३.४९ ॥

देवी नन्दीश्वरं देवमभिषिञ्चामि भूतपम्॥
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये॥ ४३.५೦ ॥

तस्य तद्वचनं श्रुत्वा भवानी हर्षितानना॥
स्मयन्ती वरदं प्राह भवं भूतपतिं पतिम्॥ ४३.५१ ॥

सर्वलोकाधिपत्यं च गणेशत्वं तथैव च॥
दातुमर्हसि देवेश शैलादिस्तनयो मम॥ ४३.५२ ॥

ततः स भगवाञ्शर्वः सर्वलोकेश्वरेश्वरः॥
सस्मार गणपान् दिव्यान्देवदेवो वृषध्वजः॥ ४३.५३ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वरप्रादुर्भावनन्दिकेश्वराभिषेकमन्त्रो नाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥