सूत उवाच॥
गते पुण्ये च वरदे सहस्राक्षे शिलाशनः॥
आराधयन्महादेवं तपसाऽतोषयद्भवम्॥ ४२.१ ॥
अथ तस्यैवमनिशं तत्परस्य द्विजस्य तु॥
दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम्॥ ४२.२ ॥
वल्मीकेनावृताङ्गश्च लक्ष्यः कीटगणैर्मुनिः॥
वज्रसूचीमुखैश्चान्यै रक्तकीटैश्च सर्वतः॥ ४२.३ ॥
निर्मांसरुधिरत्वग्वै निर्लेपः कुड्यवत्स्थितः॥
अस्थिशेषोऽभवत्पश्चात्तममन्यत शङ्करः॥ ४२.४ ॥
यदा स्पृष्टो मुनिस्तेन करेण च स्मरारिणा॥
तदैव मुनिशार्दूलश्चोत्ससर्ज क्लमं द्विजः॥ ४२.५ ॥
तपतस्तस्य तपसा प्रभुस्तुष्टाथ शङ्करः॥
तुष्टस्तवेत्यथोवाच सगणश्चोमया सह॥ ४२.६ ॥
तपसानेन किं कार्यं भवतस्ते महामते॥
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्॥ ४२.७ ॥
ततः प्रणम्य देवेशं स्तुत्वोवाच शिलाशनः॥
हर्षगद्गदया वाचा सोमं सोमविभूषणम्॥ ४२.८ ॥
शिलाद उवाच॥
भगवन्देवदेवेश त्रिपुरार्दन शङ्कर॥
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सत्तम॥ ४२.९ ॥
सूत उवाच॥
पूर्वमाराधितः प्राह तपसा परमेश्वरः॥
शिलादं ब्रह्मणा रुद्रः प्रीत्या परमया पुनः॥ ४२.१೦ ॥
श्रीदेवदेव उवाच॥
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन॥
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः॥ ४२.११ ॥
तव पुत्रो भविष्यामि नन्दिनाम्ना त्वयोनिजः॥
पिता भविष्यसि मम पितुर्वै जगतां मुने॥ ४२.१२ ॥
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्य स्थितं घृणी॥
सोमः सोमोपमः प्रीतस्तत्रैवान्तरधीयत॥ ४२.१३ ॥
लब्धपुत्रः पिता रुद्रात्प्रीतो मम महामुने॥
यज्ञाङ्गणं महत्प्राप्य यज्ञार्थं यज्ञवित्तमः॥ ४२.१४ ॥
तदङ्गणादहं शम्भोस्तनुजस्तस्य चाज्ञया॥
सञ्जातः पूर्वमेवाहं युगान्ताग्निसमप्रभः॥ ४२.१५ ॥
ववर्षुस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्याः॥
शिलादात्मजत्वं गते मय्युपेन्द्रः ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम्॥ ४२.१६ ॥
मां दृष्ट्वा कालसूर्याभं जटामुकुटधारिणम्॥
त्र्यक्षं चतुर्भुजं बालं शूलटङ्कगदाधरम्॥ ४२.१७ ॥
वज्रिणं वज्रदंष्ट्रं च वज्रिणाराधितं शिशुम्॥
वज्रकुण्डलिनं घोरं नीरदोपमनिः स्वनम्॥ ४२.१८ ॥
ब्रह्माद्यास्तुष्टुवुः सर्वे सुरेन्द्रश्च मुनीश्वराः॥
नेदुः समन्ततः सर्वे ननृतुश्चाप्सरोगणाः॥ ४२.१९ ॥
ऋषयो मुनिशार्दूल ऋग्यजुःसामसम्भवैः॥
मन्त्रैर्माहेश्वरैः स्तुत्वा सम्प्रणेमुर्मुदान्विताः॥ ४२.२೦ ॥
ब्रह्मा हरिश्च रुद्रश्च शक्रः साक्षाच्छिवाम्बिका॥
जीवश्चेन्दुर्महातेजा भास्करः पवनोनलः॥ ४२.२१ ॥
ईशानो निर्ऋतिर्यक्षो यमो वरुण एव च॥
विश्वेदेवास्तथा रुद्रा वसवश्च महाबलाः॥ ४२.२२ ॥
लक्ष्मीः साक्षाच्छची ज्येष्ठा देवी चैव सरस्वती॥
अदितिश्च दितिश्चैव श्रद्धा लज्जा धृतिस्तथा॥ ४२.२३ ॥
नन्दा भद्रा च सुरभी सुशीला सुमनास्तथा॥
वृषेन्द्रश्च महातेजा धर्मो धर्मात्मजस्तथा॥ ४२.२४ ॥
आवृत्य मां तथालिङ्ग्य तुष्टुवुर्मुनिसत्तम॥
शिलादोपि मुनिर्दृष्ट्वा पिता मे तादृशं तदा॥ ४२.२५ ॥
प्रीत्या प्रणम्य पुण्यात्मा तुष्टावेष्टप्रदं सुतम्॥
शिलाद उवाच॥
भगवन्देवदेवेश त्रियम्बक ममाव्यय॥ ४२.२६ ॥
पुत्रोसि जगतां यस्मात्त्राता दुःखाद्धि किं पुनः॥
रक्षको जगतां यस्मात्पिता मे पुत्र सर्वग॥ ४२.२७ ॥
अयोनिज नमस्तुभ्यं जगद्योने पितामह॥
पिता पुत्र महेशान जगतां च जगद्गुरो॥ ४२.२८ ॥
वत्सवत्स महाभाग पाहि मां परमेश्वर॥
त्वयाऽहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर॥ ४२.२९ ॥
तस्मान्नन्दय मां नन्दिन्नमामि जगदीश्वरम्॥
प्रसीद पितरौ मेद्य रुद्रलोकं गतौ विभो॥ ४२.३೦ ॥
पितामहाश्च भो नन्दिन्नवतीर्णे महेश्वरे॥
ममैव सफलं लोके जन्म वै जगतां प्रभो॥ ४२.३१ ॥
अवतीर्णे सुते नन्दीन् रक्षार्थं मह्यमीश्वर॥
तुभ्यं नमः सुरेशान नन्दीश्वर नमोस्तु ते॥ ४२.३२ ॥
पुत्र पाहि महाबाहो देवदेव जगद्गुरो॥
पुत्रत्वमेव नन्दीश मत्वा यत्कीर्तितं मया॥ ४२.३३ ॥
त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः॥
यः पठेच्छृणुयाद्वापि मम पुत्र प्रभाषितम्॥ ४२.३४ ॥
श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते॥
एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः॥ ४२.३५ ॥
मुनीश्वरांश्च सम्प्रेक्ष्य शिलादोवाच सुव्रतः॥
पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः॥ ४२.३६ ॥
नन्दी यज्ञाङ्गणे देवश्चावतीर्णो यतः प्रभुः॥
मत्समः कः पुमाँल्लोके देवो वा दानवोपि वा॥ ४२.३७ ॥
एष नन्दी यतो जातो यज्ञभूमौ हिताय मे॥ ४२.३८ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेरश्वरोत्पत्तिर्नाम द्विचत्वारिंशोऽध्यायः॥ ४२ ॥