इन्द्र उवाच॥
पुनः ससर्ज भगवान्प्रभ्रष्टाः पूर्ववत्प्रजाः॥
सहस्रयुगपर्यन्ते प्रभाते तु पितामहः॥ ४१.१ ॥
एवं परार्धे विप्रेन्द्व द्विगुणे तु तथा गते॥
तदा धराम्भसि व्याप्ता ह्यापो वह्नौ समीरणे॥ ४१.२ ॥
वह्निः समीरणश्चैव व्योम्नि तन्मात्रसंयुतः॥
इन्द्रियाणि दशैकं च तन्मात्राणि द्विजोत्तम॥ ४१.३ ॥
अहङ्कारमनुप्राप्य प्रलीनास्तत्क्षणादहो॥
अभिमानस्तदा तत्र महान्तं व्याप्य वै क्षणात्॥ ४१.४ ॥
महानपि तथा व्यक्तं प्राप्य लीनोभवद्द्विज॥
अव्यक्तं स्वगुणैः सार्धं प्रलीनमभवद्भवे॥ ४१.५ ॥
ततः सृष्टिरभूत्तस्मात्पूर्ववत्पुरुषाच्छिवात्॥
अथ सृष्टास्तदा तस्य मनसा तेन मानसाः॥ ४१.६ ॥
न व्यवर्धन्त लोकेऽस्मिन्प्रजाः कमलयोनिना॥
वृद्ध्यर्थं भगवान्ब्रह्मा पुत्रैर्वै मानसैः सह॥ ४१.७ ॥
दुश्चरं विचचारेशं समुद्दिश्य तपः स्वयम्॥
तुष्टस्तु तपसा तस्य भवो ज्ञात्वा स वाञ्छितम्॥ ४१.८ ॥
ललाटमध्यं निर्भिद्य ब्रह्मणः पुरुषस्य तु॥
पुत्रस्नेहमिति प्रोच्य स्त्रीपुंरुपोभवत्तदा॥ ४१.९ ॥
तस्य पुत्रो महादेवो ह्यर्धनारीश्वरोभवत्॥
ददाह भगवान्सर्वं ब्रह्माणं च जगद्गुरुम्॥ ४१.१೦ ॥
अथार्धमात्रां कल्याणीमात्मनः परमेश्वरीम्॥
बुभुजे योगमार्गेण वृद्ध्यर्थं जगतां शिवः॥ ४१.११ ॥
तस्यां हरिं च ब्रह्माणं ससर्ज परमेश्वरः॥
विश्वेश्वरस्तु विश्वात्मा चास्त्रां पाशुपतं तथा॥ ४१.१२ ॥
तस्माद्ब्रह्मा महादेव्याश्चांशजश्च हरिस्तथा॥
अण्डजः पद्मजश्चैव भवाङ्गभव एव च॥ ४१.१३ ॥
एतत्ते कथितं सर्वमितिहासं पुरातनम्॥
परार्धं ब्रह्मणो यावत्तावद्भूतिः समासतः॥ ४१.१४ ॥
वैराग्यं ब्रह्मणो वक्ष्ये तमोद्भूतं समासतः॥
नारायणोपि भगवान्द्विधा कृत्वात्मनस्तनुम्॥ ४१.१५ ॥
ससर्ज सकलं तस्मात्स्वाङ्गादेव चराचरम्॥
ततो ब्रह्माणमसृजद्ब्रह्मा रुद्रं पितामहः॥ ४१.१६ ॥
मुने कल्पान्तरे रुद्रो हरिं ब्रह्माणमीश्वरम्॥
ततो ब्रह्माणमंसृजन्मुने कल्पान्तरे हरिः॥ ४१.१७ ॥
नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः॥
तदा विचार्य वै ब्रह्मा दुःखं संसार इत्यजः॥ ४१.१८ ॥
सर्गं विसृज्य चात्मानमात्मन्येव नियोज्य च॥
संहृत्य प्राणसञ्चारं पाषाण इव निश्चलः॥ ४१.१९ ॥
दशवर्षसहस्राणि समाधिस्थोऽभवत्प्रभुः॥
अधोमुखं तु यत्पद्मं हृदि संस्थं सुशोभनम्॥ ४१.२೦ ॥
पूरितं पूरकेणैव प्रबुद्धं चाभवत्तदा॥
तदूर्ध्ववक्त्रमभवत्कुम्भकेन निरोधितम्॥ ४१.२१ ॥
तत्पद्मकर्णिकामध्ये स्थापयामास चेश्वरम्॥
तदोमिति शिवं देवमर्धमात्रापरं परम्॥ ४१.२२ ॥
मृणालतन्तुभागैकशतभागे व्यवस्तितम्॥
यमी यमविशुद्धात्मा नियम्यैवं हृदीश्वरम्॥ ४१.२३ ॥
यमपुष्पादिभिः पूज्यं याज्यो ह्ययजदव्ययम्॥
तस्य हृत्कमल स्थस्य नियोगाच्चांशजो विभुः॥ ४१.२४ ॥
ललाटमस्य निर्भिद्य प्रादुरासीत्पितामहात्॥
लोहितोऽभूतस्वयं नीलः शिवस्य हृदयोद्भवः॥ ४१.२५ ॥
वह्नेश्चैव तु संयोगात्प्रकृत्य पुरुषः प्रभुः॥
नीलश्च लोहितश्चैव यतः कालाकृतिः पुमान्॥ ४१.२६ ॥
नीललोहित इत्युक्तस्तेन देवेन वै प्रभुः॥
ब्रह्मणा भगवान्कालः प्रीतात्मा चाभवद्विभुः॥ ४१.२७ ॥
सुप्रीतमनसं देवं तुष्टाव च पितामहः॥
नामाष्टकेन विश्वात्मा विश्वात्मानं महामुने॥ ४१.२८ ॥
पितामह उवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे॥
नमो भवाय देवाय रसायाम्बुमयाय ते॥ ४१.२९ ॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः॥
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः॥ ४१.३೦ ॥
पशूनां पतये चैव पावकायातितेजसे॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः॥ ४१.३१ ॥
महादेवाय सोमाय अमृताय नमोस्तु ते॥
उग्राय यजमानाय नमस्ते कर्मयोगिने॥ ४१.३२ ॥
यः पठेच्छृणुयाद्वापि पैता महमिमं स्तवम्॥
रुद्राय कथितं विप्राञ्श्रावयेद्वा समाहितः॥ ४१.३३ ॥
अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात्॥
एवं स्तुत्वामहादेवमवैक्षत पितामहः॥ ४१.३४ ॥
तदाष्टधा महादेवः समातिष्ठत्समन्ततः॥
तदा प्रकाशते भानुः कृष्णवर्त्मा निशाकरः॥ ४१.३५ ॥
क्षितिर्वायुः पुमानम्भः सुषिरं सर्वगं तथा॥
तदाप्रभृति तं प्राहृरष्टमूर्तिरितीश्वरम्॥ ४१.३६ ॥
अष्टमूर्तेः प्रसादेन विरञ्चिश्चासृजत्पुनः॥
सृष्ट्वैतदखिलं ब्रह्मा पुनः कल्पान्तरे प्रभुः॥ ४१.३७ ॥
सहस्रयुगपर्यन्तं संसुप्ते च चराचरे॥
प्रजाः स्रष्टुमनास्तेपे तत उग्रं तपो महत्॥ ४१.३८ ॥
तस्यैवं तप्यमानस्य न किञ्चित्समवर्तत॥
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत॥ ४१.३९ ॥
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः॥
ततस्तेभ्योश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन्॥ ४१.४೦ ॥
सर्वांस्तानग्रजान्दृष्ट्वा भूतप्रेतनिशाचरान्॥
अनिन्दत तदा देवो ब्रह्मात्मानमजो विभुः॥ ४१.४१ ॥
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः॥
ततः प्राणमयो रुद्रः प्रादुरासीत्प्रभोर्मुखात्॥ ४१.४२ ॥
अर्धनारीश्वरो भूत्वा बालार्कसदृशद्युतिः॥
तदैकादशधात्मानं प्रविभज्य व्यवस्तितः॥ ४१.४३ ॥
अर्धेनांशेन सर्वात्मा ससर्जासौ शिवामुमाम्॥
सा चासृजत्तदा लक्ष्मीं दुर्गां श्रेष्ठां सरस्वतीम्॥ ४१.४४ ॥
वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम्॥
कलां विकरिणीं चैव कालीं कमल वासिनीम्॥ ४१.४५ ॥
बलविकरिणीं देवीं बलप्रमथिनीं तथा॥
सर्वभूतस्य दमनीं ससृजे च मनोन्मनीम्॥ ४१.४६ ॥
तथान्या बहवः सृष्टा स्तया नार्यः सहस्रशः॥
रुद्रैश्चैव महादेवस्ताभिस्त्रिभुवनेश्वरः॥ ४१.४७ ॥
सर्वात्मनश्च तस्याग्रे ह्यतिष्ठत्परमेश्वरः॥
मृतस्य तस्य देवस्य ब्रह्मणः परमेष्ठिनः॥ ४१.४८ ॥
घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः॥
ब्रह्मणः प्रददौ प्राणानात्मस्थांस्तु तदा प्रभुः॥ ४१.४९ ॥
प्रहृष्टो भूत्ततो रुद्रः किञ्चित्प्रत्यागतासवम्॥
अभ्यभाषत देवेशो ब्रह्माणं परमं वचः॥ ४१.५೦ ॥
मा भैर्देव महाभाग विरिञ्च जगतां गुरो॥
मयेह स्थापिताः प्राणास्तस्मादुत्तिष्ठ वै प्रभा॥ ४१.५१ ॥
श्रुत्वा वचस्ततस्तस्य स्वप्नभूतं मनोगतम्॥
पितामहः प्रसन्नात्मा नेत्रैः फुल्लाम्बुज प्रभैः॥ ४१.५२ ॥
ततः प्रत्यागतप्राणः समुदैक्षन्महेश्वरम्॥
स उद्वीक्ष्य चिरं कालं स्निग्धगम्भीरया गिरा॥ ४१.५३ ॥
उवाच भगवान् ब्रह्मा समुत्थाय कृताञ्जलिः॥
भो भो वद महाभाग आनन्दयसि मे मनः॥ ४१.५४ ॥
को भवानष्टमूर्तिर्वै स्थित एकादशात्मकः॥
इन्द्र उवाच॥
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः॥ ४१.५५ ॥
स्पृशन्कराभ्यां ब्रह्माणं सुखाभ्यां स सुरारिहा॥
श्रीशङ्कर उवाच॥
मां विद्धि परमात्मानमेनां मायामजामिति॥ ४१.५६ ॥
एते वै संस्थिता रुद्रास्त्वां रक्षितुमिहागताः॥
ततः प्रणम्य तं ब्रह्मा देवदेवमुवाच ह॥ ४१.५७ ॥
कृताञ्जलिपुटो भूत्वा हर्षगद्गदया गिरा॥
भगवन्देवदेवेश दुःखैराकुलितो ह्यहम्॥ ४१.५८ ॥
संसारान्मोक्तुमीशान मामिहार्हसि शङ्कर॥
ततः प्रहस्य भगवान्पितामहमुमापतिः॥ ४१.५९ ॥
तदा रुद्रैर्जगन्नाथस्तया चान्तर्दधे विभुः॥
इन्द्र उवाच॥
तस्माच्छिलाद लोकेषु दुर्लभो वै त्वयोनिजः॥ ४१.६೦ ॥
मृत्युहीनः पुमान्विद्धि समृत्युः पद्मजोपि सः॥
किन्तु देवेश्वरो रुद्रः प्रसीदति यदीश्वरः॥ ४१.६१ ॥
न दुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः॥
मया च विष्णुना चैव ब्रह्मणा च महात्मना॥ ४१.६२ ॥
अयोनिजं मृत्युहीनमसमर्थं निवेदितुम्॥
शैलादिरुवाच॥
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी॥ ४१.६३ ॥
देवैर्वृतो ययौ देवः सितेनेभेन वै प्रभुः॥ ४१.६४ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे इन्द्रवाक्यं नामकचत्वारिंशोऽध्यायः॥ ४१ ॥