०४०

शक्र उवाच॥
तिष्ये मायामसूयां च वधं चैव तपस्विनाम्॥
साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः॥ ४೦.१ ॥

कलौ प्रमादको रोगः सततं क्षुद्भयानि च॥
अनावृष्टिभयं घोरं देशानां च विपर्ययः॥ ४೦.२ ॥

न प्रामाण्यं श्रुतेरस्ति नृणां चाधर्मसेवनम्॥
अधार्मिकास्त्वनाचारा महाकोपाल्पचेतसः॥ ४೦.३ ॥

अनृतं ब्रुवते लुब्धास्तिष्ये जाताश्च दुष्प्रजाः॥
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः॥ ४೦.४ ॥

विप्राणां कर्म दोषेण प्रजानां जायते भयम्॥
नाधीयन्ते तदा वेदान्न यजन्ति द्विजातयः॥ ४೦.५ ॥

उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात्॥
शूद्राणां मन्त्रयोगेन सम्बन्धो ब्राह्मणैः सह॥ ४೦.६ ॥

भवतीह कलौ तस्मिञ्शयनासनभोजनैः॥
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते॥ ४೦.७ ॥

भ्रूणहत्या वीरहत्या प्रजायन्ते प्रजासु वै॥
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः॥ ४೦.८ ॥

राजवृत्तिस्थिताश्चौराश्चौराचाराश्च पार्थिवाः॥
एकपत्न्यो न शिष्यन्ति वर्धिष्यन्त्यभिसारिकाः॥ ४೦.९ ॥

वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः॥
तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला॥ ४೦.१೦ ॥

अरक्षितारो हर्तारः पार्थिवाश्च शिलशन॥
शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवन्दिताः॥ ४೦.११ ॥

अक्षत्रियाश्च राजानो विप्राः शुद्रोपजीविनः॥
आसनस्था द्विजान्दृष्ट्वा न चलन्त्यल्पबुद्धयः॥ ४೦.१२ ॥

ताडयन्ति द्विजेन्द्रांस्च शूद्रा वै स्वल्पबुद्धयः॥
आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः॥ ४೦.१३ ॥

नीचस्येव तदा वाक्यं वदन्ति विनयेन तम्॥
उच्चासनस्थान् शूद्रांश्च द्विजमध्ये द्विजर्षभ॥ ४೦.१४ ॥

ज्ञात्वा न हिंसते राजा कलौ कालवशेन तु॥
पुष्पैश्च वासितैश्चैव तथान्यैर्मगलैः शुभैः॥ ४೦.१५ ॥

शूद्रानभ्यर्चयन्त्यल्प श्रुतभाग्यबलान्विताः॥
न प्रेक्षन्ते गर्विताश्च शूद्रा द्विजवरान् द्विज॥ ४೦.१६ ॥

सेवावसरमालेक्य द्वारे तिष्ठन्ति वै द्विजाः॥
वाहनस्थान् समावृत्य शुद्राञ्शूद्रोपजीविनः॥ ४೦.१७ ॥

सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ॥
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः॥ ४೦.१८ ॥

यतयश्च भविष्यन्ति बहवोस्मिन्कलौ युगे॥
पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते॥ ४೦.१९ ॥

निन्दन्ति वेदविद्यां च द्विजाः कर्माणि वै कलौ॥
कलौ देवो महादेवः शङ्करो नीललोहितः॥ ४೦.२೦ ॥

प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः॥
ये तं विप्रा निषेवन्ते येन केनापि शङ्करम्॥ ४೦.२१ ॥

कलिदोषान् विनिर्जित्य प्रयान्ति परमं पदम्॥
श्वापदप्रबलत्वं च गवां चैव परिक्षयः॥ ४೦.२२ ॥

साधूनां विनिवृत्तिश्च वेद्या तस्मिन्युगक्षये॥
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान्॥ ४೦.२३ ॥

चातुराश्रमशौथिल्ये धर्मः प्रतिचलिष्यति॥
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः॥ ४೦.२४ ॥

युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः॥ ४೦.२५ ॥

प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे॥
चित्रवर्षी तदा देवो यदा प्राहुर्युगक्षयम्॥ ४೦.२६ ॥

सर्वे वणिग्जनाश्चापि भविष्यन्त्यधमे युगे॥
कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः॥ ४೦.२७ ॥

बहुयाजनको लोको भविष्यति परस्परम्॥
नाव्याहृतक्रूरवाक्यो नार्जवी नानसूयकः॥ ४೦.२८ ॥

न कृते प्रतिकर्ता च युगक्षीणे भविष्यति॥
निन्दकाश्चैव पतिता युगान्तस्य च लक्षमण्॥ ४೦.२९ ॥

नृपशून्या वसुमती न च धान्यधनावृता॥
मण्डलानि भविष्यन्ति देशेषु नगरेषु च॥ ४೦.३೦ ॥

अल्पोदका चाल्पफला भविष्यति वसुन्धरा॥
गोप्तारश्चाप्यगोप्तारः सम्भविष्यन्त्यशासनाः॥ ४೦.३१ ॥

हर्तारः परवित्तानां परदारप्रधर्षकाः॥
कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः॥ ४೦.३२ ॥

प्रनष्टचेष्टनाः पुंसो मुक्तकेशाश्च शूलिनः॥
जनाः षोडशवर्षाश्च प्रजायन्ते युगक्षये॥ ४೦.३३ ॥

शुक्लदन्ताजिनाक्षाश्च मुण्डाः काषायवाससः॥
शूद्रा धर्मं चरिष्यान्ति युगान्ते समुपस्तिते॥ ४೦.३४ ॥

सस्यचौरा भविष्यन्ति दृढचैलाभि लाषिणः॥
चौराश्चोरस्वहर्तारो हर्तुर्हर्ता तथापरः॥ ४೦.३५ ॥

योग्यकर्मण्युपरते लोके निष्क्रियतां गते॥
कटिमूषकसर्पाश्च धर्षयिष्यन्ति मानवान्॥ ४೦.३६ ॥

सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं तदा॥
कौशिकीं प्रतिपत्स्यन्ते देशान्क्षुद्भयपीडिताः॥ ४೦.३७ ॥

दुःखेनाभिप्लुतानां च परमायुः शतं तदा॥
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः॥ ४೦.३८ ॥

उत्सीदन्ति तदा यज्ञा केवलाधर्मपीडिताः॥
काषायिणोप्य निर्ग्रन्थाः कापालीबहुलास्त्विह॥ ४೦.३९ ॥

वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे॥
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः॥ ४೦.४೦ ॥

उत्पद्यन्ते तदा ते वै सम्प्राप्ते तु कलौ युगे॥
अधीयन्ते तदा वेदाञ्शूद्रा धर्मार्थकोविदाः॥ ४೦.४१ ॥

यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः॥
स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम्॥ ४೦.४२ ॥

उपद्रवांस्तथान्योन्यं साधयन्ति तदा प्रजाः॥
दुःखप्रभूतमल्पायुर्देहोत्सादः सरोगता॥ ४೦.४३ ॥

अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम्॥
प्रजासु ब्रह्महत्यादि तदा वै सम्प्रवर्तते॥ ४೦.४४ ॥

तस्मादायुर्बलं रूपं किलं प्राप्य प्रहीयते॥
तदा त्वल्पेन कालेन सिद्धिं गच्छन्ति मानवाः॥ ४೦.४५ ॥

धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः॥
श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः॥ ४೦.४६ ॥

त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः॥
यथाक्लेशं चरन्प्राज्ञस्तदह्ना प्राप्नुते कलौ ४೦.४७ ॥

एषा कलियुगावस्था सन्ध्यांशं तु निबोध मे॥
युगेयुगे च हीयन्ते त्रींस्त्रीन्पादांस्तु सिद्धयः॥ ४೦.४८ ॥

युगस्वभावाः सन्ध्यास्तु तिष्ठन्तीह तु पादशः॥
सन्ध्यास्वभावाः स्वांशेषु पादशस्ते प्रतिष्ठिताः॥ ४೦.४९ ॥

एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके॥
तेषां शास्ता ह्यसाधूनां भूतानां निदनोत्थितः॥ ४೦.५೦ ॥

गोत्रेऽस्मिन्वै चन्द्रमसो नाम्ना प्रमितिरुच्यते॥
मानवस्य तु सेंशेन पूर्वं स्वायम्भुवेन्तरे॥ ४೦.५१ ॥

समाः स विंशतिः पूर्णाः पर्यटन्वै वसुन्धराम्॥
अनुकर्षन् स वै सेनां सवाजिरथकुञ्जराम्॥ ४೦.५२ ॥

प्रगृहीतायुधैर्विप्रैः शतशोथ सहस्रशः॥
स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः॥ ४೦.५३ ॥

स हत्वा सर्वशश्चैव राज्ञस्ताञ्शूद्रयोनिजान्॥
पाखण्डांस्तु ततः सर्वान्निःशेषं कृतवान् प्रभुः॥ ४೦.५४ ॥

नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वतः॥
वर्णव्यत्यासजाताश्च ये च ताननुजीविनः॥ ४೦.५५ ॥

प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृत्स तु॥
अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम्॥ ४೦.५६ ॥

मानवस्य तु सोंशेन देवस्येह विजज्ञिवान्॥
पूर्वजन्मनि विष्णोस्तु प्रमितिर्नाम वीर्यवान्॥ ४೦.५७ ॥

गोत्रतो वै चन्द्रमसः पूर्णे कलियुगे प्रभुः॥
द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्तो विंशतिः समाः॥ ४೦.५८ ॥

विनिघ्नन्सर्वभूतानि शतशोथसहस्रशः॥
कृत्वा बीजावशेषां तु पृथिवीं क्रूरकर्मणः॥ ४೦.५९ ॥

परस्परनिमित्तेन कोपेनाकस्मिकेन तु॥
स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान्॥ ४೦.६೦ ॥

गङ्गायमुनयोर्मध्ये स्थितिं प्राप्तः सहानुगः॥
ततो व्यतीते काले तु सामात्यः सहसैनिकः॥ ४೦.६१ ॥

उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः॥
तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके॥ ४೦.६२ ॥

स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित्॥
अप्रग्रहास्ततस्ता वै लोभाविष्टास्तु कृत्स्नशः॥ ४೦.६३ ॥

उपहिंसन्ति चान्योन्यं प्रणिपत्य परस्परम्॥
अराजके युगवशात्संशये समुपस्थिते॥ ४೦.६४ ॥

प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः॥
व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान् गृहाणि च॥ ४೦.६५ ॥

स्वान्प्राणाननपेक्षन्तो निष्कारुण्याः सुदुः खिताः॥
नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा॥ ४೦.६६ ॥

निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः॥
नष्टे धर्मे प्रतिहताः ह्रस्वकाः पञ्चविंशकाः॥ ४೦.६७ ॥

हित्वा पुत्रांश्च दारांश्च विवादव्याकुलेन्द्रियाः॥
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः॥ ४೦.६८ ॥

प्रत्यन्तानुपसेवन्ते हित्वा जनपदान् स्वकान्॥
सरित्सागरकूपांस्ते सेवन्ते पर्वतांस्तथा॥ ४೦.६९ ॥

मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः॥
चरिपत्राजिनधरा निष्क्रिया निष्परिग्रहाः॥ ४೦.७೦ ॥

वर्णाश्रमपरिभ्रष्टाः सङ्कटं घोरमास्तिताः॥
एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा॥ ४೦.७१ ॥

जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः॥
विचारणा तु निर्वेदात्साम्यावस्था विचारणा॥ ४೦.७२ ॥

साम्यावस्थात्मको बोधः सम्बोधाद्धर्मशीलता॥
अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम्॥ ४೦.७३ ॥

अहोरात्रात्तदा तासां युगं तु परिवर्तते॥
चित्तसम्मोहनं कृत्वा तासां वै सुप्तमत्तवत्॥ ४೦.७४ ॥

भाविनोर्थस्य च बलात्ततः कृतमवर्तत॥
प्रवृत्ते तु ततस्तस्मिन्पुनः कृतयुगे तु वै॥ ४೦.७५ ॥

उत्पन्नाः कलिशिष्टास्तु प्रजाः कार्तयुगास्तदा॥
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च॥ ४೦.७६ ॥

सप्त सप्तर्षिभिश्चैव तत्र ते तु व्यवस्तिताः॥
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह॥ ४೦.७७ ॥

कलिजैः सह ते सर्वे निर्विशेषास्तदाऽभवन्॥
तेषां सप्तर्षयो धर्मं कथयन्तीतरेपि च॥ ४೦.७८ ॥

वर्णाश्रमाचारयुतं श्रैतं स्मार्तं द्विधा तु यम्॥
ततस्तेषु क्रियावत्सु वर्दन्ते वै प्रजाः कृते॥ ४೦.७९ ॥

श्रौतस्मार्तकृतानां च धर्मे सप्तर्षिदर्शिते॥
केचिद्धर्मव्यवस्तार्थ तिष्ठन्तीह युगक्षये॥ ४೦.८೦ ॥

मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै॥
यथा दावप्रदग्धेषु तृणोष्विह ततः क्षितौ॥ ४೦.८१ ॥

वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः॥
तथा कार्तयुगानां तु कलिजेष्विह सम्भवः॥ ४೦.८२ ॥

एवं युगाद्युगस्येह सन्तानं तु परस्परम्॥
वर्तते हव्यवच्छेदाद्यावन्मन्वन्तरक्षयः॥ ४೦.८३ ॥

सुखमायुर्बलं रूपं धर्मोऽर्थः काम एव च॥
युगेष्वेतानि हीयन्ते त्रींस्त्रीन्पादान्क्रमेण तु॥ ४೦.८४ ॥

ससन्ध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः॥
इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेणु तु॥ ४೦.८५ ॥

चतुर्युगानां सर्वेषामनेनैव तु साधनम्॥
एषा चतुर्युगावृत्तिरासहस्राद्गुणीकृता॥ ४೦.८६ ॥

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता॥
अनार्जवं जडीभावो भूतानामयुगक्षयात्॥ ४೦.८७ ॥

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्॥
एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः॥ ४೦.८८ ॥

क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते॥
चतुर्युगे यथैकास्मिन्भवतीह यदा तु यत्॥ ४೦.८९ ॥

तथा चान्येषु भवति पुनस्तद्वै यताक्रमम्॥
सर्गेसर्गे यथा भेदा उत्पद्यन्ते तथैव तु॥ ४೦.९೦ ॥

पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा॥
तथा कल्पा युगैः सार्धं भवन्ति सह सक्षणैः॥ ४೦.९१ ॥

मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम्॥ ४೦.९२ ॥

यता युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात्॥
तथा तु सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः॥ ४೦.९३ ॥

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः॥
अतीतानागतानां हि सर्वमन्वन्तरेषु वै॥ ४೦.९४ ॥

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च॥
व्याख्यातानि न सन्देहः कल्पः कल्पेन चैव हि॥ ४೦.९५ ॥

अनागतेषु तद्वच्च तकः कार्यो विजानता॥
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह॥ ४೦.९६ ॥

तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत॥
देवा ह्यष्टविधा ये च ये च मन्वन्तरेश्वराः॥ ४೦.९७ ॥

ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः॥
एवं वर्णाश्रमाणां तु प्रविभागो युगेयुगे॥ ४೦.९८ ॥

युगस्वभावश्च तथा विधत्ते वै तदा प्रभुः॥
वर्णाश्रमविभागाश्च युगानि युगसिद्धयः॥ ४೦.९९ ॥

युगानां परिमाणं ते कथितं हि प्रसङ्गतः॥
वदामि देविपुत्रत्वं पद्मयोनेः समासतः॥ ४೦.१೦೦ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्युगपरिमाणं नाम चत्वारिंशोऽध्यायः॥ ४೦ ॥