०३९

शैलादिरुवाच॥
गते महेश्वरे देवे तमुद्दिश्य जनार्दनः॥
प्रणम्य भगवान्प्राह पद्मयोनिमजोद्भवः॥ ३८.१ ॥

श्रीविष्णुरुवाच॥
परमेशो जगन्नाथः शङ्करस्त्वेष सर्वगः॥
आवयोरखिलस्येशः शरणं च महेश्वरः॥ ३८.२ ॥

अहं वामाङ्गजो ब्रह्मन् शङ्करस्य महात्मनः॥
भवान् भवस्य देवस्य दक्षिणाङ्गभवः स्वयम्॥ ३८.३ ॥

मामाहुर्ऋषयः प्रेक्ष्य प्रधानं प्रकृतिं तथा॥
अव्यक्तमजमित्येवं भवन्तं पुरुषस्त्विति॥ ३८.४ ॥

एवमाहुर्महादेवमावयोरपि कारणम्॥
इशं सर्वस्य जगतः प्रभुमव्ययमीश्वरम्॥ ३८.५ ॥

सोपि तस्यामरेशस्य वचनाद्वारिजोद्भवः॥
वरेण्यं वरदं रुद्रमस्तुवत्प्रणनाम च॥ ३८.६ ॥

अथाम्भसा प्लुतां भूमीं समाधाय जनार्दनः॥
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः॥ ३८.७ ॥

नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः॥
कृत्वा चोर्वी प्रयत्नेन निम्नोन्नतविवर्जिताम्॥ ३८.८ ॥

धरायां सोचिनोत्सर्वान् भूधरान् भूधराकृतिः॥
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत्॥ ३८.९ ॥

स्रष्टुं च भगवाँश्चक्रे मतिं मतिमतां वरः॥
मुख्यं च तैर्यग्योन्यं चं दैविकं मानुषं तथा॥ ३८.१೦ ॥

विभुश्चानुग्रहं तत्र कौमारकमदीनधीः॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा॥ ३८.११ ॥

सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम्॥
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम्॥ ३८.१२ ॥

दक्षमत्रिं वसिष्ठं च सोसृजद्योगविद्यया॥
सङ्कल्पं चैव धर्मं च ह्यधर्मं भगवान्प्रभुः॥ ३८.१३ ॥

द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः॥ ३८.१४ ॥

तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजो ब्रह्मवादिनौ॥
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ॥ ३८.१५ ॥

एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन॥
युगधर्मानशेषांश्च कल्पयामास विश्वसृक्॥ ३८.१६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे वैष्णवकथनं नामाष्टत्रिंशोऽध्यायः॥ ३८ ॥