सनत्कुमार उवाच॥
भवान्कथमनुप्राप्तो महादेवमुमापतिम्॥
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो॥ ३७.१ ॥
शैलादिरुवाच॥
प्रजाकामः शिलादोभूत्पिता मम महामुने॥
सोप्यन्धः सुचिरं कालं तपस्तेपे सुदुश्चरम्॥ ३७.२ ॥
तपतस्तस्य तपसा सन्तुष्टो वज्रधृक् प्रभुः॥
शिलादमाह तुष्टोस्मि वरयस्व वरानिति॥ ३७.३ ॥
ततः प्रणम्य देवेशं सहस्राक्षं सहामरैः॥
प्रोवाच मुनिशार्दूल कृताञ्जलिपुटो हरिम्॥ ३७.४ ॥
शिलाद उवाच॥
भगवन्देवतारिघ्न सहस्राक्ष वरप्रद॥
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सुव्रत॥ ३७.५ ॥
शक्र उवाच॥
पुत्रं दास्यामि विप्रर्षे योनिजं मृत्युसंयुतम्॥
अन्यता ते न दास्यामि मृत्युहीना न सन्ति वै॥ ३७.६ ॥
न दास्यति सुतं तेऽत्र मृत्युहीनमयोनिजम्॥
पितामहोपि भगवान्किमुतान्ये महामुने॥ ३७.७ ॥
सोपि देवः स्वयं ब्रह्मा मृत्युहीनो न चेश्वरः॥
योनिजश्च महा तेजाश्चाण्डजः पद्मसम्भवः॥ ३७.८ ॥
महेश्वराङ्गजश्चैव भवान्यास्तनयः प्रभुः॥
तस्याप्यायुः समाख्यातं परार्धद्वयसम्मितम्॥ ३७.९ ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै॥
समतीतानि कल्पानां तावच्छेषा परत्र ये॥ ३७.१೦ ॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः॥
परित्यजाशां विप्रेन्द्र गृहाणात्मसमं सुतम्॥ ३७.११ ॥
शैलादिरुवाच॥
तस्य तद्वचनं श्रुत्वा पिता मे लोकविश्रुतः॥
शिलाद इति पुण्यात्मा पुनः प्राह शचीपतिम्॥ ३७.१२ ॥
शिलाद उवाच॥
भगवन्नण्डयोनित्वं पद्मयोनित्वमेव च॥
महेश्वराङ्गयोनित्वं श्रुतं वै ब्रह्मणो मया॥ ३७.१३ ॥
पुरा महेन्द्रदायादाद्गदतश्चास्य पूर्वजात्॥
नारदाद्वै महाबाहो कथमत्राशु नो वद॥ ३७.१४॥
दाक्षायणी सा दक्षोपि देवः पद्मोद्भवात्मजः॥
पौजी कनकगर्भस्य कथं तस्याः सुतो विभुः॥ ३७.१५ ॥
शक्र उवाच॥
स्थाने संशयितुं विप्र तव वक्ष्यामि कारणम्॥
कल्पे तत्पुरुषे वृत्तं ब्रह्मणः परमेष्ठिनः॥ ३७.१६ ॥
ससर्ज सकलं ध्यात्वा ब्रह्माणं परमेश्वरः॥
जनार्दनो जगन्नाथः कल्पे वै मेघवाहने॥ ३७.१७ ॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धरम्॥
नारायणो महादेवं बहुमानेन सादरम्॥ ३७.१८ ॥
दृष्ट्वा भावं महादेवो हरेः स्वात्मनि शङ्करः॥
प्रददौ तस्य सकलं स्रष्टुं वै ब्रह्मणा सह॥ ३७.१९ ॥
तदा तं कल्पमाहुर्वै मेघवाहनसञ्ज्ञया॥
हिरण्यगर्भस्तं दृष्ट्वा तस्य देहोद्भवस्तदा॥ ३७.२೦ ॥
जनार्दनसुतः प्राह तपसा प्राप्य शङ्करम्॥
तव वामाङ्गजो विष्णुर्दक्षिणाङ्गभवो ह्यहम्॥ ३७.२१ ॥
मया सह जगत्सर्वं तथाप्यसृजदच्युतः॥
जगन्मयोवहद्यस्मान्मेघो भूत्वा दिवानिशम्॥ ३७.२२ ॥
भवन्तमवहद्विष्णुर्देवदेवं जगद्गुरुम्॥
नारायणादपि विभो भक्तोहं तव शङ्कर॥ ३७.२३ ॥
प्रसीद देहि मे सर्वं सर्वात्मत्वं तव प्रभो॥
तदाथ लब्ध्वा भगवान् भवात्सर्वात्मतां क्षणात्॥ ३७.२४ ॥
त्वरमाणोथ सङ्गम्य ददर्श पुरुषोत्तमम्॥
एकार्णवालये शुभ्रे त्वन्धकारे सुदारुणे॥ ३७.२५ ॥
हेमरत्नचिते दिव्ये मनसा च विनिर्मिते॥
दुष्प्राप्ये दुर्जनैः पुण्यैः सनकाद्यैरगोचरे॥ ३७.२६ ॥
जगदावासहृदयं ददर्श पुरुषं त्वजः॥
अनन्त भोगशय्यायां शायिनं पङ्कजेक्षणम्॥ ३७.२७ ॥
शङ्खचक्रगदापद्मं धारयन्तं चतुर्भुजम्॥
सर्वाभरणसंयुक्तं शशिमण्डलसन्निभम्॥ ३७.२८ ॥
श्रीवत्स लक्षणं देवं प्रसन्नास्यं जनार्दनम्॥
रमामृदुकराम्भोजस्पर्शरक्तपदाम्बुजम्॥ ३७.२९ ॥
परमात्मानमीशानं तमसा कालरूपिणम्॥
रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम्॥ ३७.३೦ ॥
सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम्॥
सर्वात्मानं महात्मानं परमात्मानमीश्वरम्॥ ३७.३१ ॥
क्षीरार्णवेऽमृतमये शायिनं योगनिद्रया॥
तं दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनम्॥ ३७.३२ ॥
ग्रसामि त्वां प्रसादेन यथापूर्वं भवानहम्॥
स्मयमानस्तु भगवान् प्रतिबुध्य पितामहम्॥ ३७.३३ ॥
उदैक्षत महाबाहुः स्मितमीषच्चकार सः॥
विवेश चाण्डजं तं तु ग्रस्तस्तेन महात्मना॥ ३७.३४ ॥
ततस्तं चासृजद्ब्रह्म भ्रुवोर्मध्येन चाच्युतम्॥
सृष्टस्तेन हरिः प्रेक्ष्य स्थितस्तस्याथ सन्निधौ॥ ३७.३५ ॥
एतस्मिन्नन्तरे रुद्रः सर्वदेवभवोद्भवः॥
विकृतं रूपमास्थाय पुरा दत्तवरस्तयोः॥ ३७.३६ ॥
आगच्छद्यत्र वै विष्णुर्विश्वात्मा परमेश्वरः॥
प्रसादमतुलं कर्तुं ब्रह्मणश्च हरेः प्रभुः॥ ३७.३७ ॥
ततः समेत्य तौ देवौ सर्वदेवभवोद्भवम्॥
अपश्यतां भवं देवं कालाग्निसदृशं प्रभुम्॥ ३७.३८ ॥
तौ तं तुष्टुवतुश्चैव शर्वमुग्रं कपर्दिनम्॥
प्रणेमतुश्च वरदं बहुमानेन दूरतः॥ ३७.३९ ॥
भवोपि भगवान् देवमनुगृह्य पितामहम्॥
जनार्दनं जगन्नाथस्तत्रैवान्तरधीयत॥ ३७.४೦ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मणो वरप्रदानं नाम सप्तत्रिंशोऽध्यायः॥ ३७ ॥