०३६

नन्द्युवाच॥
पूजया तस्य सन्तुष्टो भगवान्पुरुषोत्तमः॥
श्रीभूमिसहितः श्रीमाञ्शङ्खचक्रगदाधरः॥ ३६.१ ॥

किरीटी पद्महस्तश्च सर्वाभरण भूषितः॥
पीताम्बरश्च भगवान्देवैर्दैत्यैश्च संवृतः॥ ३६.२ ॥

प्रददौ दर्शने तस्मै दिव्यं वै गरुडध्वजः॥
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम्॥ ३६.३ ॥

तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम्॥
त्वमादिस्त्वमनादिश्च प्रकृतिस्त्वं जनार्दनः॥ ३६.४ ॥

पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान्॥
योयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः॥ ३६.५ ॥

तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन॥
परमात्मा परन्धाम श्रीपते भूपते प्रभो॥ ३६.६ ॥

त्वत्क्रोधसम्भवो रुद्रस्तमसा च समावृतः॥
त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः॥ ३६.७ ॥

त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः॥
कालमूर्ते हरे विष्णो नारायण जगन्मय॥ ३६.८ ॥

महांस्तथा च भूतादिस्तन्मात्राणीन्द्रियाणि च॥
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर॥ ३६.९ ॥

महादेव जगन्नाथ पितामह जगद्गुरो॥
प्रसीद देवदेवेश प्रसीदपरमेश्वर॥ ३६.१೦ ॥

प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः॥
वैकुण्ठ शौरे सर्वज्ञ वासुदेव महाभुज॥ ३६.११ ॥

सङ्कर्षण महाभाग प्रद्युम्न पुरुषोत्तम॥
अनिरुद्ध महाविष्णो सदा विष्णो नमोस्तु ते॥ ३६.१२ ॥

विष्णो तवासनं दिव्यमव्यक्तं मध्यतो विभुः॥
सहस्रफणसंयुक्तस्तमोमूर्तिर्धराधरः॥ ३६.१३ ॥

अधश्च धर्मो देवेश ज्ञानं वैराग्यमेव च॥
ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत॥ ३६.१४ ॥

सप्तपातालपादस्त्वं धराजघनमेव च॥
वासांसि सागराः सप्त दिशश्चैव महाभुजाः॥ ३६.१५ ॥

द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः॥
नेत्रे सोमश्च सूर्यश्च केशा वै पुष्करादयः॥ ३६.१६ ॥

नक्षत्रतारका द्यौश्च ग्रैवेयकविभूषणम्॥
कथं स्तोष्यामि देवेशं पूज्यश्च पुरुषोत्तमः॥ ३६.१७ ॥

श्रद्धया च कृतं दिव्यं यच्छ्रयं यच्च कीर्तितम्॥
यदिष्टं तत्क्षमस्वेश नारायण नमोस्तु ते॥ ३६.१८ ॥

शैलादिरुवाच॥
इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम्॥
यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम्॥ ३६.१९ ॥

श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति॥ ३६.२೦ ॥

सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम्॥
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना॥ ३६.२१ ॥

राजोवाच॥
भगवन्ब्राह्मणः कश्चिद्दधीच इति विश्रुतः॥
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत्॥ ३६.२२ ॥

अवध्यः सर्वदा सर्वैः शङ्करार्चनतत्परः॥
सावज्ञं वामपादेन स मां मूर्ध्नि सदस्यथ॥ ३६.२३ ॥

ताडयामास देवेश विष्णो विश्वजगत्पते॥
उवाच च मदाविष्टो न बिभेमीति सर्वतः॥ ३६.२४ ॥

जेतुमिच्छामि तं विप्रं दधीचं जगदीश्वर॥
यथा हितं तथा कर्तुं त्वमर्हसि जनार्दन॥ ३६.२५ ॥

शैलादिरुवाच॥
ज्ञात्वा सोपि दधीचस्य ह्यवध्यत्वं महात्मनः॥
सस्मार च महेशस्य प्रभावमतुलं हरिः॥ ३६.२६ ॥

एवं स्मृत्वा हरिः प्राह ब्रह्मणः क्षुतसम्भवम्॥
विप्राणां नास्ति राजेन्द्र भयमेत्य महेश्वरम्॥ ३६.२७ ॥

विशेषाद्रुद्रभक्तानामभयं सर्वदा नृप॥
नीचानामपि सर्वत्र दधीचस्यास्य किं पुनः॥ ३६.२८ ॥

तस्मात्तव महाभाग विजयो नास्ति भूपते॥
दुःखं करोमि विप्रस्य शापार्थं ससुरस्य मे॥ ३६.२९ ॥

भविता तस्य शापेन दक्षयज्ञे सुरैः समम्॥
विनाशो मम राजेन्द्र पुनरुत्थानमेव च॥ ३६.३೦ ॥

तस्मात्समेत्य विप्रेन्द्रं सर्वयत्नेन भूपते॥
करोमि यत्नं राजेन्द्र दधीचविजयाय ते॥ ३६.३१ ॥

शैलादिरुवाच॥
श्रुत्वा वाक्यं क्षुपः प्राह तथास्त्विति जनार्दनम्॥
भगवानपि विप्रस्य दधीचस्याश्रमं ययौ॥ ३६.३२ ॥

आस्थाय रूपं विप्रस्य भगवान् भक्तवत्सलः॥
दधीचमाह ब्रह्मर्षिमभिवन्द्य जगद्गुरुः॥ ३६.३३ ॥

श्रीभगवानुवाच॥
भोभो दधीच ब्रह्मर्षे भवार्चनरताव्यय॥
वरमेकं वृणे त्वत्तस्तं भवान्दातुमर्हति॥ ३६.३४ ॥

याचितो देवदेवेन दधीचः प्राह विष्णुना॥
ज्ञातं तवेप्सितं सर्वं न बिभेमि तवाप्यहम्॥ ३६.३५ ॥

भवान् विप्रस्य रूपेण आगतोसि जनार्दन॥
भूतं भविष्यं देवेश वर्तमानं जनार्दन॥ ३६.३६ ॥

ज्ञातं प्रसादाद्रुद्रस्य द्विजत्वं त्यज सुव्रत॥
आराधितोसि देवेश क्षुपेण मधुसूदन॥ ३६.३७ ॥

जाने तवैनां भगवन्भक्तवत्सलतां हरे॥
स्थाने तवैषा भगवन्भक्तवात्सल्यता हरे॥ ३६.३८ ॥

अस्ति चेद्भगवन् भीतिर्भवार्चनरतस्य मे॥
वक्तुमर्हसि यत्नेन वरदाम्बुजलोचन॥ ३६.३९ ॥

वदामि न मृषा तस्मान्न बिभेमि जनार्दन॥
न बिभेमि जगत्यस्मिन् देवदैत्यद्विजादपि॥ ३६.४೦ ॥

नन्द्युवाच॥
श्रुत्वा वाक्यं दधीचस्य तदास्थाय जनार्दनः॥
स्वरूपं सस्मितं प्राह सन्त्यज्य द्विजतां क्षणात्॥ ३६.४१ ॥

श्रीभगवानुवाच॥
भयं दधीच सर्वत्र नास्त्येव तव सुव्रत॥
भवार्चनरतो यस्माद्भवान् सर्वज्ञ एव च॥ ३६.४२ ॥

बिभेमीति सकृद्वक्तुं त्वमर्हसि नमस्तव॥
नियोगान्मम विप्रेन्द क्षुपं प्रति सदस्यथ॥ ३६.४३ ॥

एवं श्रुत्वापि तद्वाक्यं सान्त्वं विष्णोर्महामुनिः॥
न बिभेमीति तं प्राह दधीचो देवसत्तमम्॥ ३६.४४ ॥

प्रभावाद्देवदेवस्य शम्भोः साक्षात्पिनाकिनः॥
शर्वस्य शङ्करस्यास्य सर्वज्ञस्य महामुनिः॥ ३६.४५ ॥

ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः॥
चक्रमुद्यम्य भगवान्दिधक्षुर्मुनिसत्तमम्॥ ३६.४६ ॥

अभवत्कुण्ठिताग्रं हि विष्णोश्चक्रं सुदर्शनम्॥
प्रभावाद्धि दधीचस्य क्षुपस्यैव हि सन्निधौ॥ ३६.४७ ॥

दृष्ट्वा तत्कुण्ठिताग्रं हि चक्रं चक्रिणमाह सः॥
दधीचः सस्मितं साक्षात्सद् व्यक्तिकारणम्॥ ३६.४८ ॥

भगवन् भवता लब्धं पुरातीव सुदारुणम्॥
सुदर्शनमिति ख्यातं चक्रं विष्णो प्रयत्नतः॥ ३६.४९ ॥

भवस्यैतच्छुभं चक्र न जिघांसति मामिह॥
ब्रह्मास्त्राद्यैस्तथान्यैर्हि प्रयत्नं कर्तुमर्हसि॥ ३६.५೦ ॥

शैलादिरुवाच॥
तस्य तद्वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमायुधम्॥
ससर्ज च पुनस्तस्मै सर्वास्त्राणि समन्ततः॥ ३६.५१ ॥

चक्रुर्देवास्ततस्तस्य विष्णोः साहाय्यमव्ययाः॥
द्विजेनैकेन योद्धुं हि प्रवृत्तस्य महाबलाः॥ ३६.५२ ॥

कुशमुष्टिं तदादाय दधीचः संस्मरन्भवम्॥
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी॥ ३६.५३ ॥

दिव्यं त्रिशुलमभवत्कालाग्निसदृशप्रभम्॥
दग्धुं देवान्मतिं चक्रे युगान्ताग्निरिवापरः॥ ३६.५४ ॥

इन्द्रनारायणाद्यैश्च देवैस्त्यक्तानि यानि तु॥
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं मुने॥ ३६.५५ ॥

देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या द्विजोत्तम॥
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः॥ ३६.५६ ॥

आत्मनः सदृशान्दिव्यांल्लक्षलक्षायुतान् गणान्॥
तानि सर्वाणि सहसा ददाह मुनिसत्तमः॥ ३६.५७ ॥

ततो विस्मयनार्थाय विश्वमूर्तिरभूद्धरिः॥
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः॥ ३६.५८ ॥

दधीचो भगवान्विप्रः देवतानां गणान् पृथक्॥
रुद्राणां कोटयश्चैव गणानां कोटयस्तदा॥ ३६.५९ ॥

अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा॥
दृष्ट्वैतदखिलं तत्र च्यावनिर्विस्मितं तदा॥ ३६.६೦ ॥

विष्णुमाह जगन्नाथं जगन्मयमजं विभुम्॥
अम्भसाभ्युक्ष्य तं विष्णुं विश्वरूपं महामुनिः॥ ३६.६१ ॥

मायां त्यज महाबाहो प्रतिभासा विचारतः॥
विज्ञानानां सहस्राणि दुर्विज्ञेयानि माधव॥ ३६.६२ ॥

मयि पश्य जगतसर्वं त्वया सार्धमनिन्दित॥
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते॥ ३६.६३ ॥

इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः॥
तं प्राह च हरिं देवं सर्वदेवभवोद्भवम्॥ ३६.६४ ॥

मायया ह्यनया किं वा मन्त्रशक्त्याथ वा प्रभो॥
वस्तुशक्त्याथ वा विष्णो ध्यानशक्त्याथ वा पुनः॥ ३६.६५ ॥

त्यक्त्वा मायामिमां तस्माद्योद्धुमर्हसि यत्नतः॥
एवं तस्य वचः श्रुत्वा दृष्ट्वा माहात्म्यमद्भुतम्॥ ३६.६६ ॥

देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम्॥
वारयामास निश्चेष्टं पद्मयोनिर्जगद्गुरुः॥ ३६.६७ ॥

निशम्य वचनं तस्य ब्रह्मणस्तेन निर्जितः॥
जगाम भगवान् विष्णुः प्रणिपत्य महामुनिम्॥ ३६.६८ ॥

क्षुपो दुःखातुरो भूत्वा सम्पूज्य च मुनीश्वरम्॥
दधीचमभिवन्द्याशु प्रार्थयामास विक्लवः॥ ३६.६९ ॥

दधीच क्षम्यतां देव मयाऽज्ञानात्कृतं सखे॥
विष्णुना हि सुरैर्वापि रुद्रभक्तस्य किं तव॥ ३६.७೦ ॥

प्रसीद परमेशाने दुर्लभा दुर्जनैर्द्विज॥
भक्तिर्भक्तिमतां श्रेष्ठ मद्विधैः क्षत्रियाधमैः॥ ३६.७१ ॥

श्रुत्वानुगृह्य तं विप्रो दधीचस्तपतां वरः॥
राजानं मुनिसार्दूलः शशाप च सुरोत्तमान्॥ ३६.७२ ॥

रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वरैः॥
ध्वस्ता भवन्तु देवेन विष्णुना च समन्विताः॥ ३६.७३ ॥

प्रजापतेरमखे पुण्ये दक्षस्य मुमहात्मनः॥
एवं शप्त्वा क्षुपं प्रेक्ष्य पुनराह द्विजोत्तमः॥ ३६.७४ ॥

देवैश्च पूज्या राजेन्द्रनृपैश्च विविधैर्गणैः॥
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः॥ ३६.७५ ॥

इत्युक्त्वा स्वोटजं विप्रः प्रविवेश महाद्युतिः॥
दधीचमभिवन्द्यैव जगाम स्वं नृपः क्षयम्॥ ३६.७६ ॥

तदेव तीर्थमभवत्स्थानेश्वरमिति स्मृतम्॥
सथानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात्॥ ३६.७७ ॥

कथितस्तव सङ्क्षेपाद्विवादः क्षुब्दधीचयोः॥
प्रभावश्च दधीचस्य भवस्य च महामुने॥ ३६.७८ ॥

य इदं कीर्तयेद्दिव्यं विवादं क्षुब्दधीचयोः॥
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः॥ ३६.७९ ॥

य इदं कीर्त्य सङ्ग्रामं प्रविशेत्तस्य सर्वदा॥
नास्ति मृत्युभयं चैव विजयी च भविष्यति॥ ३६.८೦ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपदधीचिसंवादो नाम षट्रत्रिंशोऽध्यायः॥ ३६ ॥