०३५

सनत्कुमार उवाच॥
कथं जघान राजानं क्षुपं पादेन सुव्रत॥
दधीचः समरे जित्वा देवदेवं जनार्दनम्॥ ३५.१ ॥

वज्रास्थित्वं कथं लेभे महादेवान्महातपाः॥
वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा॥ ३५.२ ॥

शैलादिरुवाच॥
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः॥
अभून्मित्रो दधीचस्य मुनीन्द्रस्य जनेश्वरः॥ ३५.३ ॥

चिरात्तयोः प्रसङ्गाद्वै वादः क्षुपदधीचयोः॥
अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः॥ ३५.४ ॥

अष्टानां लोकपालानां वपुर्धारयते नृपः॥
तस्मादिन्द्रो ह्ययं वह्निर्यमश्च निर्ऋतिस्तथा॥ ३५.५ ॥

वरुणश्चैव वायुश्च सोमो धनद एव च॥
ईश्वरोहं न सन्देहो नावमन्तव्य एव च॥ ३५.६ ॥

महती देवता या सा महतश्चापि सुव्रत॥
तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम्॥ ३५.७ ॥

नावमन्तव्य एवेह पूजनीयश्च सर्वथा॥
श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः॥ ३५.८ ॥

दधीचश्च्यावनिश्चोग्रो गौरवादात्मनो द्विजः॥
अताडयत्क्षुपं मूर्ध्नि दधीचो वाम मुष्टिना॥
चिच्छेद वज्रेण च तं दधीचं बलवान् क्षुपः॥ ३५.९ ॥

ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसम्भवः॥
लब्धं वज्रं च कार्यार्थं वज्रिमा चोदितः प्रभुः॥ ३५.१೦ ॥

स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः॥
तस्माद्राजा स विप्रेन्द्रमजयद्वै महाबलः॥ ३५.११ ॥

यथा वज्रधरः श्रीमान्बलवांस्तमसान्वितः॥
पपात भूमौ निहतो वज्रोम द्विजपुङ्गवः॥ ३५.१२ ॥

सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम्॥
शुक्रोपि सन्धयामास ताडितं कुलिशेन तम्॥ ३५.१३ ॥

योगादेत्य दधीचस्य देहं देहभृतांवरः॥
सन्धाय पूर्ववद्देहं दधीचस्याह भार्गवः॥ ३५.१४ ॥

भो दधीच महाभाग देवदेवमुमापतिम्॥
सम्पूज्य पूज्यं ब्रह्माद्यैर्देवदेवं निरञ्जनम्॥ ३५.१५ ॥

अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु॥
मृत सञ्जीवनं तस्माल्लब्धमेतन्मया द्विज॥ ३५.१६ ॥

नास्ति मृत्युभयं शम्भोर्भक्तानामिह सर्वतः॥
मृतसञ्जीवनं चापि शैवमद्य वदामि ते॥ ३५.१७ ॥

त्रियम्बकं यजामहे त्रैलोक्यपितरं प्रभुम्॥
त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम्॥ ३५.१८ ॥

त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः॥
त्रिवेदस्य महादेवं सुगान्धिं पुष्टिवर्धनम्॥ ३५.९ ॥(३५.१९)

सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा॥
इन्द्रियेषु तथाऽन्येषु देवेषु च गणेषु च॥ ३५.२೦ ॥

पुष्पेषु गन्धवत्सूक्ष्मः सुगन्धिः परमेश्वरः॥
पुष्टिश्च प्रकृतिर्यस्मात्पुरुषस्य द्विजोत्तम॥ ३५.२१ ॥

महदादिविशेषान्तविकल्पस्यापि सुव्रत॥
विष्णोः पितामहस्यापि मुनीनां च महामुने॥ ३५.२२ ॥

इन्द्रस्यापि च देवानां तस्माद्वै पुष्टिवर्धनः॥
तं देवममृतं रुद्रं कर्मणा तपसा तथा॥ ३५.२३ ॥

स्वाध्यायेन च योगेन ध्यानेन च यजामहे॥
सत्येनानेन मुक्षीयान्मृत्युपाशाद्भवः स्वयम्॥ ३५.२४ ॥

बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः॥
मृतसञ्जीवनो मन्त्रो मया लब्धस्तु शङ्करात्॥ ३५.२५ ॥

जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पीत्वा दिवानिशम्॥
लिङ्गस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं द्विज॥ ३५.२६ ॥

तस्य तद्वचनं श्रुत्वा तपसाराध्य शङ्करम्॥
वज्रास्थित्वमवध्यत्वमदीनत्वं च लब्धवान्॥ ३५.२७ ॥

एवमाराध्य देवेशं दधीचो मुनिसत्तमः॥
प्राप्यावध्यत्वमन्यैश्च वज्रस्थित्वं प्रयत्नतः॥ ३५.२८ ॥

अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि॥
क्षुपो दधीचं वज्रेण जघानोरसि च प्रभुः॥ ३५.२९ ॥

नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः॥
प्रभावात्परमेशस्य वज्रबद्धशरीरिणः॥ ३५.३೦ ॥

दृष्ट्वाप्यवध्यत्वमदीनतां च क्षुपा दधीचस्य तदा प्रभावम्॥
आराधयामास हरिं मुकुन्दमिन्द्रानुजं प्रेक्ष्य तदाम्बुजाक्षम्॥ ३५.३१ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपाबिधनृपपराभववर्णनं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥