०३३

नन्द्युवाच॥
ततस्तुतोष भगवानननुगृह्य महेश्वरः॥
स्तुतिं श्रुत्वा स्तुतस्तेषामिदं वचनमब्रवीत्॥ ३३.१ ॥

यः पठेच्छृणुयाद्वापि युष्माभिः कीर्तितं स्तवम्॥
श्रावयेद्वा द्विजान्विप्रो गाणपत्यमवाप्नुयात्॥ ३३.२ ॥

वक्ष्यामि वो हितं पुण्यं भक्तानां मुनिपुङ्गवाः॥
स्त्रीलिङ्गमखिलं देवी प्रकृतिर्मम देहजा॥ ३३.३ ॥

पुल्ँलिङ्गं पुरुषो विप्रा मम देहसमुद्भवः॥
उभाभ्यामेव वै सृष्टिर्मम विप्रा न संशयः॥ ३३.४ ॥

न निन्देद्यतिनं तस्माद्दिग्वाससमनुत्तमम्॥
बालोन्मत्तविचेष्टं तु मत्परं ब्रह्मावादिनम्॥ ३३.५ ॥

ये हि मां भस्मनिरता भस्मना दग्धकिल्बिषाः॥
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः॥ ३३.६ ॥

महादेवपरा नित्यं चरन्तो ह्यूर्ध्वरेतसः॥
अर्चयन्ति महादेवं वाङ्मनः कायसंयताः॥ ३३.७ ॥

रुद्रलोकमनुप्राप्य न निवर्तन्ति ते पुनः॥
तस्मादेतद्व्रतं दिव्यमव्यक्तं व्यक्तलिङ्गिनः॥ ३३.८ ॥

भस्मव्रताश्च मुण्डाश्च व्रतिनो विश्वरूपिणः॥
न तान्परिवदेद्विद्वान्न चैतान्नाभिलङ्घयेत्॥ ३३.९ ॥

न हसेन्नाप्रियं ब्रूयादमुत्रेह हितार्थवान्॥
यस्ता न्निन्दति मूढात्मा महादेवं स निन्दति॥ ३३.१೦ ॥

यस्त्वेतान्पूजयोन्नित्यं स पूजयति शङ्करम्॥
एवमेष महादेवो लोकानां हितकाम्यया॥ ३३.११ ॥

युगेयुगे महायोगी क्रीडते भस्मगुण्ठितः॥
एवं चरत भद्रं वस्ततः सिद्धिमवाप्स्यथ॥ ३३.१२ ॥

अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा॥
व्यापगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिरुग्रम्॥ ३३.१३ ॥

ततः प्रमुदिता विप्राः श्रुत्वेवं कथितं तदा॥
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः॥ ३३.१४ ॥

स्नापयन्ति महाकुम्भैरद्भिरेव महेश्वरम्॥
गायन्ति विविधैर्गुह्यैर्हुकारैश्चापि सुस्वरैः॥ ३३.१५ ॥

नमो देवाधि देवाय महादेवाय वै नमः॥
अर्धनारीशरीराय साङ्ख्ययोगप्रवर्तिने॥ ३३.१६ ॥

मेघवाहनकृष्णाय गजचर्मनिवासिने॥
कृष्णाजिनोत्तरीयाय व्याल यज्ञोपवीतिने॥ ३३.१७ ॥

सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम्॥
मृगपतिवरचर्मवाससे च प्रथितयशसे नमोऽस्तु शङ्कराय॥ ३३.१८ ॥

ततस्तान्स मुनीन्प्रीतः प्रत्युवाच महेश्वरः॥
प्रीतोस्मि तपसा युष्मान्वरं वृणुत सुव्रताः॥ ३३.१९ ॥

ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम्॥
भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च॥ ३३.२೦ ॥

गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः॥
मरीचिः कश्यपः कण्वः संवर्तश्च महातपाः॥ ३३.२१ ॥

ते प्रणम्य महादेवमिदं वचनमब्रुवन्॥
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता॥ ३३.२२ ॥

सेव्यासेव्यत्वमेवं च ह्येतदिच्छाम वेदितुम्॥
ततस्तेषां वचः श्रुत्वा भगवान्परमेश्वरः॥ ३३.२३ ॥

सस्मितं प्राह सम्प्रेक्ष्य सर्वान्मुनिवरांस्तदा॥ ३३.२४ ॥

इति श्रीलिङ्गमहापुराणे पूर्वबागे ऋषिवाक्यन्नाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥