सनत्कुमार उवाच॥
कथं भव प्रसादेन देवदारुवनौकसः॥
प्रपन्नाः शरणं देवं वक्तुमर्हसि मे प्रभो॥ ३१.१ ॥
शैलादिरुवाच॥
तानुवाच महाभागान्भगवानात्मभूः स्वयम्॥
देवदारुवनस्थांस्तु तपसा पावकप्रभान्॥ ३१.२ ॥
पितामह उवाच॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः॥
न तस्मात्परमं किञ्चित्पदं सम धिगम्यते॥ ३१.३ ॥
देवानां च ऋषीणां च पितॄणां चैव स प्रभुः॥
सहस्रयुगपर्यन्ते पुलये सर्वदेहिनः॥ ३१.४ ॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः॥
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा॥ ३१.५ ॥
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः॥
योगी कृतयुगे चैव त्रेतायां क्रतु रुच्यते॥ ३१.६ ॥
द्वापरे चैव कालाग्निर्धमकेतुः कलौ स्मृतः॥
रुद्रस्य मूर्तयस्त्वेता येऽभिध्यायान्ति पण्डिताः॥ ३१.७ ॥
चतुरस्रं बहिश्चान्तरष्टास्रं पिण्डिकाश्रये॥
वृत्तं सुदर्शनं योग्यमेवं लिङ्गं प्रपूजयेत्॥ ३१.८ ॥
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम्॥
मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः॥ ३१.९ ॥
यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम्॥
तस्माद्धि देवदेवेशमीशानं प्रभुमव्ययम्॥ ३१.१೦ ॥
आराधयन्ति विप्रेन्द्रा जितक्रोधा जितोन्द्रियाः॥
लिङ्गं कृत्वा यथान्यायं सर्वलक्षणसंयुतम्॥ ३१.११ ॥
अङ्गुष्ठमात्रं सुशुभं सुवृत्तं सर्वसम्मतम्॥
समनाभं तथाष्टास्रं षोडशास्रमतापि वा॥ ३१.१२ ॥
सुवृत्तं मण्डलं दिव्यं सर्वकामफलप्रदम्॥
वेदिका द्विगुणा तस्य समा वा सर्वसम्मता॥ ३१.१३ ॥
गोमुखी च त्रिभागैका वेद्या लक्षणसयुता॥
पट्टिका च समन्ताद्वै यवमात्रा द्विजोत्तमाः॥ ३१.१४ ॥
सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा॥
वेदिकायाश्च विस्तारं त्रिगुणं वै समन्ततः॥ ३१.१५ ॥
वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम्॥
समन्तान्निर्व्रणं शुभ्रं लक्षणैस्तत्सुलीक्षितम्॥ ३१.१६ ॥
प्रतिष्ठाप्य यथान्यायं पूजालक्षणसंयुतम्॥
कलशं स्थापयेत्तस्य वेदिमध्ये तथा द्विजाः॥ ३१.१७ ॥
सहिरण्यं सबीजं च ब्रह्मभिश्चाभिमन्त्रितम्॥
सेचयेच्च ततो लिङ्गं पवित्रैः पञ्चभिः शुभैः॥ ३१.१८ ॥
पूजयेच्च यथालाभं ततः सिद्धिमवाप्स्यथ॥
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः॥ ३१.१९ ॥
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यत॥
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः॥ ३१.२೦ ॥
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति॥
ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम्॥ ३१.२१ ॥
सम्प्रस्थिता वनौकास्ते देवदारुवनं ततः॥
आराधयितुमारब्धा ब्रह्मणा कथितं यथा॥ ३१.२२ ॥
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च॥
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च॥ ३१.२३ ॥
शैवालशोभनाः केचित्केचिदन्तर्जलेशयाः॥
केचिद्दर्भावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः॥ ३१.२४ ॥
दन्तोलूखलिनस्त्वन्ये अश्मकुट्टास्तथा परे॥
स्थानवीरासनास्त्वन्ये मृगचर्यारताः परे॥ ३१.२५ ॥
कालं नयान्ति तपसा पूजया च महाधियः॥
एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते॥ ३१.२६ ॥
ततस्तेषां प्रसादार्थं भक्तानामनुकम्पया॥
देवः कृतयुगे तस्मिन्गिरौ हिमवतः शुभे॥ ३१.२७ ॥
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः॥
भस्मपांसूपदिग्धाङ्गो नग्नो विकृतलक्षणः॥ ३१.२८ ॥
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः॥
क्वचिच्चहसते रौद्रं क्वचिद्गायति विस्मितः॥ ३१.२९ ॥
क्वचिन्नृत्यति श्रृङ्गारं क्वचिद्रौति मुहुर्मुहुः॥
आश्रमे ह्यटते भैक्ष्यं याचते च पुनः पुनः॥ ३१.३೦ ॥
मायां कृत्वा तथारूपां देवस्तद्वनमागतः॥
ततस्ते मुनयः सर्वे तुष्टुवुश्च समाहिताः॥ ३१.३१ ॥
अद्भिर्विविधमाल्यैश्च धूपैर्गन्धैस्तथैव च॥
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः॥ ३१.३२ ॥
मुनयस्ते तथा वाग्भिरीश्वरं चेदमब्रुन्॥
अज्ञानाद्देवदेवेश यदस्माभिरनुष्ठितम्॥ ३१.३३ ॥
कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि॥
चरितानि विचित्राणी गुह्यानि गहनानि च॥ ३१.३४ ॥
ब्रह्मादीनां च देवानां दुर्विज्ञे यानि ते हर॥
अगतिं ते न जानीमो गतिं नैव च नैव च॥ ३१.३५ ॥
विश्वेश्वर महादेव योसि सोसि नमोस्तु ते॥
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम्॥ ३१.३६ ॥
नमो भवाय भव्याय भावनायोद्भवाय च॥
अनन्तबलवीर्याय भूतानां पतये नमः॥ ३१.३७ ॥
संहर्त्रे च पिशङ्गाय अव्ययाय व्ययाय च॥
गङ्गासलिलधाराय आधाराय गुणात्मने॥ ३१.३८ ॥
त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे॥
कन्दर्पाय हुताशाय नमोस्तु परमात्मने॥ ३१.३९ ॥
शङ्कराय वृषाङ्काय गणानां पतये नमः॥
दण्डहस्ताय कालाय पाशहस्ताय वै नमः॥ ३१.४೦ ॥
वेदमन्त्रप्रधानाय शतजिह्वाय वै नमः॥
भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत्॥ ३१.४१ ॥
तव देहात्समुत्पन्नं देव सर्वमिदं जगत्॥
पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः॥ ३१.४२ ॥
अज्ञानाद्यदि विज्ञानाद्यत्किञ्चित्कुरुते नरः॥
तत्सर्वं भगवानेव कुरुते योगमायया॥ ३१.४३ ॥
एवं स्तुत्वा तु मुनयः प्रहृष्टैरन्तरात्मभिः॥
याचन्त तपसा युक्तः पश्यामस्त्वां यथापुरा॥ ३१.४४ ॥
ततो देवः प्रसन्नात्मा स्वमेवास्थाय शङ्करः॥
रूपं त्र्यक्षं च सन्द्रष्टुं दिव्यं चक्षुरदात्प्रभुः॥ ३१.४५ ॥
लब्धदृष्ट्या तया दृष्ट्वा देवदेवं त्रियम्बकम्॥
पुनस्तुष्टुवुरीशानं देवदारुवनौकसः॥ ३१.४६ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकत्रिंशोध्यायः॥ ३१ ॥