०३०

शैलादिरुवाच॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः॥
श्वेतस्य च कथां पुण्यामपृच्छन्परमर्षयः॥ ३೦.१ ॥

पितामह उवाच॥
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे॥
सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम्॥ ३೦.२ ॥

रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः॥
ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम्॥ ३೦.३ ॥

नेतुं सञ्चित्य विप्रेन्द्रास्सान्निध्यमकरोन्मुनेः॥
श्वेतोपि दृष्ट्वा तं कालं कालप्राप्तोपि शङ्करम्॥ ३೦.४ ॥

पूजयामास पुण्यात्मा त्रियम्बकमनुस्मरन्॥
त्रियम्बकं यजेदेवं सुगन्धिं पुष्टिवर्धनम्॥ ३೦.५ ॥

किं करिष्यति मे मृत्युर्मृत्योर्मृत्युरहं यतः॥
तं दृष्ट्वा सस्मितं प्राह श्वेतं लोकभयङ्करः॥ ३೦.६ ॥

एह्येहि श्वेता चानेन विधिना किं फलं तव॥
रुद्रो वा भगवान् विष्णुर्ब्रह्मा वा जगदीश्वरः॥ ३೦.७ ॥

कः समर्थः परित्रातुं मया ग्रस्तं द्विजोत्तम॥
अनेन मम किं विप्र रौद्रेण विधिना प्रभोः॥ ३೦.८ ॥

नेतुं यस्योत्थितश्चाहं यमलोकं क्षणेन वै॥
यस्माद्गतायुस्त्वं तस्मान्मुने नेतुमिहोद्यतः॥ ३೦.९ ॥

तस्य तद्वचनं श्रुत्वा भैरवं धर्ममिश्रितम्॥
हा रुद्र रुद्ररुद्रेति ललाप मुनिपुङ्गवः॥ ३೦.१೦ ॥

तं प्राह च महादेवं कालं सम्प्रेक्ष्य वै दृशा॥
नेत्रेण बाष्पमिश्रेण सम्भ्रान्तेन समाकुलः॥ ३೦.११ ॥

श्वेत उवाच॥
त्वया किं काल नो नाथश्चास्ति चेद्धि वृषध्वजः॥
लिङ्गेऽस्मिन् शङ्करो रुद्रः सर्वदेवभवोद्भवः॥ ३೦.१२ ॥

अतीव भवभक्तानां मद्विधानां महात्मनाम्॥
विधिना किं महाबाहो गच्छ गच्छ यथागतम्॥ ३೦.१३ ॥

ततो निशम्य कुपितस्तीक्ष्णदंष्ट्रो भयङ्करः॥
श्रुत्वा श्वेतस्य तद्वाक्यं पाशहस्तो भयावहः॥ ३೦.१४ ॥

सिंहनादं महत्कृत्वा चास्फाट्य च मुहुर्मुहुः॥
बबन्ध च मुनिं कालः कालप्राप्तं तमाह च॥ ३೦.१५ ॥

मया बद्धोसि विप्रर्षे श्वेतं नेतुं यमालयम्॥
अद्य वै देवदेवेन तव रुद्रेण किं कृतम्॥ ३೦.१६ ॥

क्व शर्वस्तव भक्तिश्च क्व पूजा पूजया फलम्॥
क्व चाहं क्व च मे भीतिः श्वेत बद्धोसि वै मया॥ ३೦.१७ ॥

लिङ्गेस्मिन् संस्थितः श्वेत तव रुद्रो महेश्वरः॥
निश्चेष्टोसौ महादेवः कथं पूज्यो महेश्वरः॥ ३೦.१८ ॥

ततः सदाशिवः स्वयं द्विजं निहन्तुमागतम्॥
निहन्तुमन्तकं स्मयन् स्मरारियज्ञहा हरः॥ ३೦.१९ ॥

त्वरन् विनिर्गतः परः शिवः स्वयं त्रिलोचनः॥
त्रियम्बकोऽम्बया समं सनन्दिना गणेश्वरैः॥ ३೦.२೦ ॥

ससर्ज जीवितं क्षणाद्भवं निरिक्ष्य वै भयात्॥
पपात चाशु वै बली मुनेस्तु सन्निधौ द्विजाः॥ ३೦.२१ ॥

ननाद चोर्ध्वमुच्चधीर्निरीक्ष्य चान्तकान्तकम्॥
निरीक्षणेन वै मृतं भवस्य विप्रपुङ्गवाः॥ ३೦.२२ ॥

विनेदुरुच्चमीश्वराः सुरेश्वरा महेश्वरम्॥
प्रणेमुरम्बिकामुमां मुनीश्वरास्तु हर्षिताः॥ ३೦.२३ ॥

ससर्जुरस्य मूर्ध्नि वै मुनेर्भवस्य खेचराः॥
सुशोभनं सुशीतलं सुपुष्पवर्षमम्बरात्॥ ३೦.२४ ॥

अहो निरीक्ष्य चान्तकं मृतं तदा सुविस्मितः॥
शिलाशनात्मजोऽव्ययं शिवं प्रणम्य शङ्करम्॥ ३೦.२५ ॥

उवाच बालधीर्मृतः प्रसीद चेति वै मुनेः॥
महेश्वरं महेश्वरस्यचानुगो गणेश्वरः॥ ३೦.२६ ॥

ततो विवेश भगवाननुगृह्य द्विजोत्तमम्॥
क्षणाद्गूढशरीरं हि ध्वस्त दृष्ट्वान्तकं क्षणात्॥ ३೦.२७ ॥

तस्मान्मृत्युञ्जयं चैव भक्त्या सम्पूजये द्विजाः॥
मुक्तिदं भुक्तिदं चैव सर्वेषामपि शङ्करम्॥ ३೦.२८ ॥

बहुना किं प्रलापेन सन्न्यस्याभ्यर्च्य वै भवम्॥
भक्त्या चापरया तस्मिन् विशोका वै भविष्यथ॥ ३೦.२९ ॥

शैलादिरुवाच॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्रह्मवादिनः॥
प्रसीदभक्तिर्देवेशे भवेद्रुद्रे पिनाकिनि॥ ३೦.३೦ ॥

केन वा तपसा देव यज्ञेनाप्यथ केन वा॥
व्रतैर्वा भगवद्भक्ता भविष्यन्ति द्विजातयः॥ ३೦.३१ ॥

पितामह उवाच॥
न दानेन मुनिश्रेष्ठास्तपसा च न विद्यया॥
यज्ञैर्होमैर्व्रतैर्वेदैर्योगशास्त्रैर्निराधनैः॥ ३೦.३२ ॥

प्रसादे नैव सा भक्तिः शिवे परमकारणे॥
अथ तस्य वचः शुत्वा सर्वे ते परमर्षयः॥ ३೦.३३ ॥

सदारतनयाः श्रान्ताः प्रणेमुश्च पितामहम्॥
तस्मात्पाशुपती भक्तिर्धर्मकामार्थसिद्धिदा॥ ३೦.३४ ॥

मुनोर्विजयदा चैव सर्वमृत्युजयप्रदा॥
दधीचस्तु पुरा भक्त्या हरिं जित्वामरैर्विभुम्॥ ३೦.३५ ॥

क्षयं जघान पादेन वज्रास्थित्वं च लब्धवान्॥
मयापि निर्जितो मृत्युर्महादेवस्य कीर्तनात्॥ ३೦.३६ ॥

श्वेतेनापि गतेनास्यं मृत्योर्मुनिवरेणतु॥
महादेवप्रसादेन जितो मृत्युर्यथा मया॥ ३೦.३७ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रिंशोध्यायः॥ ३೦ ॥