सनत्कुमार उवाच॥
इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो॥
प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम्॥ २९.१ ॥
कथं दारुवनं प्राप्तो भगवान्नीललोहितः॥
विकृतं रूपमास्थाय चोर्ध्वरेता दिगम्बरः॥ २९.२ ॥
किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः॥
वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम्॥ २९.३ ॥
सूत उवाच॥
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः॥
शिलादसूनुर्भगवान्प्राह किञ्चिद्भवं हसन्॥ २९.४ ॥
शैलादिरुवाच॥
मुनयो दारुगहने तपस्तेपुः सुदारुणम्॥
तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः॥ २९.५ ॥
तुष्टो रुद्रो जगन्नाथश्चेकितानो वृषध्वजः॥
धूर्जटिः परमेशानो भगवान्नीललोहितः॥ २९.६ ॥
प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम्॥
परीक्षार्थं जगन्नाथाः श्रद्धया क्रीडया च सः॥ २९.७ ॥
निवृत्तिलक्षणज्ञानप्रतिष्ठार्थं च शङ्करः॥
देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम्॥ २९.८ ॥
विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः॥
मुग्धो द्विहस्तः कृष्णाङ्गो दिव्यं दारुवनं ययौ॥ २९.९ ॥
मन्दस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम्॥
भ्रूविलासं च गानं च चकारातीव सुन्दरः॥ २९.१೦ ॥
सम्प्रोक्ष्य नारीवृन्दं वै मुहुर्मुहुरनङ्गहा॥
अन्नगवृद्धिमकरोदतीव मधुराकृतिः॥ २९.११ ॥
वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम्॥
स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात्॥ २९.१२ ॥
वनोटजद्वारगताश्च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः॥
लब्ध्वा स्मितं तस्य मुखारविन्दाद्द्रुमालयस्थास्तमथान्वयुस्ताः॥ २९.१३ ॥
दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः॥
विलासबाह्यस्ताश्चापि भ्रूविलासं प्रचक्रिरे॥ २९.१४ ॥
अथ दृष्ट्वापरा नार्यः किञ्चित्प्रहसिताननाः॥
किञ्चिद्विस्रस्तवसनाः स्रस्तकाञ्चीगुणा जगुः॥ २९.१५ ॥
काश्चित्तदा तं विपिने तु दृष्ट्वा विप्राङ्गनाः स्रस्तनवांशुकं वा॥
स्वान्स्वान्विचित्रान् वलयान्प्रविध्य मदान्विता बन्धुजनांश्च जग्मुः॥ २९.१६ ॥
काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च॥
शाखाविचित्रान् विटपान्प्रसिद्धान्मदान्विता बन्धुजनांस्तथान्याः॥ २९.१७ ॥
काश्चिज्जगुस्तं ननृतुर्निपेतुश्च धरातले॥
निषेदुर्गजवच्चान्या प्रोवाच द्विजपुङ्गवाः॥ २९.१८ ॥
अन्योन्यं सस्मितं प्रेक्ष्य चालिलिङ्गुः समन्ततः॥
निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे॥ २९.१९ ॥
को भवानिति चाहुस्तं आस्यतामिति चापराः॥
कुत्रेत्यथ प्रसीदेति जजल्पु प्रीतमानसाः॥ २९.२೦ ॥
विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः॥
पतिव्रताः पतीनां तु सन्निधौ भवमायया॥ २९.२१ ॥
दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः॥
शुभं वाप्यशुभं वापि नोक्तवान्परमेश्वरः॥ २९.२२ ॥
दृष्ट्वा नारीकुलं विप्रास्तथाभूतं च शङ्करम्॥
अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः॥ २९.२३ ॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे॥
यथादित्यप्रकाशेन तारका नभसि स्थिताः॥ २९.२४ ॥
श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः॥
समृद्धश्रेयसां योनिर्यज्ञा वै नाशमाप्तवान्॥ २९.२५ ॥
भृगोरपि च शापेन विष्णुः परमवीर्यवान्॥
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः॥ २९.२६ ॥
इन्द्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा॥
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्॥ २९.२७ ॥
गर्भवासो वसूनां च शापेन विहितस्तथा॥
ऋषीणां चैव शापेन नहुषः सर्पतां गतः॥ २९.२८ ॥
क्षीरोदश्च समुद्रोसौ निवासः सर्वदा हरेः॥
द्वितीयश्चामृताधारो ह्यपेयो ब्राह्मणैः कृतः॥ २९.२९ ॥
अविमुक्तेश्वरं प्राप्य वाराणस्यां जनार्दनः॥
क्षीरेण चाभिषिच्येशं देवदेवं त्रियम्बकम्॥ २९.३೦ ॥
श्रद्धया परया युक्तो देहाश्लेषामृतेन वै॥
निषिक्तेन स्वयं देवः क्षीरेण मधुसूदनः॥ २९.३१ ॥
सेचयित्वाथ भगवान्ब्रह्मणा मुनिभिः समम्॥
क्षीरोदं पूर्ववच्चक्रेनिवासं चात्मनः प्रभुः॥ २९.३२ ॥
धर्मश्चैव तथा शप्तो माण्डव्येन महात्मना॥
वृष्णयश्चैव कृष्णेन दुर्वासाद्यैर्महात्मभिः॥ २९.३३ ॥
राघवः सानुजश्चापि दुर्वासेन महात्मना॥
श्रीवत्सश्च मुनेः पादपतनात्तस्य धीमतः॥ २९.३४ ॥
एते चान्ये च बहवो विप्राणां वशमागताः॥
वर्जयित्वा विरूपाक्षं देवदेवमुमापतिम्॥ २९.३५ ॥
एवं हि मोहितास्तेन नावबुध्यन्त शङ्करम्॥
अत्युग्रवचनं प्रोचुश्चोग्रोप्यन्तरधीयत॥ २९.३६ ॥
तेपि दारुवनात्तस्मात्प्रातः संविग्नमानसाः॥
पितामहं महात्मानमासीनं परमासने॥ २९.३७ ॥
गत्वा विज्ञापयामासुः प्रवृत्तमखिलं विभोः॥
शुभे दारुवने तस्मिन् मुनयः क्षीणचेतसः॥ २९.३८ ॥
सोपि सञ्चिन्त्य मनसा क्षणादेव पितामहः॥
तेषां प्रवृत्तमखिलं पुण्ये दारुवने पुरा॥ २९.३९ ॥
उत्थाय प्राञ्जलिर्भूत्वा प्रणिपत्य भवाय च॥
उवाच सत्वरं ब्रह्मा मुनीन्दारुवनालयान्॥ २९.४೦ ॥
धिग्युष्मान्प्राप्तनिधनान्महानिधिमनुत्तमम्॥
वृथाकृतं यतो विप्रा युष्माभिर्भाग्यवर्जितैः॥ २९.४१ ॥
यस्तु दारुवने तस्मिल्लिङ्गी दृष्टोप्यलिङ्गिभिः॥
युष्माभिर्विकृताकारः स एव परमेश्वरः॥ २९.४२ ॥
गृहस्थैश्च न निन्द्यास्तु सदा ह्यतिथयो द्विजाः॥
विरूपाश्च सुरूपाश्च मलिनाश्चाप्यपण्डिताः॥ २९.४३ ॥
सुदर्शनेन मुनिना कालमृत्युरपि स्वयम्॥
पुरा भूमौ द्विजाग्र्येण जिता ह्यतिथिपूजया॥ २९.४४ ॥
अन्यथा नास्ति सन्तर्तुं गृहस्थैश्च द्विजोत्तमैः॥
त्यक्त्वा चातिथिपूजां तामात्मनो भुवि शोधनम्॥ २९.४५ ॥
गृहस्थोपि पुरा जेतुं सुदर्शन इति श्रुतः॥
प्रतिज्ञामकरोज्जायां भार्यामाह पतिव्रताम्॥ २९.४६ ॥
सुव्रते सुभ्रु सुभगे श्रृणु सर्वं प्रयत्नतः॥
त्वया वै नावमन्तव्या गृहे ह्यतिथयः सदा॥ २९.४७ ॥
सर्व एव स्वयं साक्षादतिथिर्यत्पिनाकधृक्॥
तस्मादतिथये दत्त्वा आत्मानमपि पूजय॥ २९.४८ ॥
एवमुक्त्वाथ सन्तप्ता विवशा सा पतिव्रता॥
पतिमाह रुदन्ती च किमुक्तं भवता प्रभो॥ २९.४९ ॥
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह सुदर्शनः॥
देयं सर्वं शिवायार्ये शिव एवातिथिः स्वयम्॥ २९.५೦ ॥
तस्मात्सर्वे पूजनीयाः सर्वेप्यतिथयः सदा॥
एवमुक्ता तदा भर्त्रा भार्या तस्य पतिव्रता॥ २९.५१ ॥
शेषामिवाज्ञामादाय मूर्ध्ना सा प्राचरत्तदा॥
परीक्षितुं तथा श्रद्धां तयोः साक्षाद्द्विजोत्तमाः॥ २९.५२ ॥
धर्मो द्विजोत्तमो भूत्वा जगामाथ मुनेर्गृहम्॥
तं दृष्ट्वाचार्चयामास सार्घाद्यैरनघा द्विजम्॥ २९.५३ ॥
सम्पूजितस्तया तां तु प्राह धर्मो द्विजः स्वयम्॥
भद्रे कुतः पतिर्धीमांस्तव भर्ता सुदर्शनः॥ २९.५४ ॥
अन्नाद्यैरलमद्यार्ये स्वं दातुमिह चार्हसि॥
सा च लज्जावृता नारी स्मरन्ती कथितं पुरा॥ २९.५५ ॥
भर्त्रा न्यमीलयन्नेत्रे चचाल च पतिव्रता॥
किञ्चैत्याह पुनस्तं वै धर्मे चक्रे च सा मतिम्॥ २९.५६ ॥
निवेदितुं किलात्मानं तस्मै पत्युरिहाज्ञया॥
एतस्मिन्नन्तरे भर्ता तस्या नार्याः सुदर्शनः॥ २९.५७ ॥
गृहद्वारं गतो धीमांस्तामुवाच महामुनिः॥
एह्येहि क्व गता भद्रे तमुवाचातिथिः स्वयम्॥ २९.५८ ॥
भार्यया त्वनया सार्धं मैथुनस्थोऽहमद्य वै॥
सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम्॥ २९.५९ ॥
सुरतान्तस्तु विप्रेन्द्र सन्तुष्टोहं द्विजोत्तम॥
सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः॥ २९.६೦ ॥
भुङ्क्ष्य चैनां यताकामं गमिष्येहं द्विजोत्तम॥
हृष्टोथ दर्शयामास स्वात्मानं धर्मराट् स्वयम्॥ २९.६१ ॥
प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः॥
एषा न भुक्ता विप्रेन्द्र मनसापि सुशोभना॥ २९.६२ ॥
मया चैषा न सन्देहः श्रद्धां ज्ञातुमिहागतः॥
जितो वै यस्त्वया मृत्युर्धर्मेणैकेन सुव्रत॥ २९.६३ ॥
अहोस्य तपसो वीर्यमित्युक्त्वा प्रययौ च सः॥
तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा॥ २९.६४ ॥
बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः॥
तमेव शरणं तूर्णं गन्तुमर्हथ शङ्करम्॥ २९.६५ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः॥
ब्रह्माणमभिवन्द्यार्ताः प्रोचुराकुलितेक्षणाः॥ २९.६६ ॥
ब्राह्मणा ऊचुः॥
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः॥
दृष्टोस्माभिर्महादेवो निन्दितो यस्त्वनिन्दितः॥ २९.६७ ॥
शप्तश्च सर्वगः शूली पिनाकी नीललोहितः॥
अज्ञानाच्छापजा शक्तिः कुण्ठितास्यनिरीक्षणात्॥ २९.६८ ॥
वक्तुमर्हसि देवेश सन्न्यासं वै क्रमेण तु॥
द्रष्टुं वै देवदेवेशमुग्रं भीमं कपर्दिनम्॥ २९.६९ ॥
पितामह उवाच॥
आदौ वेदानधीत्यैव श्रद्धया च गुरोः सदा॥
विचार्यार्थं मुनेर्धर्मान् प्रतिज्ञाय द्विजोत्तमाः॥ २९.७೦ ॥
ग्रहणान्तं हि वा विद्वानथ द्वादश वार्षिकम्॥
स्नात्वाहृत्य च दारान्वै पुत्रानुत्पाद्य सुव्रतान्॥ २९.७१ ॥
वृत्तिभिश्चानुरूपाभिस्तान्विभज्य सुतान्मुनिः॥
अग्निष्टोमादिभिश्चेष्ट्वा यज्ञैर्यज्ञेश्वरं विभुम्॥ २९.७२ ॥
पूयेत्परमात्मानं प्राप्यारण्यं विभावसौ॥
मुनिर्द्वादशवर्षं वा वर्षमात्रमथापि वा॥ २९.७३ ॥
पक्षद्वादशकं वापि दिनद्वादशकं तु वा॥
क्षीरभुक् संयुतः शान्तः सर्वान् सम्पूजयेत्सुरान्॥ २९.७४ ॥
इष्ट्वैवं जुहुयादग्नौ यज्ञपात्राणि मन्त्रतः॥
अप्सु वै पार्थिवं न्यस्य गुरवे तैजसानि तु॥ २९.७५ ॥
स्वधनं सकलं चैव ब्राह्मणेब्यो विशङ्कया॥
प्रणिपत्य गुरुं भूमौ विरक्तः सन्न्यसेद्यतिः॥ २९.७६ ॥
निकृत्य केशान्सशिखानुपवीतं विसृज्य च॥
पञ्चभिर्जुहुयादप्सु भूः स्वाहेति विचक्षणः॥ २९.७७ ॥
ततश्चोर्ध्वं चरेदेवं यतिः शिवविमुक्तये॥
व्रतेनानशनेनापि तोयवृत्त्यापि वा पुनः॥ २९.७८ ॥
पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः॥
एवं जीवन्मृतो नो चेत् षण्मासाद्वत्सरात्तु वा॥ २९.७९ ॥
प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः॥
शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन्॥ २९.८೦ ॥
सद्योपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः॥ २९.८१ ॥
त्यागेन वा किं विधिनाप्यनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च॥
यज्ञैश्च दानैर्विविधैश्च होमैर्लब्धैश्चशास्त्रैर्विविधैश्च वेदैः॥ २९.८२ ॥
श्वेतेनैवं जितो मृत्युर्भवभक्त्या महात्मना॥
वोस्तु भक्तिर्महादेवे शङ्करे परमात्मनि॥ २९.८३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनत्रिंशोध्यायः॥ २९ ॥